नरकोद्धारवर्णनम्
सनत्कुमार उवाच
तेषां मूर्द्धोपरिष्टाद्वै नरकांस्ताञ्छृणुष्व च ।
मत्तो मुनिवरश्रेष्ठ पच्यंते यत्र पापिनः
॥१॥रौरवश्शूकरो रोधस्तालो विवसनस्तथा ।
महाज्वालस्तप्तकुंभो लवणोपि विलोहितः
॥२॥वैतरणी पूयवहा कृमिणः कृमिभोजनः ।
असिपत्रवनं घोरं लालाभक्षश्च दारुणः
॥३॥तथा पूयवहः प्रायो बहिर्ज्वालो ह्यधश्शिराः ।
संदंशः कालसूत्रश्च तमश्चावीचिरो धनः
॥४॥श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ।
इत्याद्या बहवस्तत्र नरका दुःखदायकाः
॥५॥पच्यंते तेषु पुरुषाः पापकर्मरतास्तु ये ।
क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु
॥६॥कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ।
सदाऽनृतं वदेद्यस्तु स नरो याति रौरवम्
॥७॥भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ।
सुरापो ब्रह्महंता च परद्रव्यापहारकः
॥८॥यस्तत्संगी स वै याति मृतो व्यास गुरोर्वधात् ।
ततः कुंभे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा
॥९॥साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ।
तप्तलोहेषु पच्यंते यश्च भक्तं परित्यजेत्
॥१०॥अवमंता गुरूणां यः पश्चाद्भोक्ता नराधमः ।
देवदूषयिता चैव देवविक्रयिकश्च यः
॥११॥अगम्यगामी यश्चांते याति सप्तबलं द्विज ।
चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा
॥१२॥देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।
स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टकृत्
॥१३॥पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः ।
लालाभक्षं स यात्यज्ञो यश्शस्त्रकूटकृन्नरः
॥१४॥यश्चांत्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ।
अयाज्ययाजकश्चैव तथैवाभक्ष्य भक्षकः
॥१५॥रुधिरौघे पतंत्येते सोमविक्रयिणश्च ये ।
मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम्
॥१६॥नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ।
ते कृत्यं यांत्यशौचाश्च कुलकाजीविनश्च ये
॥१७॥असिपत्रवनं याति वृक्षच्छेदी वृथैव यः ।
क्षुरभ्रका मृगव्याधा वह्निज्वाले पतंति ते
॥१८॥भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ।
यात्यंते द्विज तत्रैव यः श्वपाकेषु वह्निदः
॥१९॥व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये ।
संदंशयातनामध्ये पतंति भृशदारुणे
॥२०॥वीर्यं स्वप्नेषु स्कंदेयुर्ये नरा ब्रह्मचारिणः ।
पुत्रा नाध्यापिता यैश्च ते पतंति श्वभोजने
॥२१॥एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यते यातनागताः
॥२२॥तथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यंते यानि पुरुषैर्नरकांतरगोचरैः
॥२३॥वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः ।
कर्मणा मनसा वाचा निरये तु पतंति ते
॥२४॥अधश्शिरोभिर्दृश्यंते नारका दिवि दैवतैः ।
देवानधोमुखान्सर्वानधः पश्यंति नारकाः
॥२५॥स्थावराः कृमिपाकाश्च पक्षिणः पशवो मृगाः ।
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्
॥२६॥यावंतो जंतवस्स्वर्गे तावंतो नरकौकसः ।
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः
॥२७॥गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा ।
प्रायश्चित्तानि कालेय मनुस्स्वायम्भुवोऽब्रवीत्
॥२८॥यानि तेषामशेषाणां कर्मार्ण्युक्तानि तेषु वै ।
प्रायश्चित्तमशेषेण हरानुस्मरणं परम्
॥२९॥प्रायश्चित्तं तु यस्यैव पापं पुंसः प्रजायते ।
कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम्
॥३०॥माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन् ।
प्रातर्निशि च संध्यायां क्षीणपापो भवेन्नरः
॥३१॥मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसंक्षयम ।
शिवस्य स्मरणादेव तस्य शंभोरुमापतेः
॥३२॥पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च ।
भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम
॥३३॥महेश्वरे मतिर्यस्य जपहोमार्चनादिपु ।
यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम्
॥३४॥पुमान्न नरकं याति यः स्मरन्भक्तितो मुने ।
अहर्निशं शिवं तस्मात्स क्षीणाशेषपातकः
॥३५॥नरकस्वर्गसंज्ञाये पापपुण्ये द्विजोत्तम ।
ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च
॥३६॥तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तत्स्याद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम्
॥३७॥मनसः परिणामोऽयं सुखदुःखोपलक्षणः ।
ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते
॥३८॥ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् ।
परविज्ञानतः किंचिद्विद्यते न परं मुने
॥३९॥एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् ।
अत ऊर्ध्वं प्रवक्ष्यामि सांप्रतं मंडलं भुवः
॥४०॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥