देहोत्पत्तिवर्णनम्
व्यास उवाच
विधिं तात वदेदानीं जीव जन्मविधानतः ।
गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर
॥१॥सनत्कुमार उवाच
शृणु व्यास समासेन शास्त्रसारमशेषतः ।
वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत्
॥२॥पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम् ।
अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि
॥३॥जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ।
वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम्
॥४॥तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः ।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः
॥५॥मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत् ।
रसस्तु देहे सरति स पुष्टस्तेन जायते
॥६॥कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ।
मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः
॥७॥हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ।
ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने
॥८॥तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ।
रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः
॥९॥पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ।
ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः
॥१०॥पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ।
त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते
॥११॥रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः ।
स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः
॥१२॥मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम् ।
इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः
॥१३॥शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः ।
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्
॥१४॥तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ।
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः
॥१५॥संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ।
तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ।
पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ।
बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः
॥१७॥ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम् ।
पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च
॥१८॥द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह ।
त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः
॥१९॥मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम् ।
मुखं नासा च कर्णौ मासैः पंचभिरेव च
॥२०॥दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः ।
कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु
॥२१॥पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते ।
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः
॥२२॥अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ।
उदरे मातुराच्छन्नो जरायौ मुनि सत्तम
॥२३॥मातुराहारचौर्य्येण षड्विधेन रसेन तु ।
नाभिनालनिबद्धेन वर्द्धते स दिनेदिने
॥२४॥ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ।
सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम्
॥२५॥मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनिसहस्राणि मया दृष्टानि जायता
॥२६॥अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ।
श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः
॥२७॥गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ।
अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम्
॥२८॥एवं स गर्भदुःखेन महता परिपीडितः ।
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन्
॥२९॥यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।
तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः
॥३०॥पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ।
गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा
॥३१॥लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।
गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना
॥३२॥सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ।
यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम्
॥३३॥गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ।
देहिनां दुःखबहुलं सुघोरमतिसंकटम्
॥३४॥इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ।
केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा
॥३५॥गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ।
भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम्
॥३६॥इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ।
शिरसा ताड्यमानस्य पाप मुद्गरकेण च
॥३७॥यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ।
तथा शरीरं निस्सारं योनियंत्रनिपीडनात्
॥३८॥अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम् ।
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम्
॥३९॥केशरोमनखच्छन्नं रोगायतनमातुरम् ।
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम्
॥४०॥ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम् ।
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्
॥४१॥संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम् ।
संकटेनाविविक्तेन योनिमार्गेण निर्गतम्
॥४२॥विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम् ।
अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम्
॥४३॥शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च ।
सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः
॥४४॥शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ।
एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः
॥४५॥अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः ।
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः
॥४६॥पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ।
वसायाश्च पलं विंशत्तदर्धं कपिलस्य च
॥४७॥पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ।
पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम्
॥४८॥शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ।
मांसस्य चैकपिंडेन पलसाहस्रमुच्यते
॥४९॥रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत ।
अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम
॥५०॥इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ।
अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम्
॥५१॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥