मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ३०

3
उमासंहिता · 30

सर्गवर्णनम्

सूत उवाच

संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ।

लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम्

॥१॥

आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।

धर्मेणैव महात्मा स शतरूपाप्यजायत

॥२॥

सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ।

भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत

॥३॥

स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ।

तस्यैकसप्ततियुगं मन्वंतरमिहोच्यते

॥४॥

वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ।

प्रियव्रतोत्तानपादौ वीरकायामजायताम्

॥५॥

काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।

काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः

॥६॥

उत्तानपादोऽजनयत्पुत्राञ्छक्रसमान्प्रभुः ।

ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम्

॥७॥

धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ।

उत्पन्ना चापि धर्म्मेण धुवस्य जननी तथा

॥८॥

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ।

तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम्

॥९॥

तस्मै ब्रह्मा ददौ प्रीतस्स्थानमात्मसमं प्रभुः ।

अचलं चैव पुरतस्सप्तर्षीणां प्रजापतिः

॥१०॥

तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ।

पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान्

॥११॥

रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।

रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम्

॥१२॥

अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ।

मनोरजायन्त दश नड्वलायां महौजसः

॥१३॥

कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः ।

पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः

॥१४॥

अग्निष्टोमोऽतिरात्रश्चातिमन्युस्सुयशा दश ।

पूरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान्

॥१५॥

अङ्गं सुमनसं ख्यातिं सृतिमंगिरसं गयम् ।

अङ्गात्सुनीथा भार्य्या वै वेनमेकमसूयत

॥१६॥

अपचारेण वेनस्य कोपस्तेषां महानभूत् ।

हुंकारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः

॥१७॥

अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया ।

सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम्

॥१८॥

वेनस्य पाणौ मथिते संबभूव ततः पृथुः ।

स धन्वी कवची जातस्तेजसादित्यसन्निभः

॥१९॥

अवतारस्य विष्णोर्हि प्रजापालनहे तवे ।

धर्मसंरक्षणार्थाय दुष्टानां दंडहेतवे

॥२०॥

पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ।

राजसूयाभिषिक्तानामाद्यस्स वसुधापतिः

॥२१॥

तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।

तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै

॥२२॥

सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ।

मनुष्याणां विशेषेण शतयज्ञकरो नृपः

॥२३॥

पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ।

विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ

॥२४॥

शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ।

प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः

॥२५॥

समुद्रतनया तेन धर्मतस्सुविवाहिता ।

रेजेऽधिकतरं राजा कृतदारो महाप्रभुः

॥२६॥

समुद्रतनयायास्तु दश प्राचीनबर्हिषः ।

बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै

॥२७॥

सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ।

अपृथग्धर्माचरणास्तेऽतप्यंत महत्तपः

॥२८॥

दशवर्षसहस्राणि समुद्रसलिलेशयाः ।

रुद्रगीतं जपंतश्च शिवध्यानपरायणाः

॥२९॥

तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ।

अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः

॥३०॥

तान्दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ।

चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः

॥३१॥

प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ।

वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः

॥३२॥

वृक्षक्षयं ततो दृष्ट्वा किंचिच्छेषेषु शाखिषु ।

उपगम्याब्रवीदेतान्राजा सोमः प्रतापवान्

॥३३॥

सोम उवाच

कोपं यच्छत राजानस्सर्वे प्राचीनबर्हिषः ।

अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी

॥३४॥

भविष्यं जानता सा तु धृता गर्भेण वै मया ।

भार्य्या वोऽस्तु महाभागास्सोमवंशविवर्द्धिनी

॥३५॥

अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ।

सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः

॥३६॥

युष्माकं तेजसार्द्धेन मम चानेन तेजसा ।

ब्रह्मतेजोमयो भूपः प्रजा संवर्द्धयिष्यति

॥३७॥

ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।

भार्य्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम्

॥३८॥

तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ।

सोऽपि जज्ञे महातेजास्सोमस्यांशेन वै मुने

॥३९॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।

संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत्

॥४०॥

वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ।

उपयेमे सुविधिना सुधर्मेण पतिव्रताम्

॥४१॥

हर्य्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ।

ते विरक्ता बभूवुश्च नारदस्योपदेशतः

॥४२॥

तच्छुत्वा स पुनर्दक्षस्सुबलाश्वानजीजनत् ।

नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया

॥४३॥

तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ।

नागमन्पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः

॥४४॥

तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुस्सहं ददौ ।

कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय

॥४५॥

सांत्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ।

महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः

॥४६॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।

द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा

॥४७॥

द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ।

शिष्टास्सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः

॥४८॥

ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ।

बहवस्तनया ख्यातास्तैस्सर्वैः पूरितं जगत्

॥४९॥

ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ।

संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते

॥५०॥

शौनक उवाच

अंगुष्ठाद्ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा ।

कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः

॥५१॥

एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ।

चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः

॥५२॥

सूत उवाच

उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ।

कल्पेकल्पे भवंत्येते सर्वे दक्षादयो मुने

॥५३॥

इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।

प्रजावानायुषा पूर्णस्स्वर्गलोके महीयते

॥५४॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥