नरकगतिभोगवर्णनम्
सनत्कुमार उवाच
मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्ये च गच्छति ।
जिह्वार्द्धकोशविस्तीर्णहलैस्तीक्ष्णः प्रपीड्यते
॥१॥निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् ।
विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य्य हन्यते
॥२॥ये शिवायतनारामवापीकूपतडागकान् ।
विद्रवंति द्विजस्थानं नरास्तत्र रमंति च
॥३॥कामायोद्वर्तनाभ्यंग स्नानपानाम्बुभोजनम् ।
क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धता
॥४॥पेचिरे विविधैर्घेरैरिक्षुयंत्रादिपीडनैः ।
निरयाग्निषु पच्यंते यावदाभूतसंप्लवम्
॥५॥तेन तेनैव रूपेण ताड्यते पारदारिकाः ।
गाढमालिंग्य ते नारीं सुतप्तां लोहनिर्मिताम्
॥६॥पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समंततः ।
दुश्चारिणीं स्त्रियं गाढमालिंगंति रुदंति च
॥७॥ये शृण्वंति सतां निंदां तेषां कर्णप्रपूरणम् ।
अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः
॥८॥त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः ।
सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः
॥९॥क्रमादापूर्य्यकर्णांस्तु नरकेषु च यातनाः ।
अनुक्रमेण सर्वेषु भवंत्येताः समंततः
॥१०॥सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः ।
भवंति घोराः प्रत्येकं शरीरेण कृतेन च
॥११॥स्पर्शदोषेण ये मूढास्स्पृशंति च परस्त्रियम् ।
तेषां करोऽग्निवर्णाभिः पांशुभिः पूर्य्यते भृशम्
॥१२॥तेषां क्षारादिभिस्सर्वैश्शरीरमनुलिप्यते ।
यातनाश्च महाकष्टास्सर्वेषु नरकेषु च
॥१३॥कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नरा ।
वक्त्राणि तेषां सांतानि कीर्य्यंते शंकुभिर्दृढम्
॥१४॥यैरिन्द्रियैर्नरा ये च कुर्वन्ति परस्त्रियम् ।
इन्द्रियाणि च तेषां वै विकुर्वंति तथैव च
॥१५॥परदारांश्च पश्यन्ति लुब्धास्स्तब्धेन चक्षुषा ।
सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम्
॥१६॥क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः ।
भवंति मुनिशार्दूल सत्यंसत्यं न संशयः
॥१७॥देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुंजते ।
लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्य्यते
॥१८॥ये देवारामपुष्पाणि लोभात्संगृह्य पाणिना ।
जिघ्रंति च नरा भूयः शिरसा धारयंति च
॥१९॥आपूर्य्यते शिरस्तेषां तप्तैर्लोहस्य शंकुभिः ।
नासिका वातिबहुलैस्ततः क्षारादिभिर्भृशम्
॥२०॥ये निंदन्ति महात्मानं वाचकं धर्म्मदेशिकम् ।
देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम्
॥२१॥तेषामुरसि कण्ठे च जिह्वायां दंतसन्धिषु ।
तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु
॥२२॥अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशंकवः ।
आखिद्यंते च बहुशः स्थानेष्वेतेषु मुद्गरैः
॥२३॥ततः क्षारेण दीप्तेन पूर्यते हि समं ततः ।
यातनाश्च महत्यो वै शरीरस्याति सर्वतः
॥२४॥अशेषनरकेष्वेव क्रमंति क्रमशः पुनः ।
ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशंति च
॥२५॥शिवोपकरणं गां च ज्ञानादिलिखितं च यत् ।
हस्तपादादिभिस्तेषामापूर्य्यंते समंततः
॥२६॥नरकेषु च सर्वेषु विचित्रा देहयातनाः ।
भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः
॥२७॥शिवायतनपर्य्यंते देवारामेषु कुत्रचित् ।
समुत्सृजंति ये पापाः पुरीषं मूत्रमेव च
॥२८॥तेषां शिश्नं सवृषणं चूर्ण्यते लोहमुद्गरैः ।
सूचीभिरग्निवर्णाभिस्कथा त्वापूर्य्यते पुनः
॥२९॥ततः क्षारेण महता तीव्रेण च पुनः पुनः ।
द्रुतेन पूर्यते गाढं गुदे शिश्ने च देहिनः
॥३०॥मनस्सर्वेन्द्रियाणां च यस्मा द्दुःखं प्रजायते ।
धने सत्यपि ये दानं न प्रयच्छंति तृष्णया
॥३१॥अतिथिं चावमन्यते काले प्राप्ते गृहाश्रमे ।
तस्मात्ते दुष्कृतं प्राप्य गच्छंति निरयेऽशुचौ
॥३२॥येऽन्नं दत्त्वा हि भुंजंति न श्वभ्यस्सह वायसैः ।
तेषां च विवृतं वक्त्रं कीलकद्वयताडितम्
॥३३॥कृमिभिः प्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ।
उपद्रवैर्बहुविधैरुग्रैरंतः प्रपीड्यते
॥३४॥श्यामश्च शबलश्चैव यममार्गानुरोधकौ ।
यौ स्तस्ताभ्यां प्रयच्छामि तौ गृह्णीतामिमं बलिम्
॥३५॥ये वा वरुणवायव्या याम्या नैर्ऋत्यवायसाः ।
वायसा पुण्यकर्माणस्ते प्रगृह्णंतु मे बलिम्
॥३६॥शिवामभ्यर्च्य यत्नेन हुत्वाग्नौ विधिपूर्वकम् ।
शैवैर्मन्त्रैर्बलिं ये च ददंते न च ते यमम्
॥३७॥पश्यंति त्रिदिवं यांति तस्माद्दद्याद्दिनेदिने ।
मण्डलं चतुरस्रं तु कृत्वा गंधादिवासितम्
॥३८॥धन्वन्तर्यर्थमीशान्यां प्राच्यामिन्द्राय निःक्षिपेत् ।
याम्यां यमाय वारुण्यां सुदक्षोमाय दक्षिणे
॥३९॥पितृभ्यस्तु विनिक्षिप्य प्राच्यामर्यमणे ततः ।
धातुश्चैव विधातुश्च द्वारदेशे विनिःक्षिपेत्
॥४०॥श्वभ्यश्च श्वपतिभ्यश्च वयोभ्यो विक्षिपेद्भुवि ।
देवैः पितृमनुष्यैश्च प्रेतैर्भूतैस्सगुह्यकै
॥४१॥वयोभिः कृमिकीटैश्च गृहस्थश्चोपजीव्यते ।
स्वाहाकारः स्वधाकारो वषट्कारस्तृतीयकः
॥४२॥हंतकारस्तथैवान्यो धेन्वा स्तनचतुष्टयम् ।
स्वाहाकारं स्तनं देवास्स्वधां च पितरस्तथा
॥४३॥वषट्कारं तथैवान्ये देवा भूतेश्वरास्तथा ।
हंतकारं मनुष्याश्च पिबंति सततं स्त नम्
॥४४॥यस्त्वेतां मानवो धेनुं श्रद्धया ह्यनुपूर्विकाम् ।
करोति सततं काले साग्नित्वायोपकल्प्यते
॥४५॥यस्तां जहाति वा स्वस्थस्तामिस्रे स तु मज्जति ।
तस्माद्दत्त्वा बलिं तेभ्यो द्वारस्थश्चिंतयेत्क्षणम्
॥४६॥क्षुधार्तमतिथिं सम्यगेकग्रामनिवासिनम् ।
भोजयेत्तं शुभान्नेन यथाशक्त्यात्मभोजनात्
॥४७॥अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमा दाय गच्छति
॥४८॥ततोऽन्नं प्रियमेवाश्नन्नरः शृंखलवान्पुनः ।
जिह्वावेगेन विद्धोत्र चिरं कालं स तिष्ठति
॥४९॥यतस्तं मांसमुद्धत्य तिलमात्रप्रमाणतः ।
खादितुं दीयते तेषां भित्त्वा चैव तु शोणितम्
॥५०॥निश्शेषतः कशाभिस्तु पीड्यते क्रमशः पुनः ।
बुभुक्षयातिकष्टं हि तथायाति पिपासया
॥५१॥एवमाद्या महाघोरा यातनाः पापकर्मणाम् ।
अंते यत्प्रतिपन्नं हि तत्संक्षेपेण संशृणु
॥५२॥यः करोति महापापं धर्म्मं चरति वै लघु ।
धर्म्मं गुरुतरं वापि तथावस्थे तयोः शृणु
॥५३॥सुकृतस्य फलं नोक्तं गुरुपा पप्रभावतः ।
न मिनोति सुखं तत्र भोगैर्बहुभिरन्वितः
॥५४॥तथोद्विग्नोतिसंतप्तो न भक्ष्यैर्मन्यते सुखम् ।
अभावादग्रतोऽन्यस्य प्रतिकल्पं दिनेदिने
॥५५॥पुमान्यो गुरुधर्म्माऽपि सोपवासो यथा गृही ।
वित्तवान्न विजानाति पीडां नियमसंस्थितः
॥५६॥तानि पापानि घोराणि संति यैश्च नरो भुवि ।
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा
॥५७॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकगतिभोगवर्णनं नाम दशमोऽध्यायः ॥ १० ॥