मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ४३

3
उमासंहिता · 43

व्यासपूजनप्रकारः

शौनक उवाच

आचार्य्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ।

ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो

॥१॥

सूत उवाच

पूजयेद्विधिवद्भक्त्याचार्य्यं श्रुत्वा कथां पराम् ।

ग्रन्थान्ते विधिवद्दद्यादाचार्य्याय प्रसन्नधीः

॥२॥

ततो वक्तारमानम्य संपूज्य च यथाविधि ।

भूषणैर्हस्तकर्णानां वस्त्रैस्सौम्यादिभिस्सुधीः

॥३॥

शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ।

कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम्

॥४॥

तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ।

आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः

॥५॥

ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ।

मुने सर्वाणि देयानि वाचकाय महात्मने

॥६॥

विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ।

पुराणं शौनकमुने सत्यमेवोदितं मया

॥७॥

तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने ।

पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः

॥८॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥