पुराणमाहात्म्यवर्णनम्
सनत्कुमार उवाच
तपस्तपति योऽरण्ये वन्यमूलफलाशनः ।
योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने
॥१॥श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः ।
तदध्यापनतश्चापि द्विगुणं फलमश्नुते
॥२॥जगद्यथा निरालोकं जायतेऽशशिभास्करम् ।
विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा
॥३॥तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः ।
सम्बोधयति लोकं तं तस्मात्पूज्यः पुराणगः
॥४॥सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् ।
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
॥५॥मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन ।
पुराणज्ञस्सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः
॥६॥धनं धान्यं हिरण्यं च वासांसि विविधानि च ।
देयं पुराणविज्ञाय परत्रेह च शर्म्मणे
॥७॥यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः ।
पात्राय शुभवस्तूनि स याति परमां गतिम्
॥८॥महीं गां वा स्यंदनांश्च गजानश्वांश्च शोभनान् ।
यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु
॥९॥अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि ।
अश्वमेधमखस्यापि स फलं लभते पुमान्
॥१०॥मही ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ।
स तारयति वै वंश्यान्दश पूर्वान्दशापरान्
॥११॥इह भुक्त्वाखिलान्कामानंते दिव्यशरीरवान् ।
विमानेन च दिव्येन शिवलोकं स गच्छति
॥१२॥न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ।
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः
॥१३॥शंभोरायतने यस्तु कारयेद्धर्मपुस्तकम् ।
विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम्
॥१४॥राजसूयाश्वमेधानां फलमाप्नोति मानवः ।
सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति
॥१५॥स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ।
भुंक्ते निष्कंटकं भोगान्नात्र कार्या विचारणा
॥१६॥अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ।
तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत्
॥१७॥इतिहासपुराणाभ्यां शम्भोरायतने शुभे ।
नान्यत्प्रीतिकरं शंभोस्तथान्येषां दिवौकसाम्
॥१८॥तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।
तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम्
॥१९॥पुराणश्रवणाच्छंभोर्निष्पापो जायते नरः ।
भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात्
॥२०॥राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ।
तत्पुण्यं लभते शंभोः कथाश्रवणमात्रतः
॥२१॥सर्वतीर्थावगाहेन गां कोटिप्रदानतः ।
तत् फलं लभते शंभोः कथाश्रवणतो मुने
॥२२॥ये शृण्वंति कथां शंभोस्सदा भुवनपावनीम् ।
ते मनुष्या न मंतव्या रुद्रा एव न संशयः
॥२३॥शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् ।
पदाम्बुजरजांस्येव तीर्थानि मुनयो विदुः
॥२४॥गंतुं निःश्रेयसं स्थानं येऽभिवांछन्ति देहिनः ।
कथां पौराणिकीं शैवीं भक्त्या शृण्वंतु ते सदा
॥२५॥कथां पौराणिकीं श्रोतुं यद्यशक्तस्सदा भवेत् ।
नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम्
॥२६॥यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ।
पुण्यमासादिषु मुने शृणुयाच्छांकरीं कथाम्
॥२७॥शैवीं कथां हि शृण्वानः पुरुषो हि मुनीश्वर ।
स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम्
॥२८॥कथां शैवीं मुहूर्तं वा तदर्द्धं क्षणं च वा ।
ये शृण्वxति नरा भक्त्या न तेषां दुर्गतिर्भवेत्
॥२९॥यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ।
शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत्
॥३०॥विशेषतः कलौ व्यास पुराणश्रवणादृते ।
परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः
॥३१॥पुराणश्रवणं शम्भोर्नामसंकीर्तनं तथा ।
कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः
॥३२॥कलौ दुर्मेधसां पुंसां धर्माचारोझ्झितात्मनाम् ।
हिताय विदधे शम्भुः पुराणाख्यं सुधारसम्
॥३३॥एकोऽजरामरस्याद्वै पिबन्नेवामृतं पुमान् ।
शम्भोः कथामृतापानात्कुलमेवाजरामरम्
॥३४॥या गतिः पुण्यशीलानां यज्वनां च तपस्विनाम् ।
सा गतिस्सहसा तात पुराणश्रवणात्खलु
॥३५॥ज्ञानवाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः ।
अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च
॥३६॥पापं संक्षीयते नित्यं धर्म्मश्चैव विवर्द्धते ।
पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते
॥३७॥अतएव पुराणानि श्रोतव्यानि प्रयत्नतः ।
धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा
॥३८॥यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया ।
तत्फलम समवाप्नोति पुराणश्रवणान्नरः
॥३९॥न भवेयुः पुराणानि धर्ममार्गे क्षणानि तु ।
यद्यत्र यद्व्रती स्थाता चात्र पारत्रकी कथाम्
॥४०॥षड्विंशतिपुराणानां मध्येऽप्येकं शृणोति यः ।
पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः
॥४१॥अन्यो न दृष्टस्सुखदो हि मार्गः पुराणमार्गो हि सदा वरिष्ठः ।
शास्त्रं विना सर्वमिदं न भाति सूर्य्येण हीना इव जीवलोकाः
॥४२॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥