मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ३३

3
उमासंहिता · 33

एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः

सूत उवाच

एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः ।

वैवस्वते तु महति वारुणे वितते क्रतौ

॥१॥

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।

पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान्

॥२॥

पुत्रान्वै कल्पयामास स्वयमेव पितामहः ।

तेषां विरोधो देवानां दानवानां महानृषे

॥३॥

दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता ।

स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया

॥४॥

वरेणच्छंदयामास सा च वव्रे वरं तदा ।

पुत्रमिन्द्रवधार्थाय समर्थममितौजसम्

॥५॥

स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ।

ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः

॥६॥

धारयामास गर्भं तु शुचिस्सा वरवर्णिनी ।

ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै

॥७॥

ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः ।

जगाम कश्यपस्तप्तुं तपस्संहृष्टमानसः

॥८॥

तस्याश्चैवांतरं प्रेप्सुस्सोऽभवत्पाकशासनः ।

ऊनवर्षे शते चास्या ददर्शान्तरमेव सः

॥९॥

अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा ।

निद्रामाहारयामास भाविनोऽर्थस्य गौरवात्

॥१०॥

एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।

वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत

॥११॥

स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ।

रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः ।

चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते

॥१२॥

ते तमूचुः पात्यमानास्सर्वे प्रांजलयो मुने ।

नो जिघांससि किं शक्र भ्रातरो मरुतस्तव

॥१३॥

इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ।

तत्यजुर्द्दैत्यभावं ते विप्रर्षे शंकरेच्छया

॥१४॥

मरुतो नाम ते देवा बभूवुस्तु महाबलाः ।

खगा एकोनपंचाशत्सहाया वज्रपाणिनः

॥१५॥

तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ।

क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत्

॥१६॥

अरिष्टपुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।

पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत्

॥१७॥

भूतसर्गमिमं सम्यगवोचं ते महामुने ।

विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना

॥१८॥

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।

ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे

॥१९॥

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।

यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्

॥२०॥

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।

आदित्यानां तथा विष्णुं वसूनामथ पावकम्

॥२१॥

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।

दैत्यानां दानवानां च प्रह्लादममितौजसम्

॥२२॥

वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ।

मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम्

॥२३॥

यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।

सर्वभूतपिशाचानां गिरिशं शूलपाणिनम्

॥२४॥

शैलानां हिमवन्तं च नदीनामथ सागरम् ।

मृगाणामथ शार्दूलं गोवृषं तु गवामपि

॥२५॥

वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ।

इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात्

॥२६॥

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।

स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः

॥२७॥

तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ।

दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत्

॥२८॥

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ।

केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः

॥२९॥

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।

उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत्

॥३०॥

तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक ।

महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम्

॥३१॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रयस्त्रिंशत्तमोध्यायः ॥ ३३ ॥