व्यासोत्पत्तिवर्णनम्
मुनय ऊचुः
व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे ।
कृपया परया स्वामिन्कृतार्थान्निष्कुरु प्रभो
॥१॥व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ।
विवाहिता तु सा देवी राज्ञा शन्तनुना किल
॥२॥तस्यां जातो महायोगी कथं व्यासः पराशरात् ।
सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति
॥३॥सूत उवाच
एकदा तीर्थयात्रायां व्रजन्योगी पराशरः ।
यदृच्छया गतो रम्यं यमुनायास्तटं शुभम्
॥४॥निषादमाह धर्मात्मा कुर्वन्तं भोजनन्तदा ।
नयस्व यमुनापारं जलयानेन मामरम्
॥५॥इत्युक्तो मुनिना तेन निषादस्स्वसुतां जगौ ।
मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम्
॥६॥तापसोऽयं महाभागे दृश्यन्तीगर्भसंभवः ।
तितीर्षुरस्ति मर्धाब्धिश्चतुराम्नायपारगः
॥७॥इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् ।
संवाहयति नौकायामासीनं सूर्य्यरोचिषम्
॥८॥कालयोगान्महायोगी तस्यां कामातुरोऽभवत् ।
दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः
॥९॥ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् ।
दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे
॥१०॥तमुवाच विशालाक्षीं वचनं स्मितपूर्वकम् ।
किमिदं क्रियये कर्म वाचंयम विगर्हितम्
॥११॥वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते ।
निषादजा त्वहम्ब्रह्मन्कथं संगो घटेत नौ
॥१२॥दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः ।
तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम
॥१३॥विद्यया वपुषा वाचा कुलशीलेन चान्वितः ।
कामबाणवशं यातो महदाश्चर्यमत्र हि
॥१४॥प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह ।
भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः
॥१५॥इति संचिन्त्य हृदये निजगाद महामुनिम् ।
तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न
॥१६॥सूत उवाच
इति श्रुत्वा वचस्तस्या योगिराजः पराशरः ।
तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः
॥१७॥पुनर्जग्राह तां बालां मुनिं कामप्रपीडितः ।
कंपमाना तु सा बाला तमुवाच दयानिधिम्
॥१८॥दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा ।
भवांस्तु परमोदारविचारो योगिसत्तमः
॥१९॥नावयोर्घटते सङ्गो काचकांचनयोरिव ।
तुल्यजात्याकृतिकयोः संगः सौख्यप्रदो भवेत्
॥२०॥इत्युक्तेन तया तेन क्षणमात्रेण कामिनी ।
कृता योजनगंधा तु रम्यरूपा मनोरमा
॥२१॥पुनर्जग्राह तां बालां स मुनिः कामपीडितः ।
ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी
॥२२॥रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ ।
दिवासंगे महान्दोषो निन्दा चापि दुरासदा
॥२३॥तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी ।
पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः
॥२४॥तयोक्तमिदमाकर्ण्य वचनं मुनिपुंगवः ।
नीहारं कल्पयामास सद्यः पुण्यबलेन वै
॥२५॥नीहारे च समुत्पन्ने तमसा रात्रिसंनिभे ।
व्यवायचकिता बाला पुनः प्रोवाच तम्मुनिम्
॥२६॥योगिन्नमोघवीर्य्यस्त्वं भुक्त्वा गन्तासि मां यदि ।
सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति
॥२७॥कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति ।
हसिष्यति तदा लोकाः पितरं किं ब्रवीम्यहम्
॥२८॥पराशर उवाच
रम बाले मया सार्द्धं स्वच्छन्दं कामजै रसैः ।
स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये
॥२९॥मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव ।
वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि
॥३०॥सत्यवत्युवाच
जानते न पिता माता न वान्ये भुवि मानवाः ।
कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मान्तदा
॥३१॥पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् ।
सौगन्ध्यं सर्वदांगे मे तारुण्यं च नवंनवम्
॥३२॥पराशर उवाच
शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति ।
विष्ण्वंशसंभवः पुत्रो भविता ते महायशाः
॥३३॥किंचिद्वै कारणं विद्धि यतोऽहं कामपीडितः ।
दृष्ट्वा चाप्सरसारूपं नामुह्यन्मे नमः क्वचित्
॥३४॥मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् ।
न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत्
॥३५॥पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत् ।
भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये
॥३६॥इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः ।
वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने
॥३७॥सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् ।
असूत सूर्य्यजाद्वीपे कामदेवमिवात्मजम्
॥३८॥वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् ।
पिशंगीभिर्जटाभिश्च राजितो महसां चयः
॥३९॥जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत ।
गच्छ मातर्यथाकामं गच्छाम्यहमतः परम्
॥४०॥मातर्यदा भवेत्कार्यं तव किंचिद्धृदीप्सितम् ।
संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे
॥४१॥इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः ।
जगाम च तपः कर्त्तुं तीर्थं पापविशोधनम्
॥४२॥सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती ।
स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम्
॥४३॥द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् ।
वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः
॥४४॥तीर्थराजं प्रथमतो धर्मकामार्थ मोक्षदम् ।
नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम्
॥४५॥अयोध्यां मथुरां चैव द्वारकाममरावतीम् ।
सरस्वतीं सिंधुसङ्गं गंगा सागरसंगमम्
॥४६॥काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम् ।
कालञ्जरं प्रभासं च तथा बदरिकाश्रमम्
॥४७॥महालयन्तथोंकारक्षेत्रं वै पुरुषोत्तमम् ।
गोकर्णं भृगुकच्छं च भृगुतुंगं च पुष्करम्
॥४८॥श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च ।
गत्वावगाह्य विधिना चचार परमन्तपः
॥४९॥एवन्तीर्थान्यनेकानि नानादेशस्थितानि ह ।
पर्य्यटन्कालिकासूनुः प्रापद्वाराणसीम्पुरीम्
॥५०॥यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी ।
भक्तानाममृतन्दातुं विराजेते कृपानिधी
॥५१॥प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् ।
कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः
॥५२॥दृष्ट्वा लिंगानि सर्वाणि विश्वेशप्रमुखानि च ।
स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च
॥५३॥नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ।
सम्पूज्य कालराजं च भैरवं पापभक्षणम्
॥५४॥दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।
आदिकेशवमुख्यांश्च केशवान्परितोष्य च
॥५५॥लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः ।
कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः
॥५६॥स्थापयामास पुण्यात्मा लिंगं व्यासेश्वराभिधम् ।
यद्दर्शनाद्भवेद्विप्र नरो विद्यासु वाक्पतिः
॥५७॥लिंगान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः ।
असकृच्चिन्तयामास किं लिगं क्षिप्रसिद्धिदम्
॥५८॥यमाराध्य महादेवं विद्याः सर्वा लभेमहि ।
पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात्
॥५९॥श्रीदमोंकारनाथं वा कृत्तिवासेश्वरं किमु ।
केदारेशन्तु कामेशं चन्द्रेशं वा त्रिलोचनम्
॥६०॥कालेशं वृद्धकालेशं कालशेश्वरमेव वा ।
ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरन्तु वा
॥६१॥दशाश्वमेधमीशानं द्रुमिचण्डेशमेव वा ।
दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम्
॥६२॥प्रसन्नवदनेशं वा धर्म्मेशं तारकेश्वरम् ।
नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम्
॥६३॥पर्वतेशं पशुपतिं हाटकेश्वरमेव वा ।
बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा
॥६४॥भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ।
मरुतेशन्तु मोक्षेशं गंगेशं नर्मदेश्वरम्
॥६५॥कृष्णेशं परमेशानं रत्नेश्वरमथापि वा ।
यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम्
॥६६॥अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा ।
व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा
॥६७॥वरुणेशं विधीशं वा हरिकेशेश्वरन्तु वा ।
भवानीशं कपर्द्दीशं कन्दुकेश मजेश्वरम्
॥६८॥विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा ।
नादेशं कपिलेशं च भुवनेश्वरमेव वा
॥६९॥बाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा ।
विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम्
॥७०॥अमृतेशं सतीशं वा पार्वतीश्वरमेव वा ।
सिद्धेश्वरं मतंगेशं भूतीश्वरमथापि वा
॥७१॥आषाढीशं प्रकामेशं कोटिरुद्रेश्वरन्तथा ।
मदालसेश्वरं चैव तिलपर्णेश्वरं किमु
॥७२॥किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् ।
इत्यादिकोटिलिंगानां मध्येऽहं किमुपाश्रये
॥७३॥इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान् ।
क्षणं विचारयामास ध्यानसुस्थिरचेतसा
॥७४॥आज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः ।
सिद्धैः संपूजितं लिंगं धर्म्मकामार्थमोक्षदम्
॥७५॥दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् ।
उद्धाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि
॥७६॥अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् ।
यत्रास्ते परमं लिंगं मध्यमेश्वरसंज्ञकम्
॥७७॥न मध्यमेश्वरादन्यल्लिंगं काश्यां हि विद्यते ।
यद्दर्शनार्थमायान्ति देवाः पर्वणिपर्वणि
॥७८॥अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः ।
अस्याराधनतो विप्रा बहवः सिद्धिमागताः
॥७९॥यः प्रधानतया काश्या मध्ये तिष्ठति शङ्करः ।
स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः
॥८०॥तुम्बुरुर्नाम गंधर्वो देवर्षिर्नारदस्तथा ।
अमुमाराध्य संपन्नो गानविद्याविशारदौ
॥८१॥अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत् ।
ब्रह्मा विष्णुश्च रुद्रश्च स्रष्टृपालकहारकाः
॥८२॥धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट् ।
खट्वांगो नाम भूपालोऽनपत्योऽपत्यवानभूत्
॥८३॥अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः ।
सदेहा कोकिलालापा लिंगमध्ये लयं गता
॥८४॥श्रीकरो गोपिकासूनुः सेविता मध्यमेश्वरम् ।
गाणपत्यं समालेभे शिवस्य करुणात्मनः
॥८५॥भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ ।
विद्यापारंगमौ जातौ प्रसादान्मध्यमेशितुः
॥८६॥अहमप्यत्र संपूज्य मध्यमेश्वरमीश्वरम् ।
पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा धुवम्
॥८७॥इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः ।
भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती
॥८८॥क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् ।
वातभुग्जलभुक्क्वापि क्वचिन्निरशनव्रती
॥८९॥इत्यादि नियमैर्योगी त्रिकालं मध्यमेश्वरम् ।
पूजयामास धर्म्मात्मा नानावृक्षोद्भवैः फलैः
॥९०॥इत्थं बहुतिथे काले व्यतीते कालिकासुतः ।
स्नात्वा त्रिपथगातोये यावदायाति स प्रगे
॥९१॥मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् ।
तावद्ददर्श पुण्यात्मा मध्येलिंगं महेश्वरम्
॥९२॥उमाभूषितवामांगं व्याघ्रचर्म्मोत्तरीयकम् ।
जटाजूटचलद्गंगातरंगैश्चारुविग्रहम्
॥९३॥लसच्छारदबालेन्दुचन्द्रिकाचन्दितालकम् ।
भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम्
॥९४॥कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् ।
पंचवर्षाकृति बालं बालकोचितभूषणम्
॥९५॥दधानं कोटिकन्दर्प्पदर्पहानि तनुद्युतिम् ।
नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया
॥९६॥करुणापारपाथोधिं भक्तवत्सलनामकम् ।
आशुतोषमुमाकान्तं प्रसादसुमुखं हरम्
॥९७॥समालोक्य स्तुतिं चक्रे प्रेमगद्गया गिरा ।
योगीनामप्यगम्यन्तं दीनबन्धुं चिदात्मकम्
॥९८॥वेदव्यास उवाच
देवदेव महाभाग शरणागतवत्सल ।
वाङ्मनः कर्मदुष्पाप योगिनामप्यगोचर
॥९९॥महिमानं न ते वेदा विदामासुरुमापते ।
त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च
॥१००॥त्वमाद्यः सर्वदेवानां सच्चिदानंद ईश्वरः ।
नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव
॥१०१॥त्वमेव परमं ब्रह्म मायापाशनिवर्तकः ।
गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवांभसा
॥१०२॥न ते जन्म न वा शीलं न देशो न कुलं च ते ।
इत्थं भूतोपीश्वरत्वं त्रिलोक्याः काममावहे
॥१०३॥न च ब्रह्मा न लक्ष्मीशो न च सेन्द्रा दिवौकसः ।
न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे
॥१०४॥त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः ।
त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम्
॥१०५॥नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे ।
पुराणपुरुषायाद्धा शंकराय परात्मने
॥१०६॥इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः ।
तावत्स बालो हृष्टात्मा वेदव्यासमभाषत
॥१०७॥वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते ।
नादेयं विद्यते किंचिद्भक्ताधीनो यतोऽस्म्यहम्
॥१०८॥तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः ।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो
॥१०९॥सर्वान्तरात्मा भगवाञ्छर्वः सर्वप्रदो भवान् ।
याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम्
॥११०॥इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः ।
शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत्
॥१११॥बाल उवाच
त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयः
॥११२॥कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः ।
सेतिहासपुराणानि सम्यङ्निर्यापयाम्यहम्
॥११३॥अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि
॥११४॥एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्द्धनम् ।
सर्वसंपत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम्
॥११५॥प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांकरम् ।
वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद्बृहस्पतिः
॥११६॥स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ।
वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्याञ्च वर्द्धयेत्
॥११७॥इत्युक्त्वा स महादेवो बालो लिंगे न्यलीयत ।
व्यासोऽपि मुंचन्नश्रूणि शिवप्रेमाकुलोऽभवत्
॥११८॥एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात ।
अष्टादश पुराणानि प्रणिनाय स्वलीलया
॥११९॥ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ।
भविष्यं नारदीयं च मार्कंडेयमतः परम्
॥१२०॥आग्नेयं ब्रह्मवैवर्त लिंगं वाराहमेव च ।
वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च
॥१२१॥स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् ।
यशस्यं पुण्यदं नॄणां श्रोतॄणां शांकरं यश
॥१२२॥सूत उवाच
अष्टादशपुराणानाम्पूर्वं नामोदितन्त्वया ।
कुरु निर्वचनं तेषामिदानीं वेदवित्तम
॥१२३॥व्यास उवाच
अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना ।
नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत्
॥१२४॥नन्दिकेश्वर उवाच
यत्र वक्ता स्वयन्तण्डे ब्रह्मा साक्षाच्चतुर्मुखः ।
तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने।
पद्मकल्पस्य माहात्म्यन्तत्र यस्यामुदाहृतम् ।
तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम्
॥१२६॥पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।
तदेव व्यासकथितं पुत्रपित्रोरभेदतः
॥१२७॥यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु ।
शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च
॥१२८॥भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम्
॥१२९॥नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ।
यत्र वक्ताऽभवत्तण्डे मार्कण्डेयो महामुनिः
॥१३०॥मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् ।
अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम्
॥१३१॥विवर्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते ।
लिंगस्य चरितोक्तत्वात्पुराणं लिंगमुच्यते
॥१३२॥वराहस्य च वाराहं पुराणं द्वादशं मुने ।
यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः
॥१३३॥तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ।
कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम्
॥१३४॥गरुडस्तु स्वयं वक्ता यत्तद्गारुडसंज्ञकम् ।
ब्रह्माण्डचरितोक्तत्वाद्ब्रह्माण्डं परिकीर्तितम्
॥१३५॥सूत उवाच
अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते ।
ततः सर्वपुराणानां मया निर्वचनं श्रुतम्
॥१३६॥एवं व्याससमुत्पन्नः सत्यवत्यां पराशरात् ।
पुराणसंहिताश्चक्रे महाभारतमुत्तमम्
॥१३७॥पराशरेण संयोगः पुनः शन्तनुना यथा ।
सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि
॥१३८॥सकारणेयमुत्पत्तिः कथिताश्चर्य्यकारिणी ।
महतां चरिते चैव गुणा ग्राह्या विचक्षणैः
॥१३९॥इदं रहस्यं परमं यः शृणोति पठत्यपि ।
स सर्वपापनिर्मुक्त ऋषिलोके महीयते
॥१४०॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥