पापभेदवर्णनम्
सनत्कुमार उवाच
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ।
अतिमानोऽतिकोपश्च दांभिकत्वं कृतघ्नता
॥१॥' अत्यंतविषयासक्तिः कार्पण्यं साधुमत्सरः ।
परदाराभिगमनं साधुकन्यासुदूषणम्
॥२॥परिवित्तिः परिवेत्ता च यया च परिविद्यते ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम्
॥३॥शिवाश्रमतरूणां च पुष्पारामविनाशनम् ।
यः पीडामाश्रमस्थानामाचरेदल्पिकामपि
॥४॥सभृत्यपरिवारस्य पशुधान्यधनस्य च ।
कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा
॥५॥यज्ञारामतडागानां दारापत्यस्य विक्रयम् ।
तीर्थयात्रोपवासानां व्रतोपनयकर्म्मिणाम्
॥६॥स्त्रीधनान्युपजीवंति स्त्रीभिरप्यन्तनिर्जिताः ।
अरक्षणं च नारीणां मायया स्त्रीनिषेवणम्
॥७॥कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ।
निंदिताच्च धनादानं पण्यानां कूट जीवनम्
॥८॥विषमारण्यपत्राणां सततं वृषवाहनम् ।
उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया
॥९॥जिह्वाकामोपभोगार्थं यस्यारंभः सुकर्मसु ।
मूलेनख्यापको नित्यं वेदज्ञानादिकं च यत्
॥१०॥ब्राह्म्यादिव्रतसंत्यागश्चान्याचारनिषेवणम् ।
असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम्
॥११॥देवाग्निगुरुसाधूनां निन्दया ब्राह्मणस्य च ।
प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि
॥१२॥उत्सन्नपितृदेवेज्या स्वकर्म्मत्यागिनश्च ये ।
दुःशीला नास्तिकाः पापास्सदा वाऽसत्यवादिनः
॥१३॥पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ।
रजस्वलाया योनौ च मैथुनं यः समाचरेत्
॥१४॥स्त्रीपुत्रमित्रसंप्राप्तावाशाच्छेदकराश्च ये ।
जनस्याप्रिय वक्तारः क्रूरा समयवेदिनः
॥१५॥भेत्ता तडागकूपानां संक्रयाणां रसस्य च ।
एकपंक्तिस्थितानां च पाकभेदं करोति यः
॥१६॥इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ।
युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते
॥१७॥ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।
विनाशयंति कार्य्याणि ते नरा नारकाः स्मृताः
॥१८॥परस्त्रियाभितप्यंते ये परद्रव्यसूचकाः ।
परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः
॥१९॥द्विजदुःखकरा ये च प्रहारं चोद्धरंति ये ।
सेवन्ते तु द्विजाश्शूद्रां सुरां बध्नंति कामतः
॥२०॥ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः ।
वृत्त्यर्थं येऽपि कुर्वंति दानयज्ञादिकाः क्रियाः
॥२१॥गोष्ठाग्निजलरथ्यासु तरुच्छाया नगेषु च ।
त्यजंति ये पुरीषाद्यानारामायतनेषु च ।
लज्जाश्रमप्रासादेषु मयपानरताश्च ये ।
कृतकेलिभुजंगाश्च रन्ध्रान्वेषणतत्पराः
॥२३॥वंशेष्टका शिलाकाष्ठैः शृङ्गैश्शंकुभिरेव च ।
ये मार्गमनुरुंधंति परसीमां हरंति ये
॥२४॥कूटशासनकर्तारः कूटकर्मक्रियारताः ।
कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः
॥२५॥धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी ।
निर्द्दयोऽतीवभृत्येषु पशूनां दमनश्च यः
॥२६॥मिथ्या प्रवदतो वाच आकर्णयति यश्शनैः ।
स्वामिमित्रगुरुद्रोही मायावी चपलश्शठः
॥२७॥ये भार्य्यापुत्रमित्राणि बालवृद्धकृशातुरान् ।
भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नंति बुभुक्षितान्
॥२८॥यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति ।
वृथापाकस्स विज्ञेयो ब्रह्मवादिषु गर्हितः
॥२९॥नियमान्स्वयमादाय ये त्यजंत्यजितेन्द्रियाः ।
प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः
॥३०॥ये ताडयंति गां क्रूरा दमयंते मुहुर्मुहुः ।
दुर्बलान्ये न पुष्णंति सततं ये त्यजंति च
॥३१॥पीडयंत्यतिभारेणाऽसहंतं वाहयंति च ।
योजयन्नकृताहारान्न विमुंचंति संयतान्
॥३२॥ये भारक्षतरोगार्तान्गोवृषांश्च क्षुधातुरान् ।
न पालयंति यत्नेन गोघ्नास्ते नारकास्स्मृताः
॥३३॥वृषाणां वृषणान्ये च पापिष्ठा गालयंति च ।
वाहयंति च गां वंध्यां महानारकिनो नराः
॥३४॥आशया समनुप्राप्तान्क्षुत्तृष्णाश्रमकर्शितान् ।
अतिथींश्च तथानाथान्स्वतन्त्रा गृहमागतान्
॥३५॥अन्नाभिलाषान्दीनान्वा बालवृद्धकृशातुरान् ।
नानुकंपंति ये मूढास्ते यांति नरकार्णवम्
॥३६॥गृहेष्वर्था निवर्तन्ते स्मशानादपि बांधवाः ।
सुकृतं दुष्कृतं चैव गच्छंतमनुगच्छति
॥३७॥अजाविको माहिषिकस्सामुद्रो वृषलीपतिः ।
शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः
॥३८॥शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः ।
भृतका कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः
॥३९॥यश्चोचितमतिक्रम्य स्वेच्छयै वाहरेत्करम् ।
नरके पच्यते सोऽपि योपि दण्डरुचिर्नरः
॥४०॥उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते ।
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः
॥४१॥ये द्विजाः परिगृह्णंति नृपस्यान्यायवर्तिनः ।
ते प्रयांति तु घोरेषु नरकेषु न संशयः
॥४२॥अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति ।
प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा
॥४३॥पारदारिकचौराणां चंडानां विद्यते त्वघम् ।
परदाररतस्यापि राज्ञो भवति नित्यशः
॥४४॥अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् ।
अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत्
॥४५॥घृततैलान्नपानानि मधुमांससुरासवम् ।
गुडेक्षुशाकदुग्धानि दधिमूलफलानि च
॥४६॥तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् ।
उपानत्छत्रशकटमासनं च कमंडलुम्
॥४७॥ताम्रसीसत्रपुः शस्त्रं शंखाद्यं च जलोद्भवम् ।
वैद्यं च वैणवं चान्यद्गृहोपस्करणानि च
॥४८॥और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च ।
स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरंति च
॥४९॥एवमादीनि चान्यानि द्रव्याणि विविधानि च ।
नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च
॥५०॥तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् ।
अपहृत्य नरा यांति नरकं नात्र संशयः
॥५१॥एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम् ।
शरीरयातनार्थाय सर्वाकारमवाप्नुयात्
॥५२॥यमलोकं व्रजंत्येते शरीरेण यमाज्ञया ।
यमदूतैर्महाघोरैनीयमानास्सुदुःखिताः
॥५३॥देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् ।
धर्मराजः स्मृतश्शास्ता सुघोरैर्विविधैर्वधैः
॥५४॥नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ।
प्रायश्चित्तैर्गुरुश्शास्ता न बुधैरिष्यते यमः
॥५५॥पारदारिकचौराणामन्यायव्यवहारिणाम् ।
नृपतिश्शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट्
॥५६॥तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।
नाभुक्तस्यान्यथानाशः कल्पकोटिशतैरपि
॥५७॥यः करोति स्वयं कर्म्म कारयेच्चानुमोदयेत् ।
कायेन मनसा वाचा तस्य पापगतिः फलम्
॥५८॥इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥