नरकगतिवर्णनम्
सनत्कुमार उवाच
एषु पापाः प्रपच्यंते शोष्यंते नरकाग्निषु ।
यातनाभिर्विचित्राभिरास्वकर्म्मक्षयाद्भृशम्
॥१॥स्वमलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः ।
तत्र पापक्षयात्पापा नराः कर्मानुरूपतः
॥२॥सुगाढं हस्तयोर्बद्ध्वा ततश्शृंखलया नराः ।
महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिंकरैः
॥३॥ततस्ते सर्वयत्नेन क्षिप्ता दोलंति किंकरैः ।
दोलंतश्चातिवेगेन विसंज्ञा यांति योजनम्
॥४॥अंतरिक्षस्थितानां च लोहभारशतं पुनः ।
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः
॥५॥तेन भारेण महता प्रभृशं ताडिता नराः ।
ध्यायंति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः
॥६॥ततोंऽकुशैरग्निवर्णैर्लोह दण्डैश्च दारुणैः ।
हन्यंते किंकरैघोरैस्समन्तात्पापकर्म्मिणः
॥७॥ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।
समंततः प्रलिप्यंते तीवेण तु पुनः पुनः
॥८॥द्रुतेनात्यंतलिप्तेन कृत्तांगा जर्जरीकृताः ।
पुनर्विदार्य्य चांगानि शिरसः प्रभृति क्रमात्
॥९॥वृताकवत्प्रपच्यंते तप्तलोहकटाहकैः ।
विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः
॥१०॥मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यंति ते पुनः ।
भक्ष्यंते कृमिभिस्तीक्ष्णैर्लोंहतुंडैश्च वायसैः
॥११॥श्वभिर्द्दंशैर्वृकैर्व्याघ्रैर्रौद्रैश्च विकृताननैः ।
पच्यंते मत्स्यवच्चापि प्रदीप्तांगारराशिषु
॥१२॥भिन्नाः शूलैस्तु तीक्ष्णैश्च नराः पापेन कर्म्मणा ।
तैलयन्त्रेषु चाक्रम्य घोरैः कर्म्मभिरात्मनः
॥१३॥तिला इव प्रपीड्यंते चक्राख्ये जनपिंडकाः ।
भ्रज्यंते चातपे तप्ते लोहभाण्डेष्वनेकधा
॥१४॥तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः ।
बहुधा पच्यते जिह्वा प्रपीड्योरसि पादयोः
॥१५॥यातनाश्च महत्योऽत्र शरीरस्याति सर्वतः ।
निश्शेषनरकेष्वेवं क्रमंति क्रमशो नराः
॥१६॥नरकेषु च सर्वेषु विचित्रा यमयातना ।
याम्यैश्च दीयते व्यास सर्वांगेषु सुकष्टदा
॥१७॥ज्वलदंगारमादाय मुखमापूर्य्य ताड्यते ।
ततः क्षारेण दीप्तेन ताम्रेण च पुनःपुनः
॥१८॥घृतेनात्यन्ततप्तेन तदा तैलेन तन्मुखम् ।
इतस्ततः पीडयित्वा भृशमापूर्य्य हन्यते
॥१९॥विष्ठाभिः कृमिभिश्चापि पूर्यमाणाः क्वचित्क्वचित् ।
परिष्वजंति चात्युग्रां प्रदीप्तां लोहशाल्मलीम्
॥२०॥हन्यंते पृष्ठदेशे च पुनर्दीप्तैर्महाघनैः ।
दन्तुरेणादिकंठेन क्रकचेन बलीसया
॥२१॥शिरःप्रभृति पीड्यंते घोरैः कर्मभिरात्मजैः ।
खाद्यंते च स्वमांसानि पीयते शोणितं स्वकम्
॥२२॥अन्नं पानं न दत्तं यैस्सर्वदा स्वात्मपोषकैः ।
इक्षुवत्ते प्रपीड्यंते जर्जरीकृत्य मुद्गरैः
॥२३॥असितालवने घोरे छिद्यन्ते खण्डशस्ततः ।
सूचीभिर्भिन्नसर्वाङ्गास्तप्तशूलाग्ररोपिताः
॥२४॥संचाल्यमाना बहुशः क्लिश्यंते न म्रियन्ति च ।
तथा च तच्छरीराणि सुखदुःखसहानि च
॥२५॥देहादुत्पाट्य मांसानि भिद्यंते स्वैश्च मुद्गरैः ।
दंतुराकृतिभिर्र्घोरैर्यमदूतैर्बलोत्कटैः
॥२६॥निरुच्छ्वासे निरुछ्वासास्तिष्ठंति नरके चिरम् ।
उत्ताड्यंते तथोछ्वासे वालुकासदने नराः
॥२७॥रौरवे रोदमानाश्च पीड्यंते विविधै वधैः ।
महारौरवपीडाभिर्महांतोऽपि रुदंति च
॥२८॥पत्सु वक्त्रे गुदे मुंडे नेत्रयोश्चैव मस्तके ।
निहन्यंते घनैस्तीक्ष्णैस्सुतप्तैर्लोह शंकुभिः
॥२९॥सुतप्तावालुकायां तु प्रयोज्यंते मुहुर्मुहुः ।
जंतुपंके भृशं तप्ते क्षिप्ताः क्रन्दंति विस्वरम्
॥३०॥कुंभीपाकेषु च तथा तप्ततैलेषु वै मुने ।
पापिनः कूरकर्म्माणोऽसह्येषु सर्वथा पुनः
॥३१॥लालाभक्षेषु पापास्ते पात्यंते दुःखदेषु वै ।
नानास्थानेषु पच्यंते नरकेषु पुनःपुनः
॥३२॥सूचीमुखे महाक्लेशे नरके पात्यते नरः ।
पापी पुण्यविहीनश्च ताड्यते यमकिंकरैः
॥३३॥लौहकुम्भे विनिःक्षिप्ताः श्वसन्तश्च शनैःशनैः ।
महाग्निना प्रपच्यंते स्वपापैरेव मानवाः
॥३४॥दृढं रज्ज्वादिभिर्बद्ध्वा प्रपीड्यंते शिलासु च ।
क्षिप्यंते चान्धकूपेषु दश्यंते भ्रमरैर्भृशम्
॥३५॥कृमिभिर्भिन्नसर्वांगाश्शतशो जर्जरीकृताः ।
सुतीक्ष्णक्षारकूपेषु क्षिप्यंते तदनंतरम्
॥३६॥महाज्वालेऽत्र नरके पापाः क्रन्दंति दुःखिताः ।
इतश्चेतश्च धावंति दह्यमानास्तदर्चिषा
॥३७॥पृष्ठे चानीय तुण्डाभ्यां विन्यस्त स्कंधयोजिते ।
तयोर्मध्येन वाकृष्य बाहुपृष्ठेन गाढतः
॥३८॥बद्ध्वा परस्परं सर्वे सुभृशं पापरज्जुभिः ।
बद्धपिंडास्तु दृश्यंते महा ज्वाले तु यातनाः
॥३९॥रज्जुभिर्वेष्टिताश्चैव प्रलिप्ताः कर्द्दमेन च ।
करीषतुषवह्नौ च पच्यंते न म्रियंति च
॥४०॥सुतीक्ष्णं चरितास्ते हि कर्कशासु शिलासु च ।
आस्फाल्य शतशः पापाः पच्यंते तृणवत्ततः
॥४१॥शरीराभ्यंतरगतैः प्रभूतैः कृमिभिर्नराः ।
भक्ष्यंते तीक्ष्णवदनैरात्मदेहक्षयाद्भृशम्
॥४२॥कृमीणां निचये क्षिप्ताः पूयमांसास्थिराशिषु ।
तिष्ठंत्युद्विग्नहृदयाः पर्वताभ्यां निपीडिताः
॥४३॥तप्तेन वज्रलेपेन शरीरमनुलिप्यते ।
अधोमुखोर्ध्वपादाश्च तातप्यंते स्म वह्निना
॥४४॥वदनांतः प्रविन्यस्तां सुप्रतप्तामयोगदाम् ।
ते खादन्ति पराधीनास्तैस्ताड्यंते समुद्गरैः
॥४५॥इत्थं व्यास कुकर्म्माणो नरकेषु पचंति हि ।
वर्णयामि विवर्णत्वं तेषां तत्त्वाय कर्म्मिणाम्
॥४६॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यतो नरकगतिवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥