शताक्ष्याद्यवतारवर्णनम्
मुनय ऊचुः
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ।
अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम्
॥१॥शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ।
न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम
॥२॥सूत उवाच
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ।
ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः
॥३॥देवाजेयबलं चापि संप्राप्य जगतीतले ।
करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे
॥४॥सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ।
ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा
॥५॥न दानं न तपोऽत्युग्रं न यागो हवनं न हि ।
अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी
॥६॥हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ।
अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम्
॥७॥सरितः सागराश्चैव वापीकूपसरांसि च ।
निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः
॥८॥ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ।
त्रिदशाश्शरणं याता योगमायां महेश्वरीम्
॥९॥देवा ऊचुः
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ।
कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा
॥१०॥कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ।
धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः
॥११॥स मधुः कैटभो दैत्यो महिषासुर एव च ।
तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम्
॥१२॥अपराधो भवत्येव बालकानां पदे पदे ।
सहते को जनो लोके केवलं मातरं विना
॥१३॥यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ।
तदातदावतीर्याशु कुरुषे सुखिनो जनान्
॥१४॥इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ।
अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम्
॥१५॥धनुर्बाणौ तथा पद्म नानामूलफलानि च ।
चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा
॥१६॥ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा ।
रुरोद नव घस्राणि नव रात्रीस्समाकुला
॥१७॥मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ।
ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि
॥१८॥अगाधतोयास्सरितो बभूवुः सागरा अपि ।
रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च
॥१९॥विततार करस्थानि सुमनोभ्यः फलानि च ।
गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः
॥२०॥सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ।
ततो जगाद सा देवी किमन्यत्करवाणि वः
॥२१॥समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ।
वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम्
॥२२॥तथास्त्विति प्रभाष्याह यातयात निजालयम् ।
वितरिष्यामि वो वेदानचिरेणैव कालतः
॥२३॥ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ।
सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम्
॥२४॥ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ।
तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम्
॥२५॥ततस्तेजोमयं चक्रं विधाय परितः शिवा ।
रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता
॥२६॥ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ।
ववृषुः समरे बाणान्निशितान्कंकटच्छिदः
॥२७॥एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ।
काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी
॥२८॥भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ।
मातंगी च महाविद्या निर्गता दश सायुधाः
॥२९॥असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ।
चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः
॥३०॥ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ।
रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम्
॥३१॥जघान सा तदा दैत्यं दुर्गमं शूलधारया ।
पपात धरणीपृष्ठे खातमूलद्रुमो यथा
॥३२॥इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ।
आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी
॥३३॥देवा ऊचुः
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ।
मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके
॥३४॥आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ।
शाकंभरीति विख्यातन्तत्ते नाम भविष्यति
॥३५॥दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ।
दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः
॥३६॥योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ।
नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः
॥३७॥तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ।
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः
॥३८॥वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ।
स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम्
॥३९॥मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ।
वर्जयित्वा सुरेशानीं शताक्षी मातरं विना
॥४०॥त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ।
एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम्
॥४१॥देव्युवाच
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ।
तथैव भवतो दृष्ट्वा धावामि व्याकुला सती
॥४२॥मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ।
अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते
॥४३॥कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ।
भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः
॥४४॥यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान् ।
संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम्
॥४५॥यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ।
तदाहं नन्दभार्यायां यशोदायां यशोमयी
॥४६॥योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ।
हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम्
॥४७॥भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ।
भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः
॥४८॥कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ।
भीमा देवीति विख्यातं तन्मे नाम भविष्यति
॥४९॥यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ।
तदातदावतीर्याहं शं करिष्याम्यसंशयम्
॥५०॥या शताक्षी स्मृता देवी सैव शाकंभरी मता ।
सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि
॥५१॥न शताक्षीसमा काचिद्दयालुर्भुवि देवता ।
दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी
॥५२॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः ॥ ५० ॥