देवदेव महादेव कथितं कालवंचनम्
देव्युवाच
देवदेव महादेव कथितं कालवंचनम् ।
शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम्
॥१॥कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम् ।
विस्तरेण समाख्याहि योगिनां हितकाम्यया
॥२॥शंकर उवाच
शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ।
यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते
॥३॥सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ।
शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः
॥४॥संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम् ।
नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत्
॥५॥दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ।
स पश्यत्येकभावस्तु शिवं परमकारणम्
॥६॥ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः
॥७॥शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः ।
समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा
॥८॥शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत् ।
रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत्
॥९॥विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ।
विकटौ नश्यते भार्य्या विजंघे धनमेव हि
॥१०॥पादाभावे विदेशस्स्यादित्येतत्कथितं मया ।
तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि
॥११॥सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ।
जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि
॥१२॥वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ।
अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते
॥१३॥पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ।
प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम्
॥१४॥अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ।
सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते
॥१५॥ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ।
जननी सर्वविद्यानां गुप्तविद्येति गीयते
॥१६॥खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ।
दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी
॥१७॥अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ।
तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते
॥१८॥सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम् ।
सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा
॥१९॥प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ।
सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः
॥२०॥सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान् ।
किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते
॥२१॥तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः ।
अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते
॥२२॥संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते ।
अभ्यासस्सततं कार्यो धीमता मोक्षकारणम्
॥२३॥इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम् ।
किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते
॥२४॥सूत उवाच
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम् ।
प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः
॥२५॥सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम् ।
व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष।
ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः ।
सनत्कुमारं मुनयः सुरविज्ञानसागरम्
॥२७॥व्यास उवाच
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ।
नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः
॥२८॥सूत उवाच
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ।
तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः
॥२९॥ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ।
ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः
॥३०॥इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ।
सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः
॥३१॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥