मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय १२

3
उमासंहिता · 12

तपोमाहात्म्यवर्णनम्

सनत्कुमार उवाच

पानीयदानं परमं दानानामुत्तमं सदा ।

सर्वेषां जीवपुंजानां तर्पणं जीवनं स्मृतम्

॥१॥

प्रपादानमतः कुर्यात्सुस्नेहादनिवारितम् ।

जलाश्रयविनिर्माणं महानन्दकरं भवेत्

॥२॥

इह लोके परे वापि सत्यं सत्यं न संशयः ।

तस्माद्वापीश्च कूपांश्च तडागान्कारयेन्नरः

॥३॥

अर्द्धं पापस्य हरति पुरुषस्य विकर्मणः ।

कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः

॥४॥

सर्वं तारयते वंशं यस्य खाते जलाशये ।

गावः पिबंति विप्राश्च साधवश्च नरास्सदा

॥५॥

निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।

सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते

॥६॥

तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता ।

त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान्

॥७॥

अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् ।

कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम्

॥८॥

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।

तडागं सुकृते येन तस्य पुण्यमनन्तकम्

॥९॥

चतुर्विधानां भूतानां तडागः परमाश्रयः ।

तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम्

॥१०॥

देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः ।

स्थावराणि च भूतानि संश्रयंति जलाशयम्

॥११॥

प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति ।

अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः

॥१२॥

शरत्काले तु सलिलं तडागे यस्य तिष्ठति ।

गोसहस्रफलं तस्य भवेन्नैवात्र संशयः

॥१३॥

हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति ।

स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्

॥१४॥

वसंते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति ।

अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः

॥१५॥

मुने व्यासाथ वृक्षाणां रोपणे च गुणाञ्छृणु ।

प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम्

॥१६॥

अतीतानागतान्सर्वान्पितृवंशांस्तु तारयेत् ।

कांतारे वृक्षरोपी यस्तस्माद्वृक्षांस्तु रोपयेत्

॥१७॥

तत्र पुत्रा भवंत्येते पादपा नात्र संशयः ।

परं लोकं गतस्सोऽपि लोकानाप्नोति चाक्षयान्

॥१८॥

पुष्पैस्सुरगणान्सर्वान्फलैश्चापि तथा पितॄन् ।

छायया चातिथीन्सर्वान्पूजयंति महीरुहाः

॥१९॥

किन्नरोरगरक्षांसि देवगंधर्वमानवाः ।

तथैवर्षिगणाश्चैव संश्रयंति महीरुहान्

॥२०॥

पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् ।

इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः

॥२१॥

तडागकृद्वृक्षरोपी चेष्टयज्ञश्च यो द्विजः ।

एते स्वर्गान्न हीयंते ये चान्ये सत्यवादिनः

॥२२॥

सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।

सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम्

॥२३॥

सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् ।

सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम्

॥२४॥

ततो यज्ञश्च पुण्यं च देवर्षिपितृपूजने ।

आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम्

॥२५॥

सत्यं यज्ञस्तपो दानं मंत्रा देवी सरस्वती ।

ब्रह्मचर्य्यं तथा सत्यमोंकारस्सत्यमेव च

॥२६॥

सत्येन वायुरभ्येति सत्येन तपते रविः ।

सत्येनाग्निर्निर्दहति स्वर्गस्सत्येन तिष्ठति

॥२७॥

पालनं सर्ववेदानां सर्वतीर्थावगाहनम् ।

सत्येन वहते लोके सर्वमाप्नोत्यसंशयम्

॥२८॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।

लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते

॥२९॥

सत्येन देवाः पितरो मानवोरगराक्षसाः ।

प्रीयंते सत्यतस्सर्वे लोकाश्च सचराचराः

॥३०॥

सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ।

सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत्

॥३१॥

मुनयस्सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् ।

सत्यधर्मरतास्सिद्धास्ततस्स्वर्गं च ते गताः

॥३२॥

अप्सरोगणसंविष्टैर्विमानैःपरिमातृभिः ।

वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्

॥३३॥

अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे ।

स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम्

॥३४॥

आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ।

अनृतं ये न भाषंते ते नरास्स्वर्गगामिनः

॥३५॥

वेदा यज्ञास्तथा मंत्रास्संति विप्रेषु नित्यशः ।

नोभांत्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत्

॥३६॥

व्यास उवाच

तपसो मे फलं ब्रूहि पुनरेव विशेषतः ।

सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन

॥३७॥

सनत्कुमार उवाच

प्रवक्ष्यामि तपोऽध्यायं सर्व कामार्थसाधकम् ।

सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु

॥३८॥

तपो हि परमं प्रोक्तं तपसा विद्यते फलम् ।

तपोरता हि ये नित्यं मोदंते सह दैवतैः

॥३९॥

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।

तपसा प्राप्यते कामस्तपस्सर्वार्थसाधनम्

॥४०॥

तपसा मोक्षमाप्नोति तपसा विंदते महत् ।

ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च

॥४१॥

नानाविधानि वस्तूनि तपसा लभते नरः ।

तपसा लभते सर्वं मनसा यद्यदिच्छति

॥४२॥

नातप्ततपसो यांति ब्रह्मलोकं कदाचन ।

नातप्ततपसां प्राप्यश्शंकरः परमेश्वरः

॥४३॥

यत्कार्यं किंचिदास्थाय पुरुषस्तपते तपः ।

तत्सर्वं समवाप्नोति परत्रेह च मानवः

॥४४॥

सुरापः पारदारी च ब्रह्महा गुरुतल्पगः ।

तपसा तरते सर्वं सर्वतश्च विमुंचति

॥४५॥

अपि सर्वेश्वरः स्थाणुर्विष्णु श्चैव सनातनः ।

ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः

॥४६॥

अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ।

तपसा दिवि मोदंते समेता दैवतैस्सह

॥४७॥

तपसा लभ्यते राज्यं स च शक्रस्सुरेश्वरः ।

तपसाऽपालयत्सर्वमहन्यहनि वृत्रहा

॥४८॥

सूर्य्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ।

तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा

॥४९॥

न चास्ति तत्सुखं लोके यद्विना तपसा किल ।

तपसैव सुखं सर्वमिति वेदविदो विदुः

॥५०॥

ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च ।

सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम्

॥५१॥

तपसा सृज्यते विश्वं ब्रह्मा विश्वं विनाश्रमम् ।

पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम्

॥५२॥

विश्वामित्रो गाधिसुतस्तपसैव महामुने ।

क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवेत्विदम्

॥५३॥

इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् ।

शृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम्

॥५४॥

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥