देवानां दानवानां च गन्धर्वोरगरक्षसाम्
शौनक उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे
॥१॥सूत उवाच
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ।
सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात्
॥२॥स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ।
ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः
॥३॥तस्यां पुत्रसहस्राणि वीरिण्यां पंच वीर्यवान् ।
आश्रित्य जनयामास दक्ष एव प्रजापतिः
॥४॥एतान्सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः ।
सर्वं स तु समुत्पन्नो नारदः परमेष्ठिनः
॥५॥श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ।
दक्षस्येव दुहितृषु तस्मात्तानब्रवीत्तु सः
॥६॥अजानतः कथं सृष्टिं बालिशा वै करिष्यथ ।
दिशं कांचिदजानंतस्तस्माद्विज्ञाय तां भुवम्
॥७॥इत्युक्ताः प्रययुस्सर्वे आशां विज्ञातुमोजसा ।
तदंतं न हि संप्राप्य न निवृत्ताः पितुर्गृहम्
॥८॥तज्ज्ञात्वा जनयामास पुनः पंचशतान्सुतान् ।
तानुवाच पुनस्सोऽपि नारदस्सर्वदर्शनः
॥९॥नारद उवाच
भुवो मानमजानंतः कथं सृष्टिं करिष्यथ ।
सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः
॥१०॥सूत उवाच
तेऽपि तद्वचनं श्रुत्वा निर्यातास्सर्वतोदिशम् ।
सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा
॥११॥अनंतं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ।
अद्यापि न निवर्तंते समुद्रेभ्य इवापगाः
॥१२॥तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयातो नश्यति मुने तन्न कार्य्यं विपश्चिता
॥१३॥तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः ।
स च क्रोधा द्ददौ शापं नारदाय महात्मने
॥१४॥कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ।
तव सान्निध्यतो लोके भवेच्च कलहस्सदा
॥१५॥सांत्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः ।
कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम्
॥१६॥ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने
॥१७॥द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु
॥१८॥अरुंधती वसुर्य्यामिर्लम्बा भानुर्मरुत्वती ।
संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने
॥१९॥धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वायास्साध्यान्साध्या व्यजायत
॥२०॥मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ।
भानोस्तु भानवस्सर्वे मुहूर्तायां मुहूर्तजाः
॥२१॥लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवी विषमस्तस्यामरुन्धत्यामजायत
॥२२॥संकल्पायास्तु सत्यात्मा जज्ञे संकल्प एव हि ।
अयादया वसोः पुत्रा अष्टौ ताञ्छृणु शौनक ।
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवाऽष्टा च नामतः
॥२४॥अयस्य पुत्रो वैतण्डः श्रमः शांतो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकभावनः
॥२५॥सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा
॥२६॥मनोहरायाश्शिशिरः प्राणोऽथ रमणस्तथा ।
अनिलस्य शिवा भार्य्या यस्याः पुत्राः पुरोजवः
॥२७॥अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ।
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते
॥२८॥तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ।
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः
॥२९॥प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः ।
द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ
॥३०॥बृहस्पते तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नं समंताद्व्यचरत्तदा
॥३१॥प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च ।
विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः
॥३२॥कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः ।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
॥३३॥यस्सर्वासां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः
॥३४॥मतांतरमाह ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति
॥३५॥सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः ।
तत्रैकादशमुख्यास्तु तन्नामानि मुने शृणु
॥३६॥अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः
॥३७॥वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः
॥३८॥शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
शृणु कश्यपपत्नीनां नामानि मुनिसत्तम
॥३९॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकऽत्रिंशोध्यायः ॥ ३१ ॥