मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ४०

3
उमासंहिता · 40

पितृप्रभाववर्णनम्

व्यास उवाच

इत्याकर्ण्य श्राद्धदेवः सूर्यान्वयमनुत्तमम् ।

पर्य्यपृच्छन्मुनिश्रेष्ठश्शौनकस्सूतमादरात्

॥१॥

शौनक उवाच

सूतसूत चिरंजीव व्यासशिष्य नमोस्तु ते ।

श्राविता परमा दिव्या कथा परमपावनी

॥२॥

त्वया प्रोक्तः श्राद्धदेवस्सूर्य्यः सद्वंशवर्द्धनः ।

संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः

॥३॥

कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।

श्रोतुमिच्छामि तत्प्रीत्या छिंधि मे संशयं त्विमम्

॥४॥

श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ।

प्रीताश्च पितरो येन श्रेयसा योजयंति तम्

॥५॥

एतच्च श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ।

कथय त्वं विशेषेण कृपां कुरु महामते

॥६॥

सूत उवाच

वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ।

मार्कण्डेयेन कथितं भीष्माय परिपृच्छते

॥७॥

गीतं सनत्कुमारेण मार्कण्डेय धीमते ।

तत्तेऽहं संप्रवक्ष्यामि सर्वकामफलपदम्

॥८॥

युधिष्ठिरेण संपृष्टो भीष्मो धर्मभृतां वरः ।

शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते

॥९॥

युधिष्ठिर उवाच

पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ।

एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति

॥१०॥

सूत उवाच

युधिष्ठिरेण संपृष्टं प्रश्नं श्रुत्वा स धर्मवित् ।

भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः

॥११॥

भीष्म उवाच

ये कुर्वंति नराश्श्राद्धान्यपि प्रीत्या युधिष्ठिर ।

श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः

॥१२॥

श्राद्धानि चैव कुर्वन्ति फलकामास्सदा नरा ।

अभिसंधाय पितरं पितुश्च पितरं तथा

॥१३॥

पितुः पितामहश्चैव त्रिषु पिंडेषु नित्यदा ।

पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम्

॥१४॥

पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर

॥१५॥

युधिष्ठिर उवाच

वर्तंते पितरः स्वर्गे केषांचिन्नरके पुनः ।

प्राणिनां नियतं चापि कर्मजं फलमुच्यते

॥१६॥

तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ।

कथं शक्तास्तमाहर्त्तुं नरकस्था फलं पुनः

॥१७॥

देवा अपि पितॄन्स्वर्गे यजंत इति मे श्रुतम् ।

एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे

॥१८॥

भीष्म उवाच

अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ।

पित्रा मम पुरा गीतं लोकान्तरगतेन वै

॥१९॥

श्राद्धकाले मम पितुर्मया पिंडस्समुद्यतः ।

मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत

॥२०॥

नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ।

कुशेष्वेव ततः पिंडं दत्तवानविचारयन्

॥२१॥

ततः पिता मे संतुष्टो वाचा मधुरया तदा ।

उवाच भारतश्रेष्ठ प्रीयमाणो मयानघ

॥२२॥

त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ।

तारितोहं तु जिज्ञासा कृता मे पुरुषोत्तम

॥२३॥

प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ।

प्रजास्तदनु वर्तंते प्रमाणाचरितं सदा

॥२४॥

शृणु त्वं भारतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ।

प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया

॥२५॥

तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ।

ददामि त्वं प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम्

॥२६॥

न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।

त्वत्तोभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता पुनः

॥२७॥

किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।

तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते

॥२८॥

इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ।

अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद ।

प्रश्नं पृच्छामि वै कंचिद्वाच्यस्स भवता स्वयम्

॥२९॥

स मामुवाच तद् ब्रूहि यदीच्छसि ददामि ते ।

इत्युक्तेथ मया तत्र पृष्टः प्रोवाच तन्नृपः

॥३०॥

शंतनुरुवाच

शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ।

पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम्

॥३१॥

यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ।

मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित्

॥३२॥

मार्कण्डेय उवाच

शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ।

विमानं महादायांतमन्तरेण गिरेस्तदा

॥३३॥

तस्मिन्विमाने पर्यक्षं ज्वलितांगारवर्चसम् ।

महातेजः प्रज्वलंतं निर्विशेषं मनोहरम्

॥३४॥

अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ।

अंगुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम्

॥३५॥

सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ।

अपृच्छं चैव तमहं विद्यामस्त्वां कथं विभो

॥३६॥

मामुवाच धर्मात्मा तेन तद्विद्यते तपः ।

येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणस्सुतम्

॥३७॥

सनत्कुमारमिति मां विद्धि किं करवाणि ते ।

ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम

॥३८॥

भ्रातरस्सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ।

वयं तु यतिधर्माणस्संयम्यात्मानमात्मनि

॥३९॥

यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ।

तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने

॥४०॥

यद्भक्त्या ते तपश्चीर्णं मम दर्शनकांक्षया ।

एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते

॥४१॥

इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ।

पितॄणामादिसर्गं च कथयस्व यथातथम्

॥४२॥

इत्युक्तस्स तु मां प्राह शृणु सर्वं यथातथम् ।

वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम्

॥४३॥

सनत्कुमार उवाच

देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ।

तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः

॥४४॥

ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ।

तस्मात्किंचिदजानंतो नष्टसंज्ञाः पितामहम्

॥४५॥

प्रोचुस्तं प्रणतास्सर्वे कुरुष्वानुग्रहं हि नः ।

इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि

॥४६॥

पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ।

इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा

॥४७॥

प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः ।

गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ

॥४८॥

अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम् ।

पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति

॥४९॥

ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ।

शृणुध्वं निर्जरास्सर्वे यूयं न ब्रह्मवादिनः

॥५०॥

तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ।

मंतव्यं संशयं त्यक्त्वा तथा न च तदन्यथा

॥५१॥

देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ।

परस्परं महाप्रीत्या सर्वकामफलप्रदा

॥५२॥

सनत्कुमार उवाच

ततस्ते छिन्नसंदेहाः प्रीतिमंतः परस्परम् ।

बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः

॥५३॥

ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम् ।

तस्माद्भवंतः पितरो भविष्यथ न संशयः

॥५४॥

पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ।

श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति

॥५५॥

समुद्रं पर्वतवनं जंगमाजंगमैर्वृतम् ।

श्राद्धानि पुष्टिकामैश्च ये करिष्यंति मानवाः

॥५६॥

तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणितास्सदा ।

श्राद्धे ये च प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः

॥५७॥

सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ।

भावयिष्यंति सततं श्राद्धदानेन तर्पिताः

॥५८॥

इति तद्वचनं सत्यं भवत्वथ दिवौकसः ।

पुत्राश्च पितरश्चैव वयं सर्वे परस्परम्

॥५९॥

एवं ते पितरो देवा धर्मतः पुत्रतां गताः ।

अन्योन्यं पितरो वै ते प्रथिताः क्षितिमण्डले

॥६०॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥