मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ८

3
उमासंहिता · 8

भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः

चित्रगुप्त उवाच

भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः ।

गर्विता रूपवीर्येण परदारावमर्द्दकाः

॥१॥

यस्त्वयं क्रियते कर्म तदिदं भुज्यते पुनः ।

तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम्

॥२॥

इदानीं किं प्रलप्यध्वे पीड्यमानास्स्वकर्मभिः ।

भुज्यंतां स्वानि कर्म्माणि नास्ति दोषो हि कस्यचित्

॥३॥

सनत्कुमार उवाच

एवं ते पृथिवीपालास्संप्राप्तास्तत्समीपतः ।

स्वकीयैः कर्म्मभिघौरैर्दुष्कर्म्मबलदर्पिणः

॥४॥

तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ।

संशिक्षयति धर्मज्ञो यमराजानुशिक्षया

॥५॥

चित्रगुप्त उवाच

भो भो नृपा दुराचाराः प्रजा विध्वंसकारिणः ।

अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम्

॥६॥

राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ।

यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः

॥७॥

क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ।

तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः

॥८॥

पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ।

यमदूतैर्योज्यमाना अधुना कीदृशं भवेत्

॥९॥

सनत्कुमार उवाच

एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ।

स्वानि कर्माणि शोचंति तूष्णीं तिष्ठंति पार्थिवाः

॥१०॥

इति कर्म्म समुद्दिश्य नृपाणां धर्म्मराड्यमः ।

तत्पापपंकशुद्ध्यर्थमिदं दूतान्ब्रवीति च

॥११॥

यमराज उवाच

भोभोश्चण्ड महाचंड गृहीत्वा नृपतीन्बलात् ।

नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु

॥१२॥

सनत्कुमार उवाच

ततश्शीघ्रं समादाय नृपान्संगृह्य पादयोः ।

भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ।

सर्वप्रायेण महतातीव तप्ते शिलातले ।

आस्फालयंति तरसा वज्रेणेव महाद्रुमान्

॥१४॥

ततस्सरक्तं श्रोत्रेण स्रवते जर्जरीकृतः ।

निस्संज्ञस्स सदा देही निश्चेष्टस्संप्रजायते

॥१५॥

ततस्स वायुना स्पृष्टस्सतैरुज्जीवितः पुनः ।

ततः पापविशुद्ध्यर्थं क्षिपंति नरकार्णवे

॥१६॥

अष्टाविंशतिसंख्याभिः क्षित्यधस्सप्तकोटयः ।

सप्तमस्य तलस्यांते घोरे तमसि संस्थितः

॥१७॥

घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ।

अतिघोरा महाघोरा घोररूपा च पंचमी

॥१८॥

षष्ठी तलातलाख्या च सप्तमी च भयानका ।

अष्टमी कालरात्रिश्च नवमी च भयोत्कटा

॥१९॥

दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः ।

चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका

॥२०॥

पद्मा पद्मावती भीता भीमा भीषणनायिका ।

कराला विकराला च वज्राविंशतिमा स्मृता

॥२१॥

त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा ।

समा भीमबला भोग्रा दीप्तप्रायेति चान्तिमी

॥२२॥

इति ते नामतः प्रोक्ता घोरा नरककोटयः ।

अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः

॥२३॥

तासां क्रमेण विज्ञेयाः पंच पञ्चैव नायकाः ।

प्रत्येकं सर्वकोटीनां नामतस्संनिबोधत

॥२४॥

रौरवः प्रथमस्तेषां रुवंते यत्र देहिनः ।

महारौरवपीडाभिर्महांतोऽपि रुदंति च

॥२५॥

ततश्शीतं तथा चोष्णं पंचाद्या नायकास्स्मृताः ।

सुघोरस्तु महातीक्ष्णस्तथा संजीवनः स्मृतः

॥२६॥

महातमो विलोमश्च विलोपश्चापि कंटक ।

तीव्रवेगः करालश्च विकरालः प्रकंपनः

॥२७॥

महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः ।

सूचीमुखस्सुनेतिश्च खादकस्सुप्रपीडनः

॥२८॥

कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः ।

अंगारराशिभवनं मेरुरसृक्प्रहितस्ततः

॥२९॥

तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः ।

तप्तजंतुः पंकलेपः प्रतिमांसस्त्रपूद्भवः

॥३०॥

उच्छ्वासस्सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः ।

दुरिष्टस्सुमहावादः प्रवादस्सुप्रतापनः

॥३१॥

ततो मेघो वृषः शाल्मस्सिंहव्याघ्रगजाननाः ।

श्वसूकराजमहिषघूककोकवृकाननाः

॥३२॥

ग्राहकुंभीननक्राख्या स्सर्पकूर्माख्यवायसाः ।

गृध्रोलूकहलोकाख्याः शार्दूलक्रथकर्कटाः

॥३३॥

मंडूकाः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः ।

कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा

॥३४॥

अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभश्श्वभोजनः ।

लाला भेक्षांत्रभक्षौ च सर्वभक्षः सुदारुणः

॥३५॥

कंटकस्सुविशालश्च विकटः कटपूतनः ।

अंबरीषः कटाहश्च कष्टा वैतरणी नदी

॥३६॥

सुतप्तलोहशयन एकपादः प्रपूरणः ।

असितालवनं घोरमस्थिभंगः सुपूरणः

॥३७॥

विलातसोऽसुयंत्रोऽपि कूटपाशः प्रमर्दनः ।

महाचूर्ण्णो सुचूर्ण्णोऽपि तप्तलोहमयं तथा

॥३८॥

पर्वतः क्षुरधारा च तथा यमलपर्वतः ।

मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः

॥३९॥

मुसलोलूखलं यन्त्रं शिलाशकटलांगलम् ।

तालपत्रासिगहनं महाशकटमण्डपम्

॥४०॥

संमोहमस्थिभंगश्च तप्तश्चलमयो गुडम् ।

बहुदुखं महाक्लेशः कश्मलं समलं मलात्

॥४१॥

हालाहलो विरूपश्च स्वरूपश्च यमानुगः ।

, एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः

॥४२॥

अष्टाविंशतिरित्येते क्रमशः पंचपंचकम् ।

कोटीनामानुपूर्व्येण पंच पंचैव नायकाः

॥४३॥

रौरवाय प्रबोध्यंते नरकाणां शतं स्मृतम् ।

चत्वारिंशच्छतं प्रोक्तं महानरकमण्डलम्

॥४४॥

इति ते व्यास संप्रोक्ता नरकस्य स्थितिर्मया ।

प्रसंख्यानाच्च वैराग्यं शृणु पापगतिं च ताम्

॥४५॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥ ८