मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ५१

3
उमासंहिता · 51

व्यासशिष्य महाभाग सूत पौराणिकोत्तम

मुनय ऊचुः

व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।

अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः

॥१॥

उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ।

प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने

॥२॥

सूत उवाच

धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ।

पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात्

॥३॥

व्यास उवाच

सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ।

उमायाश्श्रोतुमिच्छामि क्रियायोगं महाद्भुतम्

॥४॥

कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ।

प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे

॥५॥

सनत्कुमार उवाच

द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ।

तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः

॥६॥

ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ।

त्रयो मार्गास्समाख्याताः श्रीमातुर्मुक्तिमुक्तिदा

॥७॥

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।

यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते

॥८॥

भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ।

त्रयाणामपि योगानां क्रियायोगस्स उच्यते

॥९॥

कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।

ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः

॥१०॥

प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ।

क्रियायोगस्तु योगस्य परमन्ध्येयसाधनम् ।

मायान्तु प्रकृतिं विद्यान्मायावि ब्रह्म शाश्वतम् ।

अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात्

॥१२॥

यस्तु देव्यालयं कुर्यात्पाषाणन्दारवन्तथा ।

मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ।

अहन्यहनियोगेन जयतो यन्महाफलम्

॥१३॥

प्राप्नोति तत्फलन्देव्या यः कारयति मन्दिरम् ।

सहस्रकुलमागामि व्यतीतं च सहस्रकम् ।

तारयति धर्मात्मा श्रीमातुर्धाम कारयन्

॥१४॥

कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।

श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति

॥१५॥

नदीषु च यथा गंगा शोणः सर्वनदेषु च ।

क्षमायां च यथा पृथ्वी गांभीर्ये च यथोदधिः

॥१६॥

ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते ।

तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते

॥१७॥

सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद्गृहम् ।

प्रतिष्ठां समवाप्नोति स च जन्म निजन्मनि

॥१८॥

वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ।

गंगासमुद्रतीरे च नैमिषेऽमरकण्टके

॥१९॥

श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ।

मथुरायामयोध्यायां द्वारावत्यां तथैव च

॥२०॥

इत्यादि पुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ।

कारयन्मातुरावासं मुक्तो भवति बन्धनात्

॥२१॥

इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ।

तावद्वर्षसहस्राणि मणिद्वीपे महीयते

॥२२॥

प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ।

स उमायाः परं लोकं निर्भयो व्रजति धुवम्

॥२३॥

देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुं ग्रहतारके ।

कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः

॥२४॥

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।

तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम्

॥२५॥

त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुंगव ।

तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत्

॥२६॥

मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ।

चतुर्द्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते

॥२७॥

विष्णोर्नाम्नां कोटिजपाद्ग्रहणेचन्द्रसूर्ययोः ।

यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम्

॥२८॥

शिवनाम्नो जपादेव तस्मात्कोटि गुणोत्तरम् ।

श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम्

॥२९॥

देव्याः प्रासादकरणात्पुण्यन्तु समवाप्यते ।

स्थापिता येन सा देवी जगन्माता त्रयीमयी

॥३०॥

न तस्य दुर्लभं किंचिच्छ्रीमातुः करुणावशात् ।

वर्द्धते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम्

॥३१॥

मनसा ये चिकीर्षंति मूर्तिस्थापनमुत्तमम् ।

तेत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम्

॥३२॥

क्रियमाणन्तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ।

कारयिष्याम्यहं यर्हि संपन्मे संभविष्यति

॥३३॥

एवन्तस्य कुलं सद्यो याति स्वर्गं न संशयः ।

महामायाप्रभावेण दुर्लभं किं जगत्त्रये

॥३४॥

श्रीपराम्बाजगद्योनिं केवलं ये समाश्रिताः ।

ते मनुष्या न मन्तव्यास्साक्षाद्देवीगणाश्च ते

॥३५॥

ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ।

उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः

॥३६॥

नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम् ।

पुष्पैर्धूपैस्तथादीपैस्ते प्रयास्यन्त्युमालयम्

॥३७॥

ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ।

उपलिंपन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम्

॥३८॥

यैर्देव्या मन्दिरं रम्यं निर्मापि तमनुत्तमम् ।

तत्कुलीनाञ्जनान्माता ह्याशिषः संप्रयच्छति

॥३९॥

मदीयाः शतवर्षाणि जीवन्तु प्रेमभाग्जनाः ।

नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम्

॥४०॥

येन मूर्तिर्म्महादेब्या उमायाः कारिता शुभा ।

नरायुतन्तत्कुलजं मणिद्वीपे महीयते

॥४१॥

स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च ।

यंयं प्रार्थयते कामं तंतं प्राप्नोति साधकः

॥४२॥

यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ।

घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः

॥४३॥

चन्दनागुरुकर्पूर मांसीमुस्तादियुग्जलैः ।

एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम्

॥४४॥

धूपेनाष्टादशांगेन दद्यादाहुतिमुत्तमाम् ।

नीराजनं चरेद्देव्या स्साज्यकर्पूरवर्तिभिः

॥४५॥

कृष्णाष्टम्यां नवम्यां वामायां वा पंचदिक्तिथौ ।

पूजयेज्जगतां धात्रीं गंधपुष्पैर्विशेषतः

॥४६॥

संपठञ्जननीसूक्तं श्रीसूक्तमथ वा पठन् ।

देवीसूक्तमथो वापि मूकमन्त्रमथापि वा

॥४७॥

विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ।

देवीप्रीतिकरं ज्ञेयं कमलन्तु विशेषतः

॥४८॥

अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ।

स याति परमं धाम सिद्धकोटि भिरन्वितम्

॥४९॥

पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम् ।

प्रसीद परमेशानि जगदानन्ददायिनि

॥५०॥

इति वाक्यैस्स्तुवन्मन्त्री देवीभक्तिपरायणः ।

ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम्

॥५१॥

इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ।

नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत्

॥५२॥

नैवेद्यं भक्षयेद्यस्तु शंभुशक्तेः परात्मनः ।

स निर्भूयाखिलं पङ्कं निर्मलो मानवो भवेत्

॥५३॥

चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ।

भववन्धननिर्मुक्तः प्राप्नुयात्परमं पदम्

॥५४॥

अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ।

पूजयेज्जगतां धात्रीमुमां शंकरसंयुताम्

॥५५॥

कुसुमैः कुंकुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ।

धूपैर्द्दीपैस्सनैवेद्यैः स्रग्गन्धैरपरैरपि

॥५६॥

आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ।

श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम्

॥५७॥

प्रत्यब्दं कुरुते योस्यां बतमान्दोलनं तथा ।

नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति

॥५८॥

माधवस्य सिते पक्षे तृतीया याऽक्षयाभिधा ।

तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः

॥५९॥

मल्लिकामालतीचंपाजपाबन्धूकपंकजैः ।

कुसुमैः पूजयेद्गौरीं शंकरेण समन्विताम्

॥६०॥

कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ।

निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते

॥६१॥

ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ।

योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किंचन

॥६२॥

आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ।

देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः

॥६३॥

रथं पृथ्वीं विजानीयाद्रथांगे चन्द्रभास्करौ ।

वेदानश्वान्विजानीयात्सारथिं पद्मसं भवम्

॥६४॥

नानामणिगणाकीर्णं पुष्पमालाविराजितम् ।

एवं रथं कल्पयित्वा तस्मिन्त्संस्थापयेच्छिवाम्

॥६५॥

लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ।

रथमध्ये संस्थितेति भावयेन्मतिमान्नरः

॥६६॥

रथे प्रचलिते मन्दं जयशब्दमुदीरयेत् ।

पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले

॥६७॥

इति वाक्यैस्तोषयेच्च नानावादित्रनिस्वनैः ।

सीमान्ते तु रथं नीत्वा तत्र संपूजये द्रथे

॥६८॥

नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ।

प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम्

॥६९॥

एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ।

इह भुक्त्वाखिलान्भोगान्सोन्ते देवीपदं व्रजेत्

॥७०॥

शुक्लायान्तु तृतीयायामेवं श्रावणभाद्रयोः ।

यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि

॥७१॥

मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ।

सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम्

॥७२॥

आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ।

यत्कृते सकलाः कामास्सिद्ध्यन्त्येव न संशयः

॥७३॥

नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ।

चतुरास्यो न पंचास्यो न षडास्यो न कोऽपरः

॥७४॥

नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः ।

हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः

॥७५॥

ध्रुवसंधिसुतो धीमानयोध्याधिपतिर्नृपः ।

सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः

॥७६॥

व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम् ।

संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत्

॥७७॥

तृतीयायां च पञ्चम्यां सप्तम्याम ष्टमीतिथौ ।

नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः

॥७८॥

आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ।

तस्य सर्वं मनोभीष्टं पूरयत्यनिशं शिवा

॥७९॥

यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ।

तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत्

॥८०॥

लोहितैः करवीराद्यैः पुष्पैर्धूपैस्सुगन्धितैः ।

पूजयेन्मङ्गलान्देवीं स सर्वं मंगलं लभेत्

॥८१॥

सौभाग्याय सदा स्त्रीभिः कार्य्यमेतन्महाव्रतम् ।

विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि

॥८२॥

उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ।

देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः

॥८३॥

संहितेयं महापुण्या शिवभक्तिविवर्द्धिनी ।

नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा

॥८४॥

य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।

पठेद्वा पाठयेद्वापि स याति परमां गतिम्

॥८५॥

यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ।

संपूजिता च विधिवत्सर्वान्कामान्स आप्नुयात्

॥८६॥

भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित ।

पुत्रपौत्रादिसम्पत्तिं लभत्येव न संशयः

॥८७॥

तस्मादियं महापुण्या रम्योमासंहिता सदा ।

श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः

॥८८॥

इति श्रीशिव महापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥

समाप्तेयं पञ्चम्युमासंहिता