पाताललोकवर्णनम्
व्यास उवाच
येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् ।
दानानां तन्ममाख्या हि मानुषाणां हितार्थतः
॥१॥सनत्कुमार उवाच
शृणु कालेः प्रदत्ताद्वै फलं विंदंति मानवाः ।
एकस्मादपि सर्वेषां दानानां तद्वदामि ते
॥२॥दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः ।
दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै
॥३॥ब्रह्मांडे सकलं दत्तं यत्फलं लभते नरः ।
तदेकभावादाप्नोति सप्तलोकाधिपो भवेत्
॥४॥यावच्चन्द्रदिवाकरौ नभसि वै यावत्स्थिरा मेदिनी तावत्सोऽपि नरः स्वबांधवयुतस्स्ववर्गौकसामोकसि ।
सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडते पश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम्
॥५॥व्यास उवाच
भगवन्ब्रूहि ब्राह्माण्डं यत्प्रमाणं यदात्मकम् ।
यदाधारं यथाभूतं येन मे प्रत्ययो भवेत्
॥६॥सनत्कुमार उवाच
मुने शृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् ।
ब्रह्माण्डं तत्तु संक्षेपाच्छ्रुत्वा पापात्प्रमुच्यते
॥७॥यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् ।
तस्मात्संजायते ब्रह्मा द्विधाभूताद्धि कालतः
॥८॥ब्राह्माण्डं सृजति ब्रह्मा चतुर्द्दशभवात्मकम् ।
तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः
॥९॥पातालानि तु सप्तैव भुवनानि तथोर्द्ध्वतः ।
उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च
॥१०॥तस्याधारः स्थितो नागस्स च विष्णुः प्रकीर्तितः ।
ब्रह्मणो वचसो हेतोर्बिभर्ति सकलं त्विदम्
॥११॥शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः ।
योनंतः पठ्यते सिद्धैर्देवर्षिगणपूजितः
॥१२॥शिरःसाहस्रयुक्तस्स सर्वा विद्योतयन्दिशः ।
फणामणिसहस्रेण स्वस्तिकामलभूषणः
॥१३॥मदाघूर्णितनेत्रोऽसौ साग्निश्श्वेत इवाचलः ।
स्रग्वी किरीटी ह्याभाति यस्सदैवैक कुंडलः
॥१४॥सायं गंगाप्रवाहेण श्वेतशैलोपशोभितः ।
नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः
॥१५॥लांगलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम् ।
योऽर्च्यते नागकन्याभिस्स्वर्णवर्णाभिरादरात्
॥१६॥संकर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः ।
कल्पांते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः ।
दग्ध्वा जगत्त्रयं शान्ता भवंतीत्यनुशुश्रुम
॥१७॥आस्ते पातालमूलस्थस्स शेषः क्षितिमण्डलम् ।
बिभ्रत्स्वपृष्ठे भूतेशश्शेषोऽशेषगुणार्चितः
॥१८॥तस्य वीर्यप्रभावश्च साकांक्षैस्त्रिदशैरपि ।
न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा
॥१९॥आस्ते कुसुममालेव फणामणिशिलारुणा ।
यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति
॥२०॥यदा विजृम्भतेऽनंतो मदाघूर्णितलोचनः ।
तदा चलति भूरेषा साद्रितोयाधिकानना
॥२१॥दशसाहस्रमेकैकं पातालं मुनि सत्तम ।
अतलं वितलं चैव सुतलं च रसातलम्
॥२२॥तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् ।
भूमेरधस्सप्त लोका इमे ज्ञेया विचक्षणैः
॥२३॥उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः ।
रत्नवन्तोऽथ प्रासादा भूमयो हेमसंभवाः
॥२४॥तेषु दानवदैतेया नागानां जातयस्तथा ।
निवसंति महानागा राक्षसा दैत्यसंभवाः
॥२५॥प्राह स्वर्गसदोमध्ये पातालानीति नारदः ।
स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि
॥२६॥नानाभूषणभूषासु मणयो यत्र सुप्रभाः ।
आह्लादकानि शुभ्राणि पातालं केन तत्समम्
॥२७॥पाताले कस्य न प्रीतिरितश्चेतश्च शोभितम् ।
देवदानवकन्याभिर्विमुक्तस्याभिजायते
॥२८॥दिवार्करश्मयो यत्र न भवंति विधो निशि ।
न शीतमातपो यत्र मणितेजोऽत्र केवलम्
॥२९॥भक्ष्यभोज्यान्नपानानि भुज्यंते मुदितैर्भृशम् ।
यत्र न जायते कालो गतोऽपि मुनिसत्तम
॥३०॥पुंस्कोकिलरुतं यत्र पद्मानि कमलाकराः ।
नद्यस्सरांसि रम्याणि ह्यन्योन्यविचराणि च
॥३१॥भूषणान्यतिशुभ्राणि गंधाढ्यं चानुलेपनम् ।
वीणावेणुमृदंगानां स्वना गेयानि च द्विज
॥३२॥दैत्योरगैश्च भुज्यंते पाताले वै सुखानि च ।
तपसा समवाप्नोति दानवैस्सिद्धमानवैः
॥३३॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने पाताललोकवर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥