मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ३२

3
उमासंहिता · 32

कश्यपवंशवर्णनम्

सूत उवाच

अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च ।

सुरभिर्विनता चेला ताम्रा क्रोधवशा तथा

॥१॥

कदूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु ।

पूर्वमन्वंतरे श्रेष्ठे द्वादशासन्सुरोत्तमाः

॥२॥

तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेंतरे ।

उपस्थिते सुयशसश्चाक्षुषस्यांतरे मनोः

॥३॥

हिताय सर्वलोकानां समागम्य परस्परम् ।

आगच्छतस्तु तानूचुरदितिं च प्रविश्य वै

॥४॥

मन्वंतरे प्रसूयामस्सतां श्रेयो भविष्यति ।

एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः

॥५॥

मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया ।

तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि

॥६॥

अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ।

विवस्वान्सविता चैव मित्रावरुण एव च

॥७॥

अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ।

पूर्वमासन्ये तुषितास्सुराः

॥८॥

पुरैव तस्यांतरे तु आदित्या द्वादश स्मृताः ।

इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक

॥९॥

सप्तविंशति याः प्रोक्तास्सोमपत्न्योऽथ सुव्रताः ।

तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः

॥१०॥

अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।

बहुपुत्रस्य विदुषश्चतस्रो यास्सुताः स्मृताः

॥११॥

कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः ।

भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च

॥१२॥

स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ।

स्वधासूत पितॄन्वेदमथर्वाङ्गिरसं सती

॥१३॥

एते युगसहस्रांते जायंते पुनरेव हि ।

सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः

॥१४॥

यथा सूर्य्यस्य नित्यं हि उदयास्तमयाविह ।

एवं देवानिकास्ते च संभवंति युगेयुगे

॥१५॥

दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम् ।

हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान्

॥१६॥

सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः ।

हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः

॥१७॥

अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् ।

प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः

॥१८॥

अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा ।

ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम्

॥१९॥

संह्रादस्य कृतिर्भार्यासूतः पंचजनं ततः ।

विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद्बलिः

॥२०॥

बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर ।

बलिरासीन्महाशैवः शिवभक्तिपरायणः

॥२१॥

दानशील उदारश्च पुण्यकीर्ति तपाः स्मृतः ।

तत्पुत्रो बाणनामा यत्सोऽषि शैववरस्सुधीः ।

यस्संतोष्य शिवं सम्यग्गाणपत्यमवाप ह

॥२२॥

सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः ।

कृष्णं यस्समरे वीरस्सुप्रसन्नं चकार ह

॥२३॥

हिरण्याक्षसुताः पंच पंडितास्तु महाबलाः ।

कुकुरः शकुनिश्चैव भूतसंतापनस्तथा ।

२४ महानादश्च विक्रांतः कालनाभस्तथैव च ।

इत्युक्ता दितिपुत्राश्च दनोः पुत्रान्मुने शृणु

॥२५॥

अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ।

अयोमुखश्शंबरश्च कपोलो वामनस्तथा

॥२६॥

वैश्वानरः पुलोमा च विद्रावणमहाशिरौ ।

स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान्

॥२७॥

एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे ।

एषां पुत्राञ्च्छृणु मुने प्रसंगाद्वच्मि तेऽनघ

॥२८॥

स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ।

उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी

॥२९॥

पुलोमा पुलोमिका चैव वैश्वानरसुते उभे ।

बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः

॥३०॥

तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ।

मरीचिर्जनयामास महता तपसान्वितः

॥३१॥

पौलोमाः कालखंजाश्च दानवानां महाबला ।

अवध्या देवतानां च हिरण्यपुरवासिनः

॥३२॥

पितामहप्रसादेन ये हताः सव्यसाचिना ।

सिंहिकायामथोत्पन्ना विप्रचित्तेस्सुतास्तथा

॥३३॥

दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।

सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः

॥३४॥

राहुः शल्यो सुबलिनो बलश्चैव महाबलः ।

वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा

॥३५॥

अजिको नरकश्चैव कालनाभस्तथैव च ।

शरमाणश्शरकल्पश्च एते वंशविवर्द्धनाः

॥३६॥

एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः ।

बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः .

॥३७॥

संह्रादस्य तु दैतेया निवातकवचाः कुले ।

उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः

॥३८॥

षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः ।

काकी श्येनी च भासी च सुग्रीवी च शुकी तथा

॥३९॥

गृद्ध्रिकाश्वी ह्युलूकी च ताम्रा कन्याः प्रकीर्तिताः ।

काकी काकानजनयदुलूकी प्रत्युलूककान्

॥४०॥

श्येनी श्येनांस्तथा भासी भासा न्गृद्धी तु गृध्रकान् ।

शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः

॥४१॥

अश्वानुष्ट्रान्गर्दभांश्च ताम्रा च कश्यपप्रिया ।

जनयामास चेत्येवं ताम्रावंशाः प्रकीर्तिताः

॥४२॥

विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा ।

सुपर्णः पततां श्रेष्ठो नारुणस्स्वेन कर्मणा

॥४३॥

सुरसायास्सहस्रं तु सर्पाणाममितौजसाम् ।

अनेकशिरसां तेषां खेचराणां महात्मनाम्

॥४४॥

येषां प्रधाना राजानः शेषवासुकितक्षकाः ।

ऐरावतो महापद्मः कंबलाश्वतरावुभौ

॥४५॥

ऐलापुत्रस्तथा पद्मः कर्कोटकधनंजयौ ।

महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः

॥४६॥

कुहरः पुष्पदन्तश्च दुर्मुखास्सुमुखस्तथा ।

बहुशः खररोमा च पाणिरित्येवमादयः

॥४७॥

गणाः क्रोधवशायाश्च तस्यास्सर्वे च दंष्ट्रिणः ।

अंडजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः

॥४८॥

अनायुषायाः पुत्राश्च पंचाशच्च महाबलाः ।

अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा

॥४९॥

शशांस्तु जनयामास सुरभिर्महिषांस्तथा ।

इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः

॥५०॥

खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।

अरिष्टासूत सर्पांश्च प्रभावैर्मानवोत्तमान्

॥५१॥

एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर ।

येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः

॥५२॥

इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥