रविचन्द्रमसोर्यावन्मयूखा भासयंति हि
सनत्कुमार उवाच
रविचन्द्रमसोर्यावन्मयूखा भासयंति हि ।
तावत्प्रमाणा पृथिवी भूलोकस्स तु गीयते
॥१॥भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ।
योजनानां सहस्राणि सदैव परिसंख्यया
॥२॥शशिनस्तु प्रमाणाय जगतः परिचक्षते ।
रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसंख्यया
॥३॥ग्रहाणां मण्डलं कृत्स्नं शशेरुपरि संस्थितम् ।
सनक्षत्रं सहस्राणि दशैव परितोपरि
॥४॥बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम् ।
बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः
॥५॥सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ।
ऋषिभ्य तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः
॥६॥मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।
भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक्
॥७॥एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ।
ध्रुवादूर्ध्वं महर्लोकस्सप्तैते ब्रह्मणस्सुताः
॥८॥सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा
॥९॥उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः ।
द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः
॥१०॥द्विलक्षयोजनं तस्मादूर्ध्वं भौमस्स्थितो मुने ।
द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरु
॥११॥द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ।
एते सप्तग्रहाः प्रोक्तास्स्वस्वराशिव्यवस्थिता
॥१२॥रुद्रलक्षैर्योजनतस्सप्तोर्ध्वमृषयः स्थिताः ।
विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता
॥१३॥चतुर्गुणोत्तरे चार्द्धे जनलोकात्तपः स्मृतम् ।
वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः
॥१४॥षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ।
ब्रह्मलोकः स विज्ञेयो वसंत्यमलचेतसः
॥१५॥सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः ।
यद्गामिनोऽथ भूलोकान्निवसंति हि मानवाः
॥१६॥भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ।
स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ
॥१७॥विश्वेदेवास्तथा रुद्रास्साध्या नागाः खगादयः ।
नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः
॥१८॥एते सप्त महालोकाः कालेय कथितास्तव ।
पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः
॥१९॥दधिवृक्षफलं यद्वद्वृत्तिश्चोर्ध्वमधस्तथा ।
एतदंडकटाहेन सर्वतो वै समावृतम्
॥२०॥दशगुणेन पयसा सर्वतस्तत्समावृतम् ।
वह्निना वायुना चापि नभसा तमसा तथा
॥२१॥भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ।
महांतं च समावृत्य प्रधानं पुरुषः स्थितः
॥२२॥अनंतस्य न तस्यास्ति संख्यापि परमात्मनः ।
तेनानंत इति ख्यातः प्रमाणं नास्ति वै यतः
॥२३॥हेतुभूतस्समस्तस्य प्रकृतिस्सा परा मुने ।
अंडानां तु सहस्राणां सहस्राण्ययुतानि च
॥२४॥ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ।
दारुण्यग्निस्तिले तैलं पयस्सु च यथा घृतम्
॥२५॥तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ।
आदिबीजात्प्रसुवते ततस्तेभ्यः परेण्डजाः
॥२६॥तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ।
महदादयो विशेषांतास्तद्भवंति सुरादयः
॥२७॥बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।
सूर्य्यकांतमणेः सूर्य्याद्यद्वद्वह्निः प्रजायते
॥२८॥तद्वत्संजायते सृष्टिः शिवस्तत्रः न कामयेत् ।
शिवशक्तिसमायोगे देवाद्याः प्रभवंति हि
॥२९॥तथा स्वकर्मणैकेन प्ररोहमुपयांति वै ।
ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते
॥३०॥तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ।
कर्ता क्रियाणां सर्वासां स शिवः परिगीयते
॥३१॥व्यास उवाच
सनत्कुमार सर्वज्ञ छिंधि मे संशयं महत् ।
सन्ति लोका हि ब्रह्मांडादुपरिष्टान्न वा मुने
॥३२॥सनत्कुमार उवाच
ब्रह्मांडादुपरिष्टाच्च संति लोका मुनीश्वर ।
ताञ्छृणु त्वं विशेषेण वच्मि तेऽहं समागतः
॥३३॥विधिलोकात्परो लोको वैकुंठ इति विश्रुतः ।
विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः
॥३४॥तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ।
सेनानीः शंभुतनयो राजते यत्र सुप्रभः
॥३५॥ततः परमुमालोको महादिव्यो विरा जते ।
यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा
॥३६॥परात्परा हि प्रकृती रजस्सत्त्वतमोमयी ।
निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका
॥३७॥तस्योपरिष्टाद्विज्ञेयश्शिवलोकस्सनातनः ।
अविनाशी महादिव्यो महाशोभान्वितस्सदा
॥३८॥विराजते परं ब्रह्म यत्र शंभुर्महेश्वरः ।
त्रिदेवजनकस्वामी सर्वेषां त्रिगुणात्परः
॥३९॥तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ।
गोमातरस्सुशीलाख्यास्तत्र संति शिवप्रिया
॥४०॥तत्पालः कृष्णनामा हि राजते शंकराज्ञया ।
प्रतिष्ठितश्शिवेनैव शक्त्या स्वच्छन्दचारिणा
॥४१॥शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ।
अतिनिर्वचनीयश्च नानावस्तुविराजितः
॥४२॥शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ।
विष्णुब्रह्महरैस्सेव्यः परमात्मा निरञ्जनः
॥४३॥इति ते कथिता तात सर्वब्रह्मांडसंस्थितिः ।
तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि
॥४४॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥