मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय २६

3
उमासंहिता · 26

कालवंचनवर्णनम्

देव्युवाच

कथितं तु त्वया देव कालज्ञानं यथार्थतः ।

कालस्य वंचनं ब्रूहि यथा तत्त्वेन योगिनः

॥१॥

कालस्तु सन्निकृष्टो हि वर्तते सर्वजंतुषु ।

यथा चास्य न मृत्युश्च वंचते कालमागतम्

॥२॥

तथा कथय मे देव प्रीतिं कृत्वा ममोपरि ।

योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद

॥३॥

शंकर उवाच

शृणु देवि प्रवक्ष्यामि पृष्टोहं यत्त्वया शिवे ।

समासेन च सर्वेषां मानुषाणां हितार्थतः

॥४॥

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।

एतेषां हि समायोगः शरीरं पांचभौतिकम्

॥५॥

आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः ।

आकाशे तु विलीयंते संभवंति पुनस्ततः

॥६॥

वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे ।

तस्या स्थिरता चास्ति सन्निपातस्य सुंदरि

॥७॥

ज्ञानिनोऽपि तथा तत्र तपोमंत्रबलादपि ।

ते सर्वे सुविजानंति सर्वमेतन्न संशयः

॥८॥

देव्युवाच

खं तेन यन्नश्यति घोररूपः कालः करालस्त्रिदिवैकनाथः ।

दग्धस्त्वया त्वं पुनरेव तुष्टः स्तोत्रै स्तुतः स्वां प्रकृतिं स लेभे

॥९॥

त्वया स चोक्तः कथया जनानामदृष्टरूपः प्रचरिष्यसीति ।

दृष्टस्त्वया तत्र महाप्रभावः प्रभोर्वरात्ते पुनरुत्थितश्च

॥१०॥

तदद्य भोः काल इहास्थि किंचिन्निहन्यते येन वदस्व तन्मे ।

त्वं योगिवर्यः प्रभुरात्मतंत्रः परोपकारात्ततनुर्महेश

॥११॥

शंकर उवाच

न हन्यते देववरैस्तु दैत्यैस्सयक्षरक्षोरगमानुषैश्च ।

ये योगिनो ध्यानपरास्सदेहा भवंति ते घ्नंति सुखेन कालम्

॥१२॥

सनत्कुमार उवाच

एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य सत्यं त्वं मे वद कथमसौ हन्यते येन कालः ।

शम्भुस्तामाह सद्यो हि मकरवदने योगिनो ये क्षिपंति कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ता

॥१३॥

शङ्कर उवाच

पंचभूतात्मको देहस्सदायुक्तस्तु तद्गुणैः ।

उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः

॥१४॥

आकाशाज्जायते वायुर्वायोस्तेजश्च जायते ।

तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत्

॥१५॥

पृथिव्यादीनि भूतानि गच्छंति क्रमशः परम् ।

धरा पंचगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः

॥१६॥

त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च ।

शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम्

॥१७॥

शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पंचमः ।

विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते

॥१८॥

तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते ।

एवं जानीहि देवेशि पंचभूतानि तत्त्वतः

॥१९॥

तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः ।

चिंतनीयाः प्रयत्नेन देवि कालजिगीषुणा

॥२०॥

देव्युवाच

कथं जेजीय्यते कालो योगिभिर्योगवित्प्रभो ।

ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे

॥२१॥

शङ्कर उवाच

शृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया ।

परज्ञानप्रकथनं न देयं यस्य कस्यचित्

॥२२॥

श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते ।

अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि

॥२३॥

सुश्वासेन सुशय्यायां योगं युंजीत योगवित् ।

दीपं विनांधकारे तु प्रजाः सुप्तेषु धारयेत्

॥२४॥

तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम् ।

तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः

॥२५॥

सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि ।

सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून्

॥२६॥

यश्चोपलक्षयेन्नित्यैराकारं घटिकाद्वयम् ।

जित्वा मृत्युं तथा कामं स्वेच्छया पर्य्यटेदिह

॥२७॥

सर्वज्ञस्सर्वदर्शी च सर्वसिद्धिमवाप्नुयात् ।

यथा नदति खेऽब्दो हि प्रावृडद्भिस्सुसंयतः

॥२८॥

तं श्रुत्वा मुच्यते योगी सद्यः संसारबन्धनात् ।

ततस्स योगिभिर्न्नित्यं सूक्ष्मात्सूक्ष्मतरो भवेत्

॥२९॥

एष ते कथितो देवि शब्दब्रह्मविधिक्रमः ।

पलालमिव धान्यार्थी त्यजेद्बन्धमशेषतः

॥३०॥

शब्दब्रह्मत्विदं प्राप्य ये केचिदन्यकांक्षिणः ।

घ्नंति ते मुष्टिनाकाशं कामयंते क्षुधां तृषाम्

॥३१॥

ज्ञात्वा परमिदं ब्रह्म सुखदं मुक्तिकारणम् ।

अवाह्यमक्षरं चैव सर्वोपाधिविवर्जितम्

॥३२॥

मोहिताः कालपाशेन मृत्युपाशवशंगताः ।

शब्दब्रह्म न जानंति पापिनस्ते कुबुद्धयः

॥३३॥

तावद्भवंति संसारे यावद्धाम न विंदते ।

विदिते तु परे तत्त्वे मुच्यते जन्मबन्धनात्

॥३४॥

निद्रालस्यं महा विघ्नं जित्वा शत्रुं प्रयत्नतः ।

सुखासने स्थितो नित्यं शब्दब्रह्माभ्यसन्निति

॥३५॥

शतवृद्धः पुमांल्लब्ध्वा यावदायुस्समभ्यसेत् ।

मृत्युञ्जयवपुस्तम्भ आरोग्यं वायुवर्द्धनम्

॥३६॥

प्रत्ययो दृश्यते वृद्धे किं पुनस्तरुणे जने ।

न चोंकारो न मन्त्रोपि नैव बीजं न चाक्षरम्

॥३७॥

अनाहतमनुच्चार्य्यं शब्दब्रह्म शिवं परम् ।

ध्यायन्ते देवि सततं सुधिया यत्नतः प्रिये

॥३८॥

तस्माच्छब्दा नव प्रोक्ताः प्राणविद्भिस्तु लक्षिताः ।

तान्प्रवक्ष्यामि यत्नेन नादसिद्धिमनुक्रमात्

॥३९॥

घोषं १ कांस्यं २ तथा शृंगं ३ घण्टां ४ वीणा ५ दिवंशजान् ६ ।

दुन्दुभिं ७ शंखशब्दं ८ तु नवमं मेघगर्जितम् ९

॥४०॥

नव शब्दान्परित्यज्य तुंकारं तु समभ्यसेत् ।

ध्यायन्नेवं सदा योगी पुण्यैः पापैर्न लिप्यते ।

न शृणोति यदा शृण्वन्योगाभ्यासेन देविके ।

म्रियतेभ्यसमानस्तु योगी तिष्ठेद्दिवानिशम्

॥४२॥

तस्मादुत्पद्यते शब्दो मृ त्सप्तभिर्दिनैः ।

स वै नवविधो देवि तं ब्रवीमि यथार्थतः ।

प्रथमं नदते घोषमात्मशुद्धिकरं परम् ।

सर्वव्याधिहरं नादं वश्याकर्षणमुत्तमम्

॥४४॥

द्वितीयं नादते कांस्यस्तम्भयेत्प्राणिनां गतिम् ।

विषभूतग्रहान्सर्वान्बध्नीयान्नात्र संशयः

॥४५॥

तृतीयं नादते शृंगमभिचारि नियोजयेत् ।

विद्विडुच्चाटने शत्रोर्मारणे च प्रयोजयेत्

॥४६॥

घंटानादं चतुर्थ तु वदते परमेश्वरः ।

आकर्षस्सर्वदेवानां किं पुनर्मानुषा भुवि

॥४७॥

यक्षगन्धर्वकन्याश्च तस्याकृष्टा ददंति हि ।

यथेप्सितां महासिद्धिं योगिने कामतोऽपि वा

॥४८॥

वीणा तु पंचमो नादः श्रूयते योगिभिस्सदा ।

तस्मादुत्पद्यते देवि दूरादर्शनमेव हि

॥४९॥

ध्यायतो वंशनादं तु सर्वतत्त्वं प्रजायते ।

दुन्दुभिं ध्यायमानस्तु जरामृत्युविवर्जितः

॥५०॥

शंखशब्देन देवेशि कामरूपं प्रपद्यते ।

योगिनो मेघनादेन न विपत्संगमो भवेत्

॥५१॥

यश्चैकमनसा नित्यं तुंकारं ब्रह्मरूपिणम् ।

किमसाध्यं न तस्यापि यथामति वरानने

॥५२॥

सर्वज्ञस्सर्वदर्शी च कामरूपी व्रजत्यसौ ।

न विकारैः प्रयुज्येत शिव एव न संशयः

॥५३॥

एतत्ते परमेशानि शब्दब्रह्मस्वरूपकम् ।

नवधा सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

॥५४॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥