मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ७

3
उमासंहिता · 7

नरकलोकमार्गयमदूतस्वरूपवर्णनम्

सनत्कुमार उवाच

अथ पापैर्नरा यांति यमलोकं चतुर्विधैः ।

संत्रासजननं घोरं विवशास्सर्वदेहिनः

॥१॥

गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।

स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजंतुषु

॥२॥

शुभाशुभफलं चात्र देहिनां संविचार्यते ।

चित्रगुप्तादिभिस्सर्वैर्वसिष्ठप्रमुखैस्तथा

॥३॥

न केचित्प्राणिनस्संति ये न यांति यमक्षयम् ।

अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्य्यताम्

॥४॥

तत्र ये शुभकर्माणस्सौम्यचित्ता दयान्विताः ।

ते नरा यांति सौम्येन पूर्वं यमनिकेतनम्

॥५॥

ये पुनः पापकर्म्माणः पापा दानविवर्जिताः ।

ते घोरेण पथा यांति दक्षिणेन यमालयम्

॥६॥

षडशीतिसहस्राणि योजनानामतीत्य तत् ।

वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम्

॥७॥

समीपस्थमिवाभाति नराणां पुण्यकर्मणाम् ।

पापिनामतिदूरस्थं पथा रौद्रेण गच्छताम्

॥८॥

तीक्ष्णकंटकयुक्तेन शर्कराविचितेन च ।

क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च

॥९॥

क्वचित्पंकेन महता उरुतोकैश्च पातकैः ।

लोहसूचीनिभैर्दर्भैस्सम्पन्नेन पथा क्वचित्

॥१०॥

तटप्रायातिविषमैः पर्वतैर्वृक्षसंकुलैः ।

प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः

॥११॥

क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैस्सुदुष्करैः ।

सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः

॥१२॥

अनेक शाखाविततैर्व्याप्तं वंशवनैः क्वचित् ।

कष्टेन तमसा मार्गे नानालम्बेन कुत्रचित्

॥१३॥

अयश्शृंगाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ।

क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च

॥१४॥

क्वचिद्वालुकया व्याप्तमाकंठांतः प्रवेशया ।

क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना

॥१५॥

क्वचित्सिंहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ।

क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा

॥१६॥

मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ।

मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः

॥१७॥

पंथानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः ।

तीक्ष्णशृंगैश्च महिषैस्सर्वभूतैश्च श्वापदैः

॥१८॥

डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।

व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि

॥१९॥

महाधूलिविमिश्रेण महाचण्डेन वायुना ।

महापाषाणवर्षेण हन्यमाना निराश्रयाः

॥२०॥

क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ।

महता बाणवर्षेण विध्यमानाश्च सर्वतः

॥२१॥

पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ।

प्रदीप्तांगारवर्षेण दह्यमानाश्च संति हि

॥२२॥

महता पांसुवर्षेण पूर्यमाणा रुदंति च ।

महामेघरवैर्घोरैस्त्रस्यंते च मुहुर्मुहुः

॥२३॥

निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ।

महाक्षाराम्बुधाराभिस्सिच्यमाना व्रजंति च

॥२४॥

महीशीतेन मरुता रूक्षेण परुषेण च ।

समंताद्बाध्यमानाश्च शुष्यंते संकुचन्ति च

॥२५॥

इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।

निरालम्बेन दुर्गेण निर्जलेन समंततः

॥२६॥

विषमेणैव महता निर्जनापाश्रयेण च ।

तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च

॥२७॥

नीयंते देहिनस्सर्वे ये मूढाः पापकर्मिणः ।

यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात्

॥२८॥

एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ।

शोचंतस्स्वानि कर्म्माणि रुदंतश्च मुहुर्मुहुः

॥२९॥

प्रेता भूत्वा विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ।

असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः

॥३०॥

बद्धाश्शृंखलया केचिदुत्ता नपादका नराः ।

कृष्यंते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः

॥३१॥

उरसाधोमुखाश्चान्ये घृष्यमाणास्सुदुःखिताः ।

केशपाशनि बंधेन संस्कृष्यंते च रज्जुना

॥३२॥

ललाटे चांकुशेनान्ये भिन्ना दुष्यंति देहिनः ।

उत्तानाः कंटकपथा क्वचिदंगारवर्त्मना

॥३३॥

पश्चाद्बाहुनिबद्धाश्च जठरेण प्रपीडिताः ।

पूरिताश्शृंखलाभिश्च हस्तयोश्च सुकीलिताः

॥३४॥

ग्रीवापाशेन कृष्यंते प्रयांत्यन्ये सुदुःखिताः ।

जिह्वांकुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते

॥३५॥

नासाभेदेन रज्ज्वा च त्वाकृश्यन्ते तथापरे ।

भिन्नाः कपोलयो रज्ज्वाकृष्यंतेऽन्ये तथौष्ठयोः

॥३६॥

छिन्नाग्रपादहस्ताश्च च्छिन्नकर्णोष्ठनासिकाः ।

संछिन्नशिश्नवृषणाः छिन्नभिन्नांगसंधयः

॥३७॥

आभिद्यमानाः कुंतैश्च भिद्यमानाश्च सायकैः ।

इतश्चेतश्च धावंतः क्रंदमाना निराश्रयाः

॥३८॥

मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ।

कंटकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः

॥३९॥

भिन्दिपालैर्विभियंते स्रवतः पूयशोणितम् ।

शकृता कृमिदिग्धाश्च नीयंते विवशा नराः

॥४०॥

याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ।

छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः

॥४१॥

दानहीनाः प्रयांत्येवं प्रार्थयंतस्सुखं नराः ।

गृहीतदान पाथेयास्सुखं यांति यमालयम्

॥४२॥

एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ।

प्रज्ञापितास्ततो दूतैर्निवेश्यंते यमाग्रतः

॥४३॥

तत्र ये शुभकर्म्माणस्तांस्तु सम्मानयेद्यमः ।

स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च

॥४४॥

धन्या यूयं महात्मानो निगमोदितकारिणः ।

यैश्च दिव्यसुखार्थाय भवद्भिस्सुकृतं कृतम्

॥४५॥

दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ।

स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम्

॥४६॥

तत्र भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ।

यत्किंचिदल्पमशुभं पुनस्तदिह भोक्ष्यथ

॥४७॥

धर्म्मात्मानो नरा ये च मित्रभूत्वा इवात्मनः ।

सौम्यं सुखं प्रपश्यंति धर्मराजत्वमेव च

॥४८॥

ये पुनः क्रूरकर्म्माणस्ते पश्यंति भयानकम् ।

दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्

॥४९॥

ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ।

अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम्

॥५०॥

सर्वायुधोद्धतकरं सर्वदण्डेन तर्जयन् ।

महामहिषमारूढं दीप्ताग्निसमलोचनम्

॥५१॥

रक्तमाल्यांबरधरं महामेरुमिवोच्छ्रितम् ।

प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम्

॥५२॥

ग्रसंतमिव शैलेन्द्रमुद्गिरंतमिवानलम् ।

मृत्युश्चैव समीपस्थः कालानलसमप्रभुः

॥५३॥

कालश्चांजनसंकाशः कृतांतश्च भयानकः ।

मारीचोग्रमहामारी कालरात्रिश्च दारुणा

॥५४॥

विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ।

शक्तिशूलांकुशधराः पाशचक्रासिपाणयः

॥५५॥

वजतुंडधरा रुद्रा क्षुरतूणधनुर्द्धराः ।

नानायुधधरास्सर्वे महावीरा भयंकराः

॥५६॥

असंख्याता महावीराः कालाञ्जनसमप्रभाः ।

सर्वायुधोद्यतकरा यमदूता भयानकाः

॥५७॥

अनेन परिचारेण वृतं तं घोरदर्शनम् ।

यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम्

॥५८॥

निर्भर्त्सयति चात्यंतं यमस्तान्पापकर्म्मणः ।

चित्रगुप्तश्च भगवान्धर्म्मवाक्यैः प्रबोधयेत्

॥५९॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥