पितृभाववर्णनम्
भीष्म उवाच
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ।
किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम
॥१॥मार्कण्डेय उवाच
ते धर्मयोगनिरतास्सप्त मानसचारिणः ।
वाय्वंबुभक्षास्सततं शरीरमुपशोषयन्
॥२॥स राजांतःपुरवृतो नन्दने मघवा इव ।
क्रीडित्वा सुचिरं तत्र सभार्य्यस्स्वपुरं ययौ
॥३॥अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः ।
तं वैभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ
॥४॥तपः कर्तुं समारेभे यत्र ते सहचारिणः ।
स वै तत्र निराहारो वायुभक्षो महातपाः
॥५॥ततो विभ्राजितं तेन विभ्राजं नाम तद्वनम् ।
बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम्
॥६॥तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ।
योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन्
॥७॥कांपिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।
जातास्सप्तमहात्मानस्सर्वे विगतकल्मषाः
॥८॥स्मृतिमंतोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ।
स्वतन्त्रस्याह्वयो जातो ब्रह्मदत्तो महौजसः
॥९॥छिद्रदर्शी सुनेत्रस्तु वेदवेदांगपारगौ ।
जातौ श्रोत्रियदायादौ पूर्वजातिसहाषितौ
॥१०॥पंचालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ।
द्विवेदः पुंडरीकश्च छंदोगोऽध्वर्युरेव च
॥११॥ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ।
अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान्
॥१२॥पंचालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ।
विविशतुर्वनं तत्र गतौ परमिकां गतिम्
॥१३॥ब्रह्मदत्तस्य भार्य्या तु सन्नितिर्माम भारत ।
सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु
॥१४॥शेषास्तु चक्रवाका वै कांपिल्ये सहचारिणः ।
जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप
॥१५॥धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ।
वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः
॥१६॥ते योगनिरतास्सिद्धाः प्रस्थितास्सर्व एव हि ।
आमंत्र्य च मिथः शंभोः पदाम्भोजं प्रणम्य तु
॥१७॥शूरा ये सम्प्रपद्यन्ते अपुनर्भवकांक्षिणः ।
पापम्प्रणाशयन्त्वद्य तच्छम्भोः परमम्पदम्
॥१८॥शारीरे मानसे चैव पापे वाग्जे महामुने ।
कृते सम्यगिदम्भक्त्या पठेच्छ्रद्धासमन्वितः
॥१९॥मुच्यते सर्वपापेभ्यश्शिवनामानुकीर्तनात् ।
उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै
॥२०॥विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ।
तस्मात्तत्संचिते पापे समनंतरमेव च
॥२१॥जप्तव्यमेतत्पापस्य प्रशमाय महामुने ।
नरैः श्रद्धालुभिभूर्यस्सर्वकामफलाप्तये
॥२२॥पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ।
मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः
॥२३॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥