मनुविशेषकथनम्
व्यास उवाच
सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम ।
यद्गत्वा न निवर्तंते शिवभक्तियुता नराः
॥१॥सनत्कुमार उवाच
पराशरसुत व्यास शृणु प्रीत्या शुभां गतिम् ।
व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम्
॥२॥ये शिवं शुद्धकर्माणस्सुशुद्धतपसान्विताः ।
समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम्
॥३॥नातप्ततपसो यांति शिवलोकमनामयम् ।
शिवानुग्रहसद्धेतुस्तप एव महामुने
॥४॥तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः ।
ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः
॥५॥सुदुर्द्धरं दुरासाध्यं सुधुरं दुरतिक्रमम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्
॥६॥सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा ।
देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम्
॥७॥येन येन हि भावेन स्थित्वा यत्क्रियते तपः ।
ततस्संप्राप्यतेऽसौ तैरिह लोके न संशयः
॥८॥सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ।
विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम्
॥९॥सात्त्विकं दैवतानां हि यतीनामूर्द्ध्वरेतसाम् ।
राजसं दानवानां हि मनुष्याणां तथैव च ।
तामसं राक्षसानां हि नराणां क्रूरकर्मणाम्
॥१०॥त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।
जपो ध्यानं तु देवानामर्चनं भक्तितश्शुभम्
॥११॥सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् ।
इह लोके परे चैव मनोभिप्रेतसाधनम्
॥१२॥कामनाफलमुद्दिश्य राजसं तप उच्यते ।
निजदेहं सुसंपीड्य देहशोषकदुस्सहैः
॥१३॥तपस्तामसमुद्दिष्टं मनोभिप्रेतसाधनम्
॥१४॥उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला ।
स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम्
॥१५॥व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दानं क्षांतिर्दमो दया
॥१६॥वापीकूपतडागादेः प्रसादस्य च कल्पना ।
कृच्छ्रं चांद्रायणं यज्ञस्सुतीर्थान्याश्रमाः पुनः
॥१७॥धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् ।
सुधर्मः परमो व्यासः शिवभक्तेश्च कारणम्
॥१८॥संक्रातिविषुवद्योगो नादमुक्ते नियुज्यताम् ।
ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा
॥१९॥रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः ।
नाडीसंचारविज्ञानं प्रत्याहारनिरोधनम्
॥२०॥तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम् ।
पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम्
॥२१॥काष्ठावस्था मृतावस्था हरितावेति कीर्तिताः ।
नानोपलब्धयो ह्येतास्सर्वपापप्रणाशनाः
॥२२॥नारी शय्या तथा पानं वस्त्रधूपविलेपनम् ।
ताम्बूलभक्षणं पंच राजैश्वर्य्यविभूतयः
॥२३॥हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः ।
पांडित्यं वेदशास्त्राणां गीतनृत्यविभूषणम्।
ा२४ ।
शंखवीणामृदंगाश्च गजेन्द्रश्छत्रचामरे ।
भोगरूपाणि चैतानि एभिश्शक्तोऽनुरज्यते
॥२५॥आदर्शवन्मुनेस्नेहैस्तिलवत्स निपीड्यते ।
अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः
॥२६॥जानन्नपीह संसारे भ्रमते घटियंत्रवत् ।
सर्वयोनिषु दुःखार्तस्स्थावरेषु चरेषु च
॥२७॥एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त ।
कालांतरवशाद्याति मानुष्यमतिदुर्लभम्
॥२८॥व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ।
विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात्
॥२९॥मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् ।
नाचरत्यात्मनः श्रेयस्स मृतश्शोचते चिरम्
॥३०॥देवासुराणां सर्वेषां मानुष्यं चाति दुर्लभं ।
तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा
॥३१॥स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः ।
दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम्
॥३२॥सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् ।
संप्राप्य धर्मतो व्यास तद्यत्तादनुपालयेत्
॥३३॥धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।
यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः
॥३४॥मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् ।
नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः
॥३५॥द्वीपानामेव सर्वेषां कर्मभूमिरियमुच्यते ।
इतस्स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः
॥३६॥देशेऽस्मिन्भारते वर्षे प्राप्य मानुष्यमध्रुवम् ।
न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वंचितः
॥३७॥कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता ।
इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते
॥३८॥यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत् ।
अस्वस्थश्चोदितोऽप्यन्यैर्न किंचित्कर्तुमुत्सहेत्
॥३९॥अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् ।
ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च
॥४०॥आयुषः खंडखंडानि निपतंति तदग्रतः ।
अहोरात्रोपदेशेन किमर्थं नावबुध्यते
॥४१॥यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ।
आकस्मिके हि मरणे धृतिं विंदति कस्तथा
॥४२॥परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् ।
न ददाति कदा कस्मात्पाथेयार्थमिदं धनम्
॥४३॥गृहीतदानपाथेयः सुखं याति यमालयम् ।
अन्यथा क्लिश्यते जंतुः पाथेयरहिते पथि
॥४४॥येषां कालेय पुण्यानि परिपूर्णानि सर्वतः ।
गच्छतां स्वर्गदेशं हि तेषां लाभः पदेपदे
॥४५॥इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।
पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत्
॥४६॥ये मनागपि देवेशं प्रपन्नाश्शरणं शिवम् ।
तेऽपि घोरं न पश्यंति यमं न नरकं तथा
॥४७॥किंतु पापैर्महामोहैः किंचित्काले शिवाज्ञया ।
वसंति तत्र मानुष्यास्ततो यांति शिवास्पदम्
॥४८॥ये पुनस्सर्वभावेन प्रतिपन्ना महेश्वरम् ।
न ते लिम्पंति पापेन पद्मपत्रमिवाम्भसा
॥४९॥उक्तं शिवेति यैर्नाम तथा हरहरेति च ।
न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम
॥५०॥परलोकस्य पाथेयं मोक्षोपायमनामयम् ।
पुण्यसंघैकनिलयं शिव इत्यक्षरद्वयम्
॥५१॥शिवनामैव संसारमहारोगेकशामकम् ।
नान्यत्संसाररोगस्य शामकं दृश्यते मया
॥५२॥ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः ।
शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा
॥५३॥तस्माद्विवर्द्धयेद्भक्तिमीश्वरे सततं बुधः ।
शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विंदति
॥५४॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ॥ २० ॥