वैवस्वतवर्णनम्
सूत उवाच
विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ।
तस्य भार्याऽभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका
॥१॥मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ।
भर्तृरूपेण नातुष्यद्रूप यौवनशालिनी
॥२॥आदित्यस्य हि तद्रूपमसहिष्णुस्तु तेजसः ।
दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी
॥३॥ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ।
संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः
॥४॥यमश्च यमुना चैव यमलौ संबभूवतुः ।
एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्य्यतः
॥५॥संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहंती ततश्छायामात्मनस्साऽ सृजच्छुभाम्
॥६॥मायामयी तु सा संज्ञामवोचद्भक्तितश्शुभे ।
किं करोमीह कार्य्यं ते कथयस्व शुचिस्मिते
॥७॥संज्ञोवाच
अहं यास्यामि भद्रं ते ममैव भवनं पितुः ।
त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः
॥८॥इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ।
पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम्
॥९॥छायोवाच
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ।
नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम्
॥१०॥सूत उवाच
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ।
पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः
॥११॥अगच्छद्वडवा भूत्वाऽऽच्छाद्यरूपं ततस्त्वकम् ।
कुरुंस्तदोत्तरान्प्राप्य नृणां मध्ये चचार ह
॥१२॥संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ।
जनयामास सावर्णिं मनुं वै सविता किल
॥१३॥संज्ञाऽनु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते
॥१४॥अनुजश्चाक्षमस्तत्तु यमस्तं नैव चक्षमे ।
स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात्
॥१५॥छायां संतर्जयामास यदा वैवस्वतो यमः ।
तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता
॥१६॥चरणः पततामेष तवेति भृशरोषितः ।
यमस्ततः पितुस्सर्वं प्रांजलिः प्रत्यवेदयत्
॥१७॥भृशं शाप भयोद्विग्नस्संज्ञावाक्यैर्विचेष्टितः ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै
॥१८॥स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा ।
तस्मान्मयोद्यतः पादस्तद्भवान् क्षंतुमर्हति
॥१९॥शप्तोहमस्मि देवेश जनन्या तपतांवर ।
तव प्रसादाच्चरणो न पतेन्मम गोपते
॥२०॥सवितोवाच
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम्
॥२१॥न शक्यते तन्मिथ्या वै कर्त्तुं मातृवचस्तव ।
कृमयो मांसमादाय गमिष्यंति महीतले
॥२२॥तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ।
कुरु तात न संदेहं मनश्चाश्वास्य स्वं प्रभो
॥२३॥सूत उवाच
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ।
आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः
॥२४॥सूर्य उवाच
हे प्रिये कुमते चंडि किं त्वयाऽऽचरितं किल ।
किं तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि
॥२५॥सूत उवाच
सा रवेर्वचनं श्रुत्वा यथा तथ्यं न्यवेदयत् ।
निर्दग्धा कामरविणा सांत्वयामास वै तदा
॥२६॥छायोवाच
तवातितेजसा दग्धा इदं रूपं न शोभते ।
असहंती च तत्संज्ञा वने वसति शाद्वले
॥२७॥श्लाघ्या योगबलोपेता योगमासाद्य गोपते ।
अनुकूलस्तु देवेश संदिश्यात्ममयं मतम्
॥२८॥रूपं निवर्तयाम्यद्य तव कांतं करोम्यहम् ।
सूत उवाच ।
तच्छ्रुत्वाऽपगतः क्रोधो मार्तण्डस्य विवस्वतः
॥२९॥भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः ।
ततो विभ्राजितं रूप तेजसा संवृतेन च
॥३०॥कृतं कांततरं रूपं त्वष्ट्रा तच्छुशुभे तदा ।
ततोभियोगमास्थाय स्वां भार्य्यां हि ददर्श ह
॥३१॥अधृष्यां सर्वभूतानां तेजसा नियमेन च ।
सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया
॥३२॥मैथुनाय विचेष्टंतीं परपुंसोभिशंकया ।
मुखतो नासिकायां तु शुक्रं तत् व्यदधान्मुने
॥३३॥देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ ।
नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि
॥३४॥तौ तु कांतेन रूपेण दर्शयामास भास्करः ।
आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात्
॥३५॥पत्या तेन गृहं प्रायात्स्वं सती मुदितानना ।
मुमुदातेऽथ तौ प्रीत्या दंपतो पूर्वतोधिकम्
॥३६॥यमस्तु कर्मणा तेन भृशं पीडितमानसः ।
धर्मेण रंजयामास धर्मराज इमा प्रजाः
॥३७॥लेभे स कर्मणा तेन धर्मराजो महाद्युतिः ।
पितॄणामाधिपत्यं च लोकपालत्वमेव च
॥३८॥मनुः प्रजापतिस्त्वासीत्सावर्णिस्स तपोधनः ।
भाव्यः स कर्मणा तेन मनोस्सावर्णिकेंतरे
॥३९॥मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ।
यवीयसी तयोर्या तु यमी कन्या यशस्विनी
॥४०॥अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी ।
मनुरित्युच्यते लोके सावर्णिरिति चोच्यते
॥४१॥य इदं जन्म देवानां शृणुयाद्धारयेत्तु वा ।
आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः
॥४२॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः ॥ ३५ ॥