मनुवंशवर्णनम्
सूत उवाच
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतस्सुतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्
॥१॥तेषां पुरस्तादभवन्नार्य्यावर्ते नृपा द्विजाः ।
तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत्
॥२॥तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः।
श्राद्धकर्म्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि
॥३॥भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः ।
इक्ष्वाकुणा परित्यक्तश्शशादो वनमाविशत
॥४॥इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत् ।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः
॥५॥उत्तरापथदेशस्य रक्षितारो महीक्षितः ।
अयोधस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान्
॥६॥अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ।
विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः
॥७॥इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः ।
जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः
॥८॥युवनाश्वस्सुतस्तस्य कुवलाश्वश्च तत्सुतः ।
स हि धुंधुवधाद्भूतो धुंधुमारो नृपोत्तमः
॥९॥कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।
बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत्
॥१०॥पुत्रसंक्रामितश्रीको वनं राजा समाविशत् ।
तमुत्तंकोऽथ राजर्षि प्रयांतं प्रत्यवारयत्
॥११॥उत्तंक उवाच
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु ।
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना
॥१२॥भविष्यति निरुद्विग्ना नारण्यं गंतुमर्हसि ।
ममाश्रमसमीपे तु हिमेषु मरुधन्वसु
॥१३॥समुद्रवालुकापूर्णो दानवो बलदर्पितः ।
देवतानामवध्यो हि महाकायो महाबलः
॥१४॥अंतर्भूभिगतस्तत्र वालुकांतर्हितः स्थितः ।
राक्षसस्य मधोः पुत्रो धुंधुनामा सुदारुणः
॥१५॥शेते लोकविनाशाय तप आस्थाय दारुणम् ।
संवत्सरस्य पर्यन्ते स निश्वासं विमुंचति
॥१६॥यदा तदा भूश्चलति सशैलवनकानना ।
सविस्फुलिंगं सांगारं सधूममपि वारुणम्
॥१७॥तेन रायन्न शक्नोमि तस्मिंस्स्थातुं स्व आश्रमे ।
तं वारय महाबाहो लोकानां हितकाम्यया
॥१८॥लोकास्स्वस्था भवंत्वद्य तस्मिन्विनिहते त्वया ।
त्वं हि तस्य वधायैव समर्थः पृथवीपते
॥१९॥विष्णुना च वरो दत्तो महान्पूर्व युगेऽनघ ।
तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति
॥२०॥पालने हि महाधर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी
॥२१॥ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ।
प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः
॥२२॥स एवमुक्तो राजर्षिरुत्तंकेन महात्मना ।
कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे
॥२३॥भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः
॥२४॥इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ।
कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे
॥२५॥तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ।
उत्तंकस्य नियोगाद्वै लोकानां हितकाम्यया
॥२६॥तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति
॥२७॥दिव्यैर्माल्यैश्च तं देवास्समंतात्समवारयन् ।
प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः
॥२८॥स गत्वा जयतां श्रेष्ठस्तनयैस्सह पार्थिवः ।
समुद्रं खनयामास वालुकार्णवमध्यतः
॥२९॥नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः ।
बभूव सुमहातेजा भूयो बलसमन्वितः
॥३०॥तस्य पुत्रैः खनद्भिस्तु वालुकांतर्गतस्तु सः ।
धुन्धुरासादितो ब्रह्मन्दिशमाश्रित्य पश्चि माम्
॥३१॥मुखजेनाग्निना क्रोधाल्लोकान्संवर्तयन्निव ।
वारि सुस्राव वेगेन विधोः कधिरिवोदये
॥३२॥ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ।
त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर
॥३३॥ततस्स राजा विप्रेन्द्र राक्षसं तं महाबलम् ।
आससाद महातेजा धुन्धुं विप्रविनाशनम्
॥३४॥तस्य वारिमयं वेगमापीय स नराधिपः ।
वह्निबाणेन वह्निं तु शमयामास वारिणा
॥३५॥तं निहत्य महाकायं बलेनोदकराक्षसम् ।
उत्तंकस्येक्षयामास कृतं कर्म नराधिपः
॥३६॥उत्तंकस्तु वरं प्रादात्तस्मै राज्ञे महामुने ।
अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम्
॥३७॥धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः
॥३८॥तस्य पुत्रास्त्रयश्शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ।
हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ
॥३९॥धौंधुमारिर्दृढाश्वो यो हर्य्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतस्सदा
॥४०॥संहताश्वो निकुंभस्य पुत्रो रणविशारदः ।
अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत
॥४१॥तस्य हैमवती कन्या सतां मान्या वृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित्
॥४२॥लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता
॥४३॥तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ।
मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः
॥४४॥तस्य चैत्ररथी भार्या शशबिंदुसुता ऽभवत् ।
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः
॥४५॥तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ।
पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम्
॥४६॥पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली
॥४७॥पाणिग्रहणमंत्राणां विघ्रं चक्रे महात्मभिः ।
येन भार्य्या हृता पूर्वं कृतोद्वाहः परस्य वै
॥४८॥बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ।
जहार कन्यां कामाच्च कस्यचित्पुरवासिनः
॥४९॥अधर्मसंगिनं तं तु राजा त्रय्यारुणिस्त्यजन् ।
अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः
॥५०॥पितरं सोऽब्रवीन्मुक्तः क्व गच्छामीति वै तदा ।
वस श्वपाकनिकटे राजा प्राहेति तं तदा
॥५१॥स हि सत्यव्रतस्तेन श्वपाकवसथांतिके ।
पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा
॥५२॥ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ।
स शंकरतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ
॥५३॥ततस्तस्य स्व विषये नावर्षत्पाकशासनः ।
समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा
॥५४॥दारां तस्य तु विषये विश्वामित्रो महातपाः ।
संत्यज्य सागरानूपे चचार विपुलं तपः
॥५५॥तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च
॥५६॥तां तु दृष्ट्वा गले बद्धं विक्रीणंती स्वमात्मजम् ।
महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा
॥५७॥सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च
॥५८॥तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ।
अभवद्गालवो नाम गलबंधान्महातपाः
॥५९॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥