मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ३९

3
उमासंहिता · 39

सगरस्यात्मजा वीराः कथं जाता महाबलाः

शौनक उवाच

सगरस्यात्मजा वीराः कथं जाता महाबलाः ।

विक्रांताः षष्टिसाहस्रा विधना केन वा वद

॥१॥

सूत उवाच

द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे ।

और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः

॥२॥

षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम् ।

एकं वंशकरं त्वेका यथेष्टं वरशालिनी

॥३॥

तत्रैवागत्य तां लब्ध्वा पुत्राञ्शूरान्बहूंस्तदा ।

सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक्कृतम्

॥४॥

ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ।

घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः

॥५॥

कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ।

एकः पंचजनो नाम पुत्रो राजा बभूव ह

॥६॥

ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ।

दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः

॥७॥

यस्तु गंगा सरिच्छ्रेष्ठामवातारयतः प्रभु ।

समुद्रमानयच्चेमां दुहितृत्वमकल्पयत्

॥८॥

भगीरथसुतो राजा श्रुतसेनः इति श्रुतः ।

नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः

॥९॥

अंबरीषस्तु नाभागिस्सिंधुद्वीपस्ततोऽभवत् ।

अयुताजित्तु दायादस्सिंधुद्वीपस्य वीर्यवान्

॥१०॥

आयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ।

दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत्

॥११॥

ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ।

तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा

॥१२॥

कल्माषपादस्य सुतस्सर्वकर्मेति विश्रुतः ।

अनरण्यस्तु पुत्रोऽभूद्विश्रुतस्सर्वशर्मणः

॥१३॥

अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत् ।

निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि

॥१४॥

येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।

त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ

॥१५॥

दीर्घबाहुस्सुतस्तस्य रघुस्तस्याभवत्सुतः ।

अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत्

॥१६॥

रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ।

स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः

॥१७॥

तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ।

रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात्

॥१८॥

रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ।

अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः

॥१९॥

निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ।

नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः

॥२०॥

क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।

आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः

॥२१॥

अहीनगोस्तु दायादस्सहस्वान्नाम वीर्यवान् ।

वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्भवः

॥२२॥

वीरसेनस्य दायादः पारियात्रो बभूव ह ।

ततो बलाख्यस्तनयस्स्थलस्तस्मादभूत्सुतः

॥२३॥

अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान् ।

तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः

॥२४॥

हिरण्यनाभस्तत्पुत्रो योगाचार्य्यो बभूव ह ।

स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः

॥२५॥

कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम् ।

यतोऽध्यगान्नृपवराद्धृदयग्रंथिभेदनम्

॥२६॥

तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः ।

अग्निवर्णस्सुतस्तस्य शीघ्रनामा सुतस्ततः

॥२७॥

मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह ।

असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके

॥२८॥

तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ।

पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः

॥२९॥

पृथुश्रुतश्च तत्पुत्रस्संधिस्तस्य सुतः स्मृतः ।

अमर्षणस्सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत्

॥३०॥

विश्वसाह्वस्सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ।

तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्बलः

॥३१॥

एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ।

शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान्

॥३२॥

बृहद्बलस्य तनयो भविता हि बृहद्रणः ।

बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति

॥३३॥

वत्सवृद्धस्सुतस्तस्य प्रतिव्योमसुतस्ततः ।

भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः

॥३४॥

सहदेवस्सुतस्तस्य महावीरो भवि ष्यति ।

तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली

॥३५॥

सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ।

सुप्रतीकस्सुतस्तस्य भविष्यति नृपोत्तमः

॥३६॥

मरुदेवस्सुतस्तस्य सुनक्षत्रो भविष्यति ।

तत्सुतः पुष्करस्तस्यांतरिक्षस्तत्सुतो द्विजाः

॥३७॥

सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ।

बृहद्भाजस्सुतस्तस्य बर्हिनामा तदात्मजः

॥३८॥

कृतंजयस्सुतस्तस्य तत्सुतो हि रणंजयः ।

संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः

॥३९॥

शुद्धोदस्तनयस्तस्य लांगलस्तु तदात्मजः ।

तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः

॥४०॥

रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ।

सुमित्रस्तत्सुतो भावी वंशनिष्ठांत एव हि

॥४१॥

सुमित्रांतोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ।

राज्ञां वैचित्रवीर्य्याणां धर्म्मिष्ठानां सुकर्म्मणाम्

॥४२॥

सुमित्रं प्राप्य राजानं तद्वंशश्शुभः कलौ ।

संस्थां प्राप्स्यति तद्ब्राह्मे वर्द्धिष्यति पुनः कृते

॥४३॥

एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ।

इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः

॥४४॥

पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः ।

श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च

॥४५॥

पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ।

प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम्

॥४६॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥