मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ११

3
उमासंहिता · 11

कृतपापा नरा यांति दुःखेन महतान्विताः

व्यास उवाच

कृतपापा नरा यांति दुःखेन महतान्विताः ।

यममार्गे सुखं यैश्च तान्धर्मान्वद मे प्रभो

॥१॥

सनत्कुमार उवाच

अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः ।

शुभाशुभमथो वक्ष्ये तान्धर्म्मान्सुखदायकान्

॥२॥

अत्र ये शुभकर्म्माणः सौम्यचित्ता दयान्विताः ।

सुखेन ते नरा यांति यममार्गं भयावहम्

॥३॥

यः प्रदद्याद् द्विजेन्द्राणामुपानत्काष्ठपादुके ।

स नरोऽश्वेन महता सुखं याति यमालयम्

॥४॥

छत्रदानेन गच्छंति यथा छत्रेण देहिनः ।

शिबिकायाः प्रदानेन तद्रथेन सुखं व्रजेत्

॥५॥

शय्यासनप्रदानेन सुखं याति सुविश्रमम् ।

आरामच्छायाकर्तारो मार्गे वा वृक्षरोपकाः ।

व्रजन्ति यमलोकं च आतपेऽति गतक्लमाः

॥६॥

यांति पुष्पगयानेन पुष्पारामकरा नराः ।

देवायतनकर्तारः क्रीडंति च गृहोदरे

॥७॥

कर्तारश्च तथा ये च यतीनामाश्रमस्य च ।

अनाथमण्डपानां तु क्रीडंति च गृहोदरे

॥८॥

देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।

पूज्यमाना नरा यांति कामुकेन यथासुखम्

॥९॥

द्योतयंतो दिशस्सर्वा यांति दीपप्रदायिनः ।

प्रतिश्रयप्रदानेन सुखं यांति निरामयाः

॥१०॥

विश्राम्यमाणा गच्छंति गुरुशुश्रूषका नराः ।

आतोद्यविप्रदातारस्सुखं यांति स्वके गृहे

॥११॥

सर्वकामसमृद्धेन यथा गच्छंति गोप्रदाः ।

अत्र दत्तान्नपानानि 'तान्याप्नोति नरः पथि

॥१२॥

पादशौचप्रदानेन सजलेन पथा व्रजेत् ।

पादाभ्यंगं च यः कुर्यादश्वपृष्ठेन गच्छति

॥१३॥

पादशौचं तथाभ्यंगं दीपमन्नं प्रतिश्रयम् ।

यो ददाति सदा व्यास नोपसर्पति तं यमः

॥१४॥

हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ।

रौप्यानडुत्स्रग्दानेन यमलोकं सुखेन सः

॥१५॥

इत्येवमादिभिर्दानैस्सुखं यांति यमालयम् ।

स्वर्गे तु विविधान्भोगान्प्राप्नुवंति सदा नराः

॥१६॥

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।

सद्यः प्रीतिकरं हृद्यं बलबुद्धिविवर्धनम्

॥१७॥

नान्नदानसमं दानं विद्यते मुनिसत्तम ।

अन्नाद्भवंति भूतानि तदभावे म्रियंति च

॥१८॥

रक्तं मांसं वसा शुक्रं क्रमादन्नात्प्रवर्धते ।

शुक्राद्भवंति भूतानि तस्मादन्नमयं जगत्

॥१९॥

हेमरत्नाश्वनागेन्द्रैर्नारीस्रक्चंदनादिभिः ।

समस्तैरपि संप्राप्तैर्न रमंति बुभुक्षिताः

॥२०॥

गर्भस्था जायमानाश्च बालवृद्धाश्च मध्यमाः ।

आहारमभिकांक्षंति देवदानवराक्षसाः

॥२१॥

क्षुधा निश्शेषरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।

स चान्नौषधिलेपेन नश्यतीह न संशयः

॥२२॥

नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ।

नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः

॥२३॥

अतएव महत्पुण्यमन्नदाने प्रकीर्तितम् ।

तथा क्षुधाग्निना तप्ता म्रियंते सर्वदेहिनः

॥२४॥

अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।

तस्मादन्नप्रदानेन सर्वदानफलं लभेत्

॥२५॥

यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसंचयम् ।

अन्नप्रदातुस्तस्यार्द्धं कर्तुश्चार्द्धं न संशयः

॥२६॥

त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ।

अन्नदानप्रदस्सर्वमिहामुत्र च तल्लभेत्

॥२७॥

धर्म्मार्थकाममोक्षाणां देहः परमसाधनम् ।

तस्मादन्नेन पानेन पालयेद्देहमात्मनः

॥२८॥

अन्नमेव प्रशंसंति सर्वमेव प्रतिष्ठितम् ।

अन्नेन सदृशं दानं न भूतं न भविष्यति

॥२९॥

अन्नेन धार्य्यते सर्वं विश्वं जगदिदं मुने ।

अन्नमूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः

॥३०॥

दातव्यं भिक्षवे चान्नं ब्राह्मणाय महात्मने ।

कुटुंबं पीडयित्वापि ह्यात्मनो भूतिमिच्छता

॥३१॥

विददाति निधिश्रेष्ठं यो दद्यादन्नमर्थिने ।

ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः

॥३२॥

अर्चयेद्भूतिमन्विच्छन्काले द्विजमुपस्थितम् ।

श्रांतमध्वनि वृत्त्यर्थं गृहस्थो गृहमागतम्

॥३३॥

अन्नदः पूजयेद्व्यासः सुशीलस्तु विमत्सरः ।

क्रोधमुत्पतितं हित्वा दिवि चेह महत्सुखम्

॥३४॥

नाभिनिंदेदधिगतं न प्रणुद्यात्कथंचन ।

अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति

॥३५॥

श्रांतायादृष्टपूर्वाय ह्यन्नमध्वनि वर्तते ।

यो दद्यादपरिक्लिष्टं स समृद्धिमवाप्नुयात

॥३६॥

पितॄन्देवांस्तथा विप्रानतिथींश्च महामुने ।

यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्

॥३७॥

अन्नं पानं च शूद्रेऽपि ब्राह्मणे च विशिष्यते ।

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च

॥३८॥

भिक्षितो ब्राह्मणेनेह दद्यादन्नं च यः पुमान् ।

स याति परमं स्वर्गं यावदाभूतसंप्लवम्

॥३९॥

अन्नदस्य च वृक्षाश्च सर्वकामफलान्विताः ।

भवंतीह यथा विप्रा हर्षयुक्तास्त्रिविष्टपे

॥४०॥

अन्नदानेन ये लोकास्स्वर्गे विरचिता मुने ।

अन्नदातुर्महादिव्यास्ताञ्छृणुष्व महामुने

॥४१॥

भवनानि प्रकाशंते दिवि तेषां महात्मनाम् ।

नानासंस्थानरूपाणि नाना कामान्वितानि च

॥४२॥

सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।

हेमवाप्यः शुभाः कूपा दीर्घिकाश्चैव सर्वशः

॥४३॥

घोषयंति च पानानि शुभान्यथ सहस्रशः ।

भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च

॥४४॥

क्षीरं स्रवंत्यस्सरितस्तथैवाज्यस्य पर्वताः ।

प्रासादाः पाण्डुराभासाश्शय्याश्च कनकोज्ज्वलाः

॥४५॥

तानन्नदाश्च गच्छंति तस्मादन्नप्रदो भवेत् ।

यदीच्छेदात्मनो भव्यमिह लोके परत्र च

॥४६॥

एते लोकाः पुण्यकृतामन्नदानां महाप्रभाः ।

तस्मादन्नं विशेषेण दातव्यं मानवैर्ध्रुवम्

॥४७॥

अन्नं प्रजापतिस्साक्षादन्नं विष्णुस्स्वयं हरः ।

तस्मादन्नसमं दानं न भूतं न भविष्यति

॥४८॥

कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ।

विमुक्तस्सर्वपापेभ्यस्स्वर्गलोकं स गच्छति

॥४९॥

अन्नपानाश्वगोवस्त्रशय्याच्छत्रासनानि च ।

प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः

॥५०॥

एवं दानविशेषेण धर्मराजपुरं नरः ।

यस्माद्याति विमानेन तस्माद्दानं समाचरेत्

॥५१॥

एतदाख्यानमनघमन्नदानप्रभावतः ।

यः पठेत्पाठयेदन्यान्स समृद्धः प्रजायते

॥५२॥

शृणुयाच्छ्रावयेच्छ्राद्धे ब्राह्मणान्यो महामुने ।

अक्षय्यमन्नदानं च पितॄणामुपतिष्ठति

॥५३॥

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायामन्नदानमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥