मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ४

3
उमासंहिता · 4

शिवमायाप्रभाववर्णनम्

मुनय ऊचुः

ताततात महाभाग धन्यस्त्वं हि महामते ।

अद्भुतेयं कथा शंभोः श्राविता परभक्तिदा

॥१॥

पुनर्ब्रूहि कथां शंभोर्व्यास प्रश्नानुसारतः ।

सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः

॥२॥

सूत उवाच

एवमेव गुरुर्व्यासः पृष्टवान्मेऽजसंभवम् ।

सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम्

॥३॥

व्यास उवाच

सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कधा ।

शंकरस्य महेशस्य नानालीलाविहारिणः

॥४॥

पुनर्ब्रूहि महादेव महिमानं विशेषतः ।

श्रद्धा च महती श्रोतुं मम तात प्रवर्द्धते

॥५॥

महिम्ना येन शंभोस्तु येये लोके विमोहिताः ।

मायया ज्ञानमाहृत्य नानालीलाविहारिणः

॥६॥

सनत्कुमार उवाच

शृणु व्यास महाबुद्धे शांकरीं सुखदां कथाम् ।

तस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते

॥७॥

शिवस्सर्वेश्वरो देवस्सर्वात्मा सर्वदर्शनः ।

महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत्

॥८॥

शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ।

सर्वभूतात्मभूताख्या त्रिलिंगा लिंगरूपिणी

॥९॥

देवानां योनयश्चाष्टौ मानुषी नवमी च या ।

तिरश्चां योनयः पंच भवंत्येवं चतुर्द्दश

॥१०॥

भूता वा वर्तमाना वा भविष्याश्चैव सर्वश ।

शिवात्सर्वे प्रवर्तंते लीयंते वृद्धिमागताः

॥११॥

ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम् ।

गंधर्वाणां मनुष्याणामन्येषां वापि सर्वशः

॥१२॥

बंधुर्मित्रमथाचार्य्यो रक्षन्नेताऽर्थवान्गुरुः ।

कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः

॥१३॥

शिवस्सर्वमयः पुंसां स्वयं वेद्यः परात्परः ।

वक्तुं न शक्यते यश्च परं चानु परं च यत्

॥१४॥

तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने ।

तदधीनं जगत्सर्वं सदेवासुरमानुषम्

॥१५॥

कामेन स्वसहायेन प्रबलेन मनोभुवा ।

सर्वः प्रधर्षितो वीरो विष्ण्वादिः प्रबलोऽपि हि

॥१६॥

शिवमायाप्रभावेणाभूद्धरिः काममोहितः ।

परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर

॥१७॥

इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ।

पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा

॥१८॥

पावकोऽपि जगच्छ्रेष्ठो मोहितश्शिवमायया ।

कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः

॥१९॥

जगत्प्राणोऽपि गर्वेण मोहितश्शिवमायया ।

कामेन निर्जितो व्यासश्चक्रेऽन्यस्त्रीरतिं पुरा

॥२०॥

चण्डरश्मिस्तु मार्तण्डो मोहितश्शिवमायया ।

कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक्

॥२१॥

चन्द्रश्च मोहितश्शम्भोर्मायया कामसंकुलः ।

गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः

॥२२॥

पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ।

मोहितौ तावपि मुनी शिवमायाविमोहितौ

॥२३॥

उर्वशीं तरुणीं दृष्ट्वा कामुको संबभूवतुः ।

मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले

॥२४॥

ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसंभवः ।

अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः

॥२५॥

दक्षश्च मोहितश्शंभोर्मायया ब्रह्मणस्सुतः ।

भ्रातृभिस्स भगिन्यां वै भोक्तुकामोऽभवत्पुरा

॥२६॥

ब्रह्मा च बहुवारं हि मोहितश्शिवमायया ।

अभवद्भोक्तुकामश्च स्वसुतायां परासु च

॥२७॥

च्यवनोऽपि महायोगी मोहितश्शिवमायया ।

सुकन्यया विजह्रे स कामासक्तो बभूव ह

॥२८॥

कश्यपः शिवमायातो मोहितः कामसंकुलः ।

ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा

॥२९॥

गरुडः शांडिलीं कन्यां नेतुकामस्सुमोहितः ।

विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह

॥३०॥

विभांडको मुनिर्नारीं दृष्ट्वा कामवशं गतः ।

ऋष्यशृङ्गः सुतस्तस्य मृग्यां जातश्शिवाज्ञया

॥३१॥

गौतमश्च मुनिश्शंभोर्मायामोहितमानसः ।

दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया

॥३२॥

रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः ।

तस्माच्च कलशाज्जातो द्रोणश्शस्त्रभृतां वरः

॥३३॥

पराशरो महायोगी मोहितश्शिवमायया ।

मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया

॥३४॥

विश्वमित्रो बभूवाथ मोहितश्शिवमायया ।

रेमे मेनकया व्यास वने कामवशं गतः

॥३५॥

वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः ।

पुनः शिवप्रासादाच्च ब्राह्मणोऽभूत्स एव वै

॥३६॥

रावणो वैश्रवाः कामी बभूव शिवमायया ।

सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च

॥३७॥

बृहस्पतिर्मुनिवरो मोहितश्शिवमायया ।

भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत्

॥३८॥

इति मायाप्रभावो हि शंकरस्य महात्मनः ।

वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि

॥३९॥

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थो ऽध्यायः ॥ ४ ॥