मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ४१

3
उमासंहिता · 41

सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणास्स्मृताः

सनत्कुमार उवाच

सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणास्स्मृताः ।

चत्वारो मूर्त्तिमंतो वै त्रयश्चैव ह्यमूर्तयः

॥१॥

तान्यजंते देवगणा आद्या विप्रादयस्तथा ।

आप्याययंति ते पूर्वं सोमं योगबलेन वै

॥२॥

तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।

सर्वेषां राजतं पात्रमथ वा रजतान्वितम्

॥३॥

दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन् ।

वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै

॥४॥

उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ।

पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयंति तम्

॥५॥

यच्छंति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ।

स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम्

॥६॥

देवकार्यादपि मुने पितृकार्य्यं विशिष्यते ।

पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः

॥७॥

न योगेन गतिस्सा तु पितृभक्तस्य या मुने ।

पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने

॥८॥

मार्कण्डेय उवाच

एवमुक्त्वाऽऽशु देवेशो देवानामपि दुर्लभम् ।

चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम्

॥९॥

शृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः ।

योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै

॥१०॥

वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।

स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा

॥११॥

कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् ।

पितर्युपरते सर्वे प्रवसंतस्तदाभवन्

॥१२॥

विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।

समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा

॥१३॥

तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।

क्रूरा बुद्धिस्समुत्पन्ना तां गां तै हिंसितुं तदा

॥१४॥

तां कविसस्वसृपश्चैव याचेते नैति वै तदा ।

न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः

॥१५॥

पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।

स सर्वानब्रवीत्कोपात्पितृभक्तिसमन्वितः

॥१६॥

यद्यशक्यं प्रकर्तव्यं पितॄनुद्दिश्य साध्यताम् ।

प्रकुर्वंतो हि श्राद्धं तु सर्व एव समाहिताः

॥१७॥

एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः ।

पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति

॥१८॥

एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा ।

पितृभ्यः कल्पयित्वा तु ह्युपायुंजत भारत

॥१९॥

उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।

शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति

॥२०॥

आर्तवत्स तु तं वत्सं प्रतिजग्राह वै द्विजः ।

मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम्

॥२१॥

ततः कालेन कियता कालधर्ममुपागताः ।

ते सप्त भ्रातरस्तात बभूवुस्स्वायुषःक्षये

॥२२॥

ते वै क्रूरतया हैंस्त्र्यात्स्वानार्य्यत्वाद्गुरोस्तथा ।

उग्रहिंसाविहाराश्च जातास्सप्त सहोदराः

॥२३॥

लुब्धकस्य सुतास्तावद्बलवंतो मनस्विनः ।

जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः

॥२४॥

स्वधर्मनिरतास्सर्वे मृगा मोहविवर्जिताः ।

आसन्नुद्वेगसंविग्ना रम्ये कालंजरे गिरौ

॥२५॥

तमेवार्थमनुध्याय ज्ञानं मरणसंभवम् ।

आसन्वनचराः क्षांता निर्द्वंद्वा निष्परिग्रहाः

॥२६॥

ते सर्वे शुभकर्माणस्सद्धर्माणो वनेचराः ।

विधर्माचरणैर्हीना जातिस्मरणसिद्धयः

॥२७॥

पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै ।

तथैव चास्थिता बुद्धौ संसारेऽप्य निवर्तने

॥२८॥

गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः ।

तेषां तु पतितानां च यानि स्थानानि भारत

॥२९॥

तथैवाद्यापि दृश्यंते गिरौ कालञ्जरे नृप ।

कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः

॥३०॥

शुभाऽशुभतरां योनिं चक्रवाकत्वमागताः ।

शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः

॥३१॥

त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः ।

निस्संगा निर्ममाश्शांता निर्द्वंद्वा निष्परिग्रहाः

॥३२॥

निवृत्तिनिर्वृताश्चैव शकुना नामतः स्मृताः ।

ते ब्रह्मचारिणस्सर्वे शकुना धर्मधारिणः

॥३३॥

जातिस्मरास्सुसंवृद्धास्सप्तैव ब्रह्मचारिणः ।

स्थिता एकत्र सद्धर्मा विकाररहितास्सदा

॥३४॥

विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ ।

तिर्य्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे

॥३५॥

तथा तु पितृकार्य्यार्थं कृतं श्राद्धं व्यवस्थितैः ।

तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम्

॥३६॥

पूर्वजादिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ।

तथैव संस्थितज्ञानं तस्माज्ज्ञानं समभ्यसेत्

॥३७॥

सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः ।

स्वतंत्रश्च सुयज्ञश्च कुलीना नामतः स्मृताः

॥३८॥

तेषां तत्र विहंगानां चरतां धर्मचारिणाम् ।

सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने

॥३९॥

नीपानामीश्वरो राजा प्रभावेण समन्वितः ।

श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह

॥४०॥

स्वतंत्रश्चक्रवाकस्सस्पृहयामास तं नृपम् ।

दृष्ट्वा यांतं सुखोपेतं राज्यशोभासमन्वितम्

॥४१॥

यद्यस्ति सुकृतं किंचित्तपो वा नियमोऽपि वा ।

खिन्नोहमुपवासेन तपसा निश्चलेन च

॥४२॥

तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि ।

सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः

॥४३॥

मार्कण्डेय उवाच

ततस्तु चक्रवाकौ द्वावासतुस्सहचारिणौ ।

आवां वै सचिवौ स्याव तव प्रियहितैषिणौ

॥४४॥

तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः ।

एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम्

॥४५॥

यस्मात्कर्मब्रुवाणस्वं योगधर्ममवाप्य तम् ।

एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे

॥४६॥

राजा त्वं भविता तात कांपिल्ये नगरोत्तमे ।

एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ

॥४७॥

न तानूचुस्त्रयो राज्यं चतुरस्सहचारिणः ।

सप्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत्

॥४८॥

अंतर्वो भविता शापः पुनर्योगमवाप्स्यथ ।

सर्वसत्त्वः सुयज्ञश्च स्वतंत्रोऽयं भविष्यति

॥४९॥

पितृप्रसादाद्युष्माभिस्संप्राप्तं सुकृतं भवेत् ।

गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः

॥५०॥

अस्माकं ज्ञानसंयोगस्सर्वेषां योगसाधनम् ।

इदं च कार्यं संरब्धं श्लोकमेकमुदाहृतम्

॥५१॥

पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ ।

इत्युक्त्वा स तु मौनोभूद्विहंगस्सुमना बुधः

॥५२॥

मार्कण्डेय उवाच

लोकानां स्वस्तये तात शन्तनुप्रवरात्मज ।

इत्युक्तं तच्चरित्रं मे किं भूयश्श्रोतुमिच्छसि

॥५३॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगति वर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥