मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय २७

3
उमासंहिता · 27

कालवंचनशिवप्राप्तिवर्णनम्

देव्युवाच

वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ।

तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो

॥१॥

शंकर उवाच

पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ।

कालं जिगाय यस्सम्यग्वायोर्लिंगं यथा भवेत्

॥२॥

तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ।

स जयत्यागतं कालं मासार्द्धेनैव सुंदरि

॥३॥

हृत्स्थो वायुस्सदा वह्नेर्दीपकस्सोऽनुपावकः ।

स बाह्याभ्यंतरो व्यापी वायुस्सर्वगतो महान्

॥४॥

ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ।

येनेह निर्जितो वायुस्तेन सर्वमिदं जगत्

॥५॥

धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ।

योगी योगरतः सम्यग्धारणाध्यानतत्परः

॥६॥

लोहकारो यथा भस्त्रामापूर्य्य मुखतो मुने ।

साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत्

॥७॥

देवस्सहस्रके नेत्रपादहस्तसहस्रकः ।

ग्रंथीन्हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशांगुलम्

॥८॥

गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकाम् ।

त्रिवारमायतप्राणाः प्राणायामस्स उच्यते

॥९॥

गतागता निवर्तंते चन्द्रसूर्यादयो ग्रहाः ।

अद्यापि न निवर्तंते योगध्यानपरायणाः

॥१०॥

शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद्द्विजः ।

तदाप्नोति फलं देवि विप्राणां धारणैकया

॥११॥

यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ।

सर्वं पापं निहंत्याशु ब्रह्मलोकं स गच्छति

॥१२॥

योऽतंद्रितस्सदैकांते प्रणायामपरो भवेत् ।

जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः

॥१३॥

सिद्धस्य भजते रूपं कांतिं मेधां पराक्रमम् ।

शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम्

॥१४॥

एतत्कथितमशेषं वायोस्सिद्धिं यदाप्नुते योगी ।

यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि

॥१५॥

स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ।

शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे

॥१६॥

वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतंद्रितो योगी ।

दीपहीनध्वांत पश्येन्न्यूनमसंशयं लोके

॥१७॥

नेत्रे करशाखाभिः किंचित्संपीड्य यत्नतो योगी ।

तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमेकभावोऽपि

॥१८॥

ततस्तु तमसि ध्यायन्पश्यते ज्योतिरैश्वरम् ।

श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम्

॥१९॥

भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम् ।

तं विदित्वा तु कामांगी क्रीडते कामरूपधृक्

॥२०॥

कारणप्रशमावेशं परकायप्रवेशनम् ।

अणिमादिगुणावाप्तिर्मनसा चावलोकनम्

॥२१॥

दूरश्रवण विज्ञानमदृश्यं बहुरूपधृक् ।

सतताभ्यासयोगेन खेचरत्वं प्रजायते

॥२२॥

श्रुताध्ययनसंपन्ना नानाशास्त्रविशारदाः ।

ज्ञानिनोऽपि विमुह्यंते पूर्वकर्मवशानुगाः

॥२३॥

पश्यंतोऽपि न पश्यंति शृण्वाना बधिरा यथा ।

यथांधा मानुषा लोके मूढाः पापविमोहिताः

॥२४॥

वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वातिमृत्युमेति नान्यः पंथा विद्यते प्रायणायः

॥२५॥

एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ।

कालं जित्वा यथा योगी चामरत्वं प्रपद्यते

॥२६॥

पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ।

सावधानतया देवि शृणुष्वैकाग्रमानसा

॥२७॥

तुरीया देवि भूतानां योगिनां ध्यानिनां तथा ।

सुखासने यथास्थानं योगी नियतमानसः

॥२८॥

समुन्नतशरीरोऽपि स बद्ध्वा करसंपुटम् ।

चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैश्शनैः

॥२९॥

प्रस्रवंति क्षणादापस्तालुस्था जीवदायिकाः ।

ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम्

॥३०॥

पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ।

दिव्यकायो महातेजाः पिपासा क्षुद्विवर्जितः

॥३१॥

बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णस्सुश्रुतिस्तु दूरात् ।

आकुंचिताकुंडलिकृष्णकेशो गंधर्वविद्याधरतुल्यवर्णः

॥३२॥

जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम् ।

एवं चरन् खेचरतां प्रयाति यथेष्टचारी सुखितस्सदैव

॥३३॥

पुनरन्यत्प्रवक्ष्णमि विधानं यत्सुरैरपि ।

गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने

॥३४॥

समाकुंच्याभ्यसेद्योगी रसनां तालुकं प्रति ।

किंचित्कालांतरेणैव क्रमात्प्राप्नोति लंबिकाम्

॥३५॥

ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ।

पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति

॥३६॥

रेफाग्रं लंबकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दोस्तेनाकृष्टा सुधेयं पतति परपदे देवतानंदकारी ।

सारं संसारतारं कृतकलुषतरं कालतारं सतारं येनेदं प्लावितांगं स भवति न मृतः क्षुत्पिपासाविहीनः

॥३७॥

एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्य्यान्नित्यं कुतोऽन्तं सकलमपि जगद्यत्सुखप्रापणाय ।

स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम्

॥३८॥

तस्मान्मंत्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ।

भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम्

॥३९॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥