मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय १७

3
उमासंहिता · 17

पाराशर्य्य सुसंक्षेपाच्छृणु त्वं वदतो मम

सनत्कुमार उवाच

पाराशर्य्य सुसंक्षेपाच्छृणु त्वं वदतो मम ।

मण्डलं च भुवस्सम्यक् सप्तद्वीपादिसंयुतम्

॥१॥

जंबू प्लक्षश्शाल्मलिश्च कुशः क्रौञ्चश्च शाककः ।

पुष्पकस्सप्तमस्सर्वे समुद्रैस्सप्तभिर्वृताः

॥२॥

लवणेक्षुरसौ सर्पिर्दविदुग्धजलाशयाः ।

जम्बुद्वीपस्समस्तानामेतेषां मध्यतः स्थितः

॥३॥

तस्यापि मेरुः कालेयमध्ये कनकपर्वतः ।

प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः

॥४॥

चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ।

भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः

॥५॥

मूले षोडशसाहस्रः कर्णिकाकार संस्थितः ।

हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे

॥६॥

नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।

दशसाहस्रिकं ह्येते रत्नवंतोऽरुणप्रभाः

॥७॥

सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते ।

भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्

॥८॥

हरिवर्षं ततो ऽन्यद्वै मेरोर्दक्षिणतो मुने ।

रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम्

॥९॥

उत्तरे कुरवश्चैव यथा वै भारतं तथा ।

नवसाहस्रमेकैकमेतेषां मुनिसत्तम

॥१०॥

इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।

मेरोश्चतुर्द्दिशं तत्र नवसाहस्रमुच्छ्रितम्

॥११॥

इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः ।

विष्कंभा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः

॥१२॥

पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः ।

विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः

॥१३॥

कदंबो जंबुवृक्षश्च पिप्पलो वट एव च ।

एकादशशतायामाः पादपा गिरिकेतवः

॥१४॥

जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने ।

विराजंते महावृक्षास्तत्स्वभावं वदामि ते

॥१५॥

महागज प्रमाणानि जम्ब्वास्तस्याः फलानि च ।

पतंति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः

॥१६॥

रसेन तेषां विख्याता जम्बूनदीति वै ।

परितो वर्तते तत्र पीयते तन्निवासिभिः

॥१७॥

न स्वेदो न च दौर्गंध्यं न जरा चेन्द्रियग्रहः ।

तस्यास्तटे स्थितानान्तु जनानां तन्न जायते

॥१८॥

तीरमृत्स्नां च सम्प्राप्य मुखवायुविशोषिताम् ।

जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्

॥१९॥

भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।

वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम्

॥२०॥

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।

विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्

॥२१॥

अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् ।

सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः

॥२२॥

शीतांजनः कुरुंगश्च कुररो माल्यवांस्तथा ।

चैकैकप्रमुखा मेरोः पूर्वतः केसराचलाः

॥२३॥

त्रिकूटश्शिशिरश्चैव पतंगो रुचकस्तथा ।

निषधः कपिलायाश्च दक्षिणे केसराचलाः

॥२४॥

सिनी वासः कुसुंभश्च कपिलो नारदस्तथा ।

नागादयश्च गिरयः पश्चिमे केसराचलाः

॥२५॥

शंखचूडोऽथ ऋषभो हंसो नाम महीधरः ।

कालंजराद्याश्च तथा उत्तरे केसराचलाः

॥२६॥

मेरोरुपरि मध्ये हि शातकौंभं विधेः पुरम् ।

चतुर्द्दशसहस्राणि योजनानि च संख्यया

॥२७॥

अष्टानां लोकपालानां परितस्तदनुक्रमात् ।

यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः

॥२८॥

तस्यां च ब्रह्मणः पुर्य्यां पातयित्वेन्दुमण्डलम् ।

विष्णुपादविनिष्क्रांता गंगा पतति वै नदी

॥२९॥

सीता चालकनंदा च चक्षुर्भद्रा च वै क्रमात् ।

सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत

॥३०॥

सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे ।

सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत्

॥३१॥

गिरीनतीत्य सकलांश्चतुर्द्दिक्षु महांबुधिम् ।

सा ययौ प्रयता सूता गंगा त्रिपथगामिनी

॥३२॥

सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ ।

तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः

॥३३॥

भारतः केतुमालश्च भद्राश्वः कुरवस्तथा ।

पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः

॥३४॥

जठरं देवकूटश्च आयामे दक्षिणोत्तरे ।

गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ

॥३५॥

पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः ।

दक्षिणोत्तरमायातौ कर्णिकांतर्व्यवस्थितौ

॥३६॥

जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ ।

केसराः पर्वता एते श्वेताद्याः सुमनोरमाः

॥३७॥

शैलानामुत्तरे द्रोण्यस्सिद्धचारणसेविताः ।

सुरम्याणि तथा तासु काननानि पुराणि च

॥३८॥

सर्वेषां चैव देवानां यक्षगंधर्वरक्षसाम् ।

क्रीडंति देवदैतेयाश्शैलप्रायेष्वहर्निशम्

॥३९॥

धर्मिणामालया ह्येते भौमास्स्वर्गाः प्रकीर्तिताः ।

न तेषु पापकर्तारो यांति पश्यंति कुत्रचित्

॥४०॥

यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने ।

न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम्

॥४१॥

स्वस्थाः प्रजा निरातंकास्सर्वदुःखविवर्जिताः ।

दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः

॥४२॥

कृतत्रेतादिकाश्चैव भौमान्यंभांसि सर्वतः ।

न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना

॥४३॥

सप्तस्वेतेषु नद्यश्च सुजातास्स्वर्णवा लुकाः ।

शतशस्संति क्षुद्राश्च तासु क्रीडारता जनाः

॥४४॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोध्यायः ॥ १७ ॥