मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय २९

3
उमासंहिता · 29

आदिसर्गवर्णनम्

शौनक उवाच

श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ।

सनत्कुमारकालेयसंवादं परमार्थदम्

॥१॥

अतोहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ।

समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम्

॥२॥

सूत उवाच

मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ।

कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम्

॥३॥

यश्चैनां पाठयेत्तां च शृणुयाद्वाऽप्यभीक्ष्णशः ।

स्ववंशधारणं कृत्वा स्वर्गलोके महीयते

॥४॥

प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ।

प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः

॥५॥

स्रष्टारं सर्वभूतानां नारायणपरायणम् ।

तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम्

॥६॥

यस्मादकल्पयत्कल्पान्तमग्राश्शुचयो यतः ।

भवंति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे

॥७॥

तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ।

नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम्

॥८॥

ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ।

तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते

॥९॥

सोऽपि स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ।

अप एव ससर्जादौ तासु वीर्यमवासृजत्

॥१०॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।

अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः

॥११॥

हिरण्यवर्णमभवत्तदंडमुदकेशयम् ।

तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति विश्रुतः

॥१२॥

हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।

तदंडमकरोद्द्वैधं दिवं भूमि च निर्ममे

॥१३॥

अधोऽथोर्द्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ।

तयोश्शकलयोर्मध्य आकाशममृजत्प्रभुः

॥१४॥

अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दिवि ।

तत्र काले मनो वाचं कामक्रोधावथो रतिम्

॥१५॥

मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम ।

वसिष्ठं तु महतेजास्सोऽसृजत्सप्त मानसान्

॥१६॥

सप्त बह्माण इत्येते पुराणे निश्चयं गताः ।

ततोऽसृजत्पुनर्ब्रह्मा रुद्रान्क्रोधसमुद्भवान्

॥१७॥

सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् ।

सप्त चैते प्रजायंते पश्चाद्रुद्राश्च सर्वतः

॥१८॥

अतस्सनत्कुमारस्तु तेजस्संक्षिप्य तिष्ठति ।

तेषां सप्तमहावंशा दिव्या देवर्षिपूजिताः

॥१९॥

प्रजायन्ते क्रियावन्तो महर्षिभिरलंकृताः ।

विद्युतोऽशनि मेघांश्च रोहितेन्द्रधनूंषि च

॥२०॥

पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।

ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये

॥२१॥

पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम ।

मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ।

प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान्

॥२२॥

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।

आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः

॥२३॥

सृज्यमानाः प्रजाश्चैव नावर्द्धन्त यदा तदा ।

द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत्

॥२४॥

ससृजेऽथ प्रजास्सर्वा महिम्ना व्याप्य विश्वतः ।

विराजमसृजद्विष्णुस्स सृष्टः पुरुषो विराट्

॥२५॥

द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च ।

स वैराजः प्रजास्सर्वास्ससर्ज पुरुषः प्रभुः

॥२६॥

नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः ।

आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः

॥२७॥

इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम ।

आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम्

॥२८॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामादिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २९ ॥