चण्डमुण्डरक्तबीजवधः
ऋषिरुवाच
आसीच्छुम्भासुरो दैत्यो निशुंभश्च प्रतापवान् ।
त्रैलोक्यमोजसा क्रान्तं भ्रातृभ्यां सचराचरम्
॥१॥ताभ्याम्प्रपीडिता देवा हिमवन्तं समाययुः ।
जननीं सर्वभूतानां कामदात्रीं ववन्दिरे
॥२॥देवा ऊचुः
जय दुर्गे महेशानि जयात्मीयजनप्रिये ।
त्रैलोक्यत्राणकारिण्यै शिवायै ते नमोनमः
॥३॥नमो मुक्तिप्रदायिन्यै पराम्बायै नमोनमः ।
नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके
॥४॥कालिकारूपसंपन्नो नमस्काराकृते नमः ।
छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोस्तु ते
॥५॥भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ।
नमोस्तु बगलामुख्यै धूमावत्यै नमोनमः
॥६॥नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमोनमः ।
अजितायै नमस्तुभ्यं विजयायै नमोनमः
॥७॥जयायै मंगलायै ते विलासिन्यै नमोनमः ।
दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते
॥८॥मनोऽपराजिताकारे नित्याकारे नमोनमः ।
शरणागतपालिन्यै रुद्राण्यै ते नमोनमः
॥९॥नमो वेदान्तवेद्यायै नमस्ते परमात्मने ।
अनन्तकोटिब्रह्माण्डनायिकायै नमोनमः
॥१०॥इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा ।
प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का
॥११॥ततो गौरीतनोरेका प्रादुरासीत्कुमारिका ।
सोवाच मिषतां तेषां शिवशक्तिं परादरात्
॥१२॥स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः ।
निशुंभशुंभदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः
॥१३॥शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी ।
नाम्ना सा गीयते साक्षाच्छुंभासुरनिबर्हिणी
॥१४॥चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च ।
प्रादुर्भूता यतः सा वै मातंगीत्युच्यते भुवि
॥१५॥बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः ।
कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम्
॥१६॥इत्युक्त्वा सा तदा देवी तरसान्तर्हिताऽभवत् ।
चाण्डमुण्डौ तु तान्देवीमद्राष्टां सेवकौ तयोः
॥१७॥दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम् ।
पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ
॥१८॥गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः ।
दृष्टा काचिन्मया पूर्वा नारी राजन्मनोरमा
॥१९॥हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी ।
समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः
॥२०॥कुरुते पादसंवाहं काचित्संस्कुरुते कचान् ।
पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात्
॥२१॥काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम् ।
नागवल्लीं ददात्येका लवंगैलादिसंयुताम्
॥२२॥पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः ।
भूषयत्यखिलांगानि काचिद्भूषाम्बरादिभिः
॥२३॥कदलीस्तंभजंघोरुः कीरनासाऽहिदौर्लता ।
रणन्मञ्जीरचरणा रम्यमेखलया युता।
लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी ।
ग्रैवेयकलसद्ग्रीवा ललन्तीदाममण्डिता।
अर्द्धचन्द्रधरा देवी मणिकुण्डलधारिणी ।
रम्यवेणिर्विंशालाक्षी लोचनत्रयभूषिता
॥२६॥साक्षरा मालिकोपेता पणिराजितकंकणा ।
स्वर्णोर्मिकांगुलिर्भ्राजत्पारिहार्य्यलसत्करा
॥२७॥शुभवस्त्रावृता गौरी पद्मासनविराजिता ।
काश्मीरबिन्दुतिलका चन्द्रालंकृतमस्तका
॥२८॥तडिद्द्युतिर्महामूल्याम्बर चोलोन्नमत्कुचा ।
भुजैरष्टाभिरुत्तुंगैर्धारयन्ती वरायुधान्
॥२९॥तादृशी नासुरी नागी न गन्धर्वी न दानवी ।
विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा
॥३०॥तस्मात्संभोगयोग्यत्वं तस्यास्त्वय्येव शोभते ।
नारीरत्नं यतः सा वै पुंरत्नं च भवान्प्रभो
॥३१॥इत्युक्तं चण्डमुण्डाभ्यां निशम्य स महासुरः ।
दूतं सुग्रीवनामानं प्रेषयामास तां प्रति
॥३२॥गच्छ दूत तुषाराद्रौ तत्रास्ते कापि सुन्दरी ।
सा नेतव्या प्रयत्नेन कथयित्वा वचो मम
॥३३॥इति विज्ञापितस्तेन सुग्रीवो दानवोत्तमः ।
गत्वा हिमाचलं प्राह जगदम्बां महेश्वरीम्
॥३४॥दूत उवाच
देवि शुंभासुरो दैत्यो निशुंभस्तस्य चानुजः ।
विख्यातस्त्रिषु लोकेषु महा बलपराक्रमः
॥३५॥चारोहं प्रेषितस्तेन सन्निधिन्ते समागमम् ।
स यज्जगौ सुरेशानि तत्समाकर्णयाधुना
॥३६॥इन्द्रादीन्समरे जित्वा तेषां रत्नान्यपाहरम् ।
देवभागं स्वयं भुञ्जे यागे दत्तं सुरादिभिः
॥३७॥स्त्रीरत्नं त्वामहं मन्ये सर्वरत्नोपरि स्थितम् ।
सा त्वं ममानुजं मां वा भजतात्कामजै रसैः
॥३८॥इति दूतोक्तमाकर्ण्य वचनं शुंभभाषितम् ।
जगाद सा महामाया भूतेशप्राणवल्लभा
॥३९॥देव्युवाच
सत्यं वदसि भो दूत नानृतं किंचिदुच्यते ।
परन्त्वेका कृता पूर्वं प्रतिज्ञा तान्निबोध मे
॥४०॥यो मे दर्पं विधुनुते यो मां जयति संगरे ।
उत्सहे तमहं कर्तुं पतिं नान्यमिति ध्रुवम्
॥४१॥स त्वं कथय शुंभाय निशुंभाय वचो मम ।
यथा युक्तं भवेदेवं विदधातु तथाऽत्र सः
॥४२॥इत्थं देवीवचः श्रुत्वा सुग्रीवो नाम दानवः ।
राज्ञे विज्ञापयामास गत्वा तत्र सविस्तरम्
॥४३॥अथ दूतोक्तमाकर्ण्य शुंभो भैरवशासनः ।
धूम्राक्षं प्राह सक्रोधः सेनान्यं बलिनां वरम्
॥४४॥हे धूम्राक्ष तुषाराद्रौ वर्तते कापि सुन्दरी ।
तामानय द्रुतं गत्वा यथा यास्यति सात्र वै
॥४५॥तस्या आनयने भीतिर्न कार्य्याऽसुरसत्तम ।
युद्धं कार्यं प्रयत्नेन यदि सा योद्धुमिच्छति
॥४६॥एवं विज्ञापितो दैत्यो धूम्रलोचनसंज्ञकः ।
गत्वा हिमाचलं प्राह भुवनेशीमुमांशजाम्
॥४७॥भर्तुर्ममान्तिकं गच्छ नोचेत्त्वां घातयाम्यहम् ।
पुष्ट्याऽसुराणां सहितः सहस्राणां नितंबिनि
॥४८॥देव्युवाच
दैत्यराट्प्रेषितो वीर हंसि चेत्किं करोमि ते ।
परन्त्वसाध्यं गमनं मन्ये संग्राममन्तरा
॥४९॥इत्युक्तस्तामन्वधावद्दानवो धूम्रलोचनः ।
हुंकारोच्चारणेनैव तन्ददाह महेश्वरी
॥५०॥ततः प्रभृति सा देवी धूमावत्युच्यते भुवि ।
आराधिता स्वभक्तानां शत्रुवर्गनिकर्तिनी
॥५१॥धूम्राक्षे निहते देव्या वाहनेनातिकोपिना ।
चर्वितास्तद्गणास्सर्वेऽपलायन्तावशेषिताः
॥५२॥इत्थं देव्या हतं दैत्यं श्रुत्वा शुंभः प्रतापवान् ।
चकार बहुलं कोपं सन्दष्टोष्ठपुटद्वयः
॥५३॥चण्डं मुंडं रक्तबीजं प्रैषयत्क्रमतोऽ सुरान् ।
तेपि चाज्ञापिता दैत्या ययुर्यत्राम्बिका स्थिता
॥५४॥सिंहारूढा भगवतीमणिमादिभिराश्रिताम् ।
भासयंती दिशो भासा दृष्ट्वोचुर्द्दानवर्षभाः
॥५५॥हे देवि तरसा मूलं याहि शुंभनिशुंभयोः ।
अन्यथा घातयिष्यामः सगणां त्वां सवाहनाम्
॥५६॥वृणीष्व तं पतिं वामे लोकपालादिभिः स्तुतम् ।
प्रपत्स्यसे महानंदं देवानामपि दुर्लभम्
॥५७॥इत्युक्तमाकलय्याम्बा स्मयित्वा परमेश्वरी ।
उदाजहार सा देवी सूनृतं रसवद्वचः
॥५८॥देव्युवाच
अद्वितीयो महेशानः परब्रह्म सदाशिवः ।
यत्तत्त्वन्न विदुर्वेदा विष्ण्वादीनां च का कथा
॥५९॥तस्याहं प्रकृतिः सक्ष्मा कथमन्यं पतिम्वृणे ।
सिंही कामातुरा नैव जम्बुकं वृणुते क्वचित्
॥६०॥करेणुर्गर्दभं नैव द्वीपिनी शशकं न वा ।
मृषा वदत भो दैत्यो मृत्युव्यालनियंत्रिताः
॥६१॥यूयं प्रयात पातालं युध्यध्वं शक्तिरस्ति चेत् ।
इति क्रोधकरं वाक्यं श्रुत्वोचुस्ते परस्परम्
॥६२॥अबलां मनसि ज्ञात्वा न हन्मो भवतीं वयम् ।
अथो स्थिरैहि पञ्चास्ये युद्धेच्छा मानसेऽस्ति चेत्
॥६३॥तेषामेवं विवदतां कलहः समवर्द्धत ।
ववृषु समरे बाणा उभयोर्द्दलयोश्शिताः
॥६४॥एवं तैः समरं कृत्वा लीलया परमेश्वरी ।
जघान चण्डमुण्डाभ्यां रक्तबीजं महासुरम्
॥६५॥द्वेषबुद्धिं विधायापि त्रिदशस्थितयोऽप्यमी ।
अन्तेऽप्रापन्परं लोकं यँल्लोकं यान्ति तज्जनाः
॥६६॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां धूम्रलोचन चण्डमुण्डरक्तबीजवधो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥