उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम
मुनय ऊचुः
उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ।
अवतारं समाचक्ष्व यतो जाता सरस्वती
॥१॥या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ।
निराकारापि साकारा नित्या नन्दमथी सती
॥२॥सूत उवाच
तापसाः शृणुत प्रेम्णा चरित्रं परमं महत् ।
यस्य विज्ञानमात्रेण नरो याति परां गतिम्
॥३॥देवदानवयोर्युद्धमेकदासीत्परस्परम् ।
महामायाप्रभावेणामराणां विजयोऽभवत्
॥४॥ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे ।
वयं धन्या वयं धन्या किं करिष्यंति नोऽसुराः
॥५॥ये प्रभावं समालोक्यास्माकं परमदुःसहम् ।
भीता नागालयं याता यातयातेति वादिनः
॥६॥अहो बलमहो तेजो दैत्यवंशक्षयंकरम् ।
अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन्
॥७॥तत आविरभूत्तेजः कूटरूपन्तदैव हि ।
अदृष्टपूर्वं तद्दृष्ट्वा विस्मिता अभवन्सुराः
॥८॥किमिदं किमिदं चेति रुद्धकण्ठास्समब्रुवन ।
अजानन्तः परं श्यामानु भावं मानभञ्जनम्
॥९॥तत आज्ञापयद्देवान्देवानामधिनायकः ।
यात यूयं परीक्षध्वं याथातथ्येन किन्विति
॥१०॥सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ।
कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः
॥११॥इति पृष्टस्तदा वायुर्महसातिगरीयसा ।
वायुरस्मि जगत्प्राणस्साभिमानोऽब्रवीदिदम्
॥१२॥जंगमाजंगमं सर्वमोतप्रोतमिदं जगत् ।
मय्येव निखिलाधारे चालयाम्यखिलं जगत्
॥१३॥तदोवाच महातेजः शक्तोऽसि यदि चालने ।
धृतमेतत्तृणं वायो चालयस्व निजेच्छया
॥१४॥ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ।
न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत
॥१५॥तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रं सभां प्रति ।
कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम्
॥१६॥सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ।
न पारयामहे किंचिद्वि धातुं क्षुद्रवस्त्वपि
॥१७॥ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ।
न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात्
॥१८॥मघवन्तमथायान्तं दृष्ट्वा तेजोतिदुःसहम् ।
बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः
॥१९॥चरित्रमीदृशं यस्य तमेव शरणं श्रये ।
इति संचिन्तयामास सहस्राक्षः पुनःपुनः
॥२०॥एतस्मिन्नंतरे तत्र निर्व्याजकरुणातनुः ।
तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवांगना
॥२१॥चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ।
प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी
॥२२॥महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ।
बोधयन्ती सुरान्सर्वान्ब्रह्मैवाहमिति स्फुटम्
॥२३॥चतुर्भिर्दधती हस्तैर्वरपाशांकुशाभयान् ।
श्रुतिभिस्सेविता रम्या नवयौवनगर्विता
॥२४॥रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ।
कोटिकंदर्प्पसंकाशा चन्द्रकोटिसमप्रभा
॥२५॥व्याजहार महामाया सर्वान्तर्य्यामिरूपिणी ।
साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी
॥२६॥उमोवाच
न ब्रह्मा न सुरारातिर्न पुरारातिरीश्वरः ।
मदग्रे गर्वितुं किंचित्का कथान्यसुपर्वणाम्
॥२७॥परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ।
अहमेवास्मि सकलं मदन्यो नास्ति कश्चन
॥२८॥निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ।
अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी
॥२९॥कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ।
कदाचिदुभयाकारा सर्वाकाराहमीश्वरी
॥३०॥विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ।
रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी
॥३१॥कालिका कमलावाणी मुखास्सर्वा हि शक्तयः ।
मदंशादेव संजातास्तथेमास्सकलाः कलाः
॥३२॥मत्प्रभावाज्जितास्सर्वे युष्माभिर्द्दितिनन्दनाः ।
तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः
॥३३॥यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ।
तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी
॥३४॥मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक् ।
लोकपालाः प्रकुर्वंति स्वस्वकर्माण्यनारतम्
॥३५॥कदाचिद्देववर्गाणां कदाचिद्दितिजन्म नाम् ।
करोमि विजयं सम्यक्स्वतन्त्रा निजलीलया
॥३६॥अविनाशि परं धाम मायातीतं परात्परम् ।
श्रुतयो वर्णयन्ते यत्त द्रूपन्तु ममैव हि
॥३७॥सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ।
मायाशबलितं चैकं द्वितीयन्तदनाश्रितम्
॥३८॥एवं विज्ञाय मां देवास्स्वं स्वं गर्वं विहाय च ।
भजत प्रणयोपेताः प्रकृतिं मां सनातनीम्
॥३९॥इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ।
तुष्टुवुः परमेशानीं भक्तिसंनतकन्धराः
॥४०॥क्षमस्व जगदीशानि प्रसीद परमेश्वरि ।
मैवं भूयात्कदाचिन्नो गर्वो मातर्द्दयां कुरु
॥४१॥ततःप्रभृति ते दैवा हित्वा गर्वं समाहिताः ।
उमामाराधयामासुर्यथापूर्वं यथाविधि
॥४२॥इति वः कथितो विप्रा उमाप्रादुर्भवो मया ।
यस्य श्रवणमात्रेण परमं पदमश्नुते
॥४३॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामुमाप्रादुर्भाववर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥