मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय २५

3
उमासंहिता · 25

कालज्ञानवर्णनम्

व्यास उवाच

सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने ।

स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे

॥१॥

सनत्कुमार उवाच

इदमेव पुराऽपृच्छत्पार्वती परमेश्वरम् ।

श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम्

॥२॥

पार्वत्युवाच

भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ।

यथार्चनं तु ते देव यैर्मंत्रैश्च यथाविधि

॥३॥

अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ।

मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः

॥४॥

तथा कथय मे नाथ यद्यहं तव वल्लभा ।

इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः

॥५॥

ईश्वर उवाच

सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ।

येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते

॥६॥

अहः पक्षं तथा मासमृतुं चायनवत्सरौ ।

स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरंतर्गतैस्तथा

॥७॥

तत्तेहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।

लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना

॥८॥

अकस्मात्पांडुरं देहमूर्द्ध्वरागं समंततः ।

तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये

॥९॥

मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत् ।

तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये

॥१०॥

रौरवानुगतं भद्र ध्वनिं नाकर्णयेद्द्रुतम् ।

षण्मासाभ्यंतरे मृत्युर्ज्ञातव्यः कालवेदिभिः

॥११॥

रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ।

कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा

॥१२॥

वामहस्तो यदा देवि सप्ताहं स्पंदते प्रिये ।

जीवितं तु तदा तस्य मासमेकं न संशयः

॥१३॥

उन्मीलयति गात्राणि तालुकं शुष्यते यदा ।

जीवितं तु तदा तस्य मासमेकं न संशयः

॥१४॥

नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ।

वक्त्रं कंठं च शुष्येत षण्मासांते गतायुषः

॥१५॥

स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यंति भामिनि ।

षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत्

॥१६॥

अंबुतैलघृतस्थं तु दर्पणे वरवर्णिनि ।

न पश्यति यदात्मानं विकृतं पलमेव च

॥१७॥

षण्मासायुस्स विज्ञेयः कालचक्रं विजानता ।

अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते

॥१८॥

शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ।

अथवा छायया हीनं मासमेकं न जीवति

॥१९॥

आंगिकानि मयोक्तानि मृत्युचिह्नानि पार्वति ।

बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम्

॥२०॥

रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम् ।

दृश्यते पाटलाकारं मासार्दे्धेन विपद्यते

॥२१॥

अरुंधती महायानमिंदुलक्षणवर्जितम् ।

अदृष्टतारको योऽसौ मासमेकं स जीवति

॥२२॥

दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम् ।

उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम्

॥२३॥

रात्रौ धनुर्यदापश्येन्मध्याह्ने चोल्कपातनम् ।

वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः

॥२४॥

ऋषयस्स्वर्गपंथाश्च दृश्यंते नैव चाम्बरे ।

षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः

॥२५॥

अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ।

दिक्चक्रं भ्रांतवत्पश्येत्षण्मासान्म्रियते स्फुटम्

॥२६॥

नीलाभिर्मक्षिकाभिश्च ह्यकस्माद्वेष्ट्यते पुमान् ।

मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः

॥२७॥

गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ।

शीघ्रं तु म्रियते जंतुर्मासैकेन न संशयः

॥२८॥

एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ।

मानुषाणां हितार्थाय संक्षेपेण वदाम्यहम्

॥२९॥

हस्तयोरुभयोर्देवि यथा कालं विजानते ।

वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम्

॥३०॥

एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुंदरि ।

शुचिर्भूत्वा स्मरन्देवं सुस्नातस्संयतेन्द्रियः

॥३१॥

हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ।

गंधैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम्

॥३२॥

कनिष्ठामादितः कृत्वा यावदंगुष्ठकं प्रिये ।

पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि

॥३३॥

प्रतिपदादिविन्यस्य तिथिं प्रतिपदादितः ।

संपुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः

॥३४॥

स्मरेन्नवात्मकं मंत्रं यावदष्टोत्तरं शतम् ।

निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः

॥३५॥

तस्मिन्पर्वणि सा रेखा दृश्यते भृंगसन्निभा ।

तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये

॥३६॥

अधुना नादजं वक्ष्ये संक्षेपात्काललक्षणम् ।

गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये

॥३७॥

आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ।

क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम्

॥३८॥

मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ।

अब्दं युगं तथा कल्पं महाकल्पं तथैव च

॥३९॥

एवं स हरते कालः परिपाट्या सदाशिवः ।

वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम्

॥४०॥

दिनानि पंच चारभ्य पंचविंशद्दिनावधि ।

वामाचारगतौ नादः प्रमाणं कथितं तव

॥४१॥

भूतरंध्रदिशश्चैव ध्वजश्च वरवर्णिनि ।

वामचारगतौ नादः प्रमाणं कालवेदिनः

॥४२॥

ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ।

प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः

॥४३॥

भूतसंख्या यदा प्राणान्वहंते च इडादयः ।

वर्षस्याभ्यंतरे तस्य जीवितं हि न संशयः

॥४४॥

दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ।

पंचदशप्रवाहेण ह्यब्दमेकं गतायुषम्

॥४५॥

विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ।

पंचविंशद्दिनमितं वहते वामनाडिका

॥४६॥

जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ।

षड्विंशद्दिनमानेन मासद्वयमुदाहृतम्

॥४७॥

सप्तविंशद्दिनमितं वहतेत्यतिविश्रमा ।

मासमेकं समाख्यातं जीवितं वामगोचरे

॥४८॥

एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ।

सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः

॥४९॥

चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ।

तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः ।

षड्दिनान्यादितः कृत्वा संख्यायाश्च यथाविधि ।

एतदंतर्गते चैव वामरंध्रे प्रकाशितम्

॥५१॥

षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ।

मासानष्टौ विजानीयाद्दिनान्यष्ट च तानि तु

॥५२॥

प्राणः सप्तदशे चैव विद्धि वर्षं न संशयः ।

सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः

॥५३॥

अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ।

चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधिः

॥५४॥

यदा नवदिनं प्राणा वहंत्येव त्रिमासकम् ।

मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः

॥५५॥

पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम् ।

अवांतरदिना ये तु तेन मासेन कथ्यते

॥५६॥

एकादश प्रवाहेण वर्षमेकं स जीवति ।

मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि

॥५७॥

द्वादशेन प्रवाहेण वर्षमेकं स जीवति ।

मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत्

॥५८॥

नाडी यदा च वहति त्रयोदशदिनावधि ।

सम्वत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः

॥५९॥

चतुर्विशद्दिनं शेषं जीवितं च न संशयः ।

प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु

॥६०॥

सम्वत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ।

चतुर्विंशद्दिनान्येव जीवितं च न संशयः

॥६१॥

पंचदशप्रवाहेण नव मासान्स जीवति ।

चतुर्विशद्दिनान्येव कथितं कालवेदिभिः

॥६२॥

षोडशाहप्रवाहेण दशमासान्स जीवति ।

चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः

॥६३॥

सप्तदशप्रवाहेण नवमासैर्गतायुषम् ।

अष्टादशदिनान्यत्र कथितं साधकेश्वरि

॥६४॥

वामचारं यदा देवि ह्यष्टादशदिनावधिः ।

जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः

॥६५॥

चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ।

प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः

॥६६॥

चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ।

चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति

॥६७॥

दिनान्यत्र दशाष्टौ च संहरंत्येव चारतः ।

अवांतरदिने यस्तु संक्षेपात्ते प्रकीर्तितः

॥६८॥

वामचारः समाख्यातो दक्षिणं शृणु सांप्रतम् ।

अष्टाविंशप्रवाहेण तिथिमानेन जीवति

॥६९॥

प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ।

त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते

॥७०॥

एकत्रिंशद्यदा देवि वहते च निरंतरम् ।

दिनत्रयं तदा तस्य जीवितं हि न संशयः

॥७१॥

द्वात्रिंशत्प्राणसंख्या च यदा हि वहते रविः ।

तदा तु जीवितं तस्य द्विदिनं हि न संशयः

॥७२॥

दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते ।

एकभागगतो वायुप्रवाहो मुखमण्डले

॥७३॥

धावमानप्रवाहेण दिनमेकं स जीवति ।

चक्रमे तत्परासोर्हि पुराविद्भिरुदाहृतम्

॥७४॥

एतत्ते कथितं देवि कालचक्रं गतायुषः ।

लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि

॥७५॥

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कालज्ञानवर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ॥