मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ३४

3
उमासंहिता · 34

सर्वमन्वतरानुर्कार्तनम्

शौनक उवाच

मन्वंतराणि सर्वाणि विस्तरेणानुकीर्तय ।

यावंतो मनवश्चैव श्रोतुमिच्छामि तानहम्

॥१॥

सूत उवाच

स्वायंभुवो मनुश्चैव ततस्स्त्वारोचिषस्तथा ।

उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा

॥२॥

एते च मनवः षट् ते संप्रोक्ता मुनिपुंगव ।

वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते

॥३॥

सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ।

तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा

॥४॥

तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ।

देवसावर्णिराख्यातं इंद्रसावर्णिरेव च

॥५॥

अतीता वर्तमानाश्च तथैवानागताश्च ये ।

कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः

॥६॥

मुने चतुर्दशैतानि त्रिकालानुगतानि ते ।

प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्य्ययः

॥७॥

ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान्देवगणांस्तथा ।

शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः

॥८॥

मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।

पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणस्सुताः

॥९॥

उत्तरस्यां दिशि तथा मुने सप्तर्ष यस्तथा ।

यामा नाम तथा देवा आसन्स्वायंभुवेंतरे

॥१०॥

आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।

ज्योतिष्मान्धृतिमान्हव्यः सवनश्शुभ्र एव च

॥११॥

स्वायंभुवस्य पुत्रास्ते मनोर्दश महात्मनः ।

कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते

॥१२॥

प्रथमं कथितं तात दिव्यं मन्वतरं तथा ।

द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम्

॥१३॥

ऊर्जस्तंभः परस्तंभ ऋषभो वसुमां स्तथा ।

ज्योतिष्मान्द्युतिमांश्चैव रोचिष्मान्सप्तमस्तथा

॥१४॥

एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ।

देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे

॥१५॥

हरिघ्नस्सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ।

प्रथितश्च मनस्युश्च नभस्सूर्यस्तथैव च

॥१६॥

स्वारोचिषस्य पुत्रास्ते मनोर्दशमहात्मनः ।

कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः

॥१७॥

द्वितीयमेतत्कथितं मुने मन्वन्तरं मया ।

तृतीयं तव वक्ष्यामि तन्निबोध यथातथम्

॥१८॥

वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ।

हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः

॥१९॥

ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे ।

औत्तमेया ऋषिश्रेष्ठ दशपुत्रा मनोः स्मृताः।

इष ऊर्जित ऊर्जश्च मधुर्माधव एव च ।

शुचिश्शुक्रवहश्चैव नभसो नभ एव च

॥२१॥

ऋषभस्तत्र देवाश्च सत्यवेद श्रुतादयः ।

तत्रेन्द्रस्सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने

॥२२॥

तृतीयमेतत्परमं मन्वतरमुदाहृतम् ।

मन्वतरं चतुर्थं ते कथयामि मुने शृणु

॥२३॥

गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ।

कपीवान्सप्तऋषयः सत्या देवगणास्तथा

॥२४॥

तत्रेंद्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ।

द्यूतिपोतस्सौतपस्यस्तमश्शूलश्च तापनः

॥२५॥

तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ।

तामसस्य स्मृता एते दश पुत्रा महाव्रताः

॥२६॥

तामसस्यांतरं चैव मनो मे कथितं तव ।

चतुर्थं पञ्चमं तात शृणु मन्वंतरं परम्

॥२७॥

देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा ।

हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः

॥२८॥

सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे ।

देवाश्च भूतरजसस्तपःप्रकृतयस्तथा

॥२९॥

तत्रेंद्रो विभुनामा च त्रैलोक्याधिपतिस्तथा ।

रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः

॥३०॥

अर्जुनः पंक्तिविंध्यो वा दयायास्त नया मुने ।

महता तपसा युक्ता मेरुपृष्ठे वसंति हि

॥३१॥

रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः ।

भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः

॥३२॥

अनागताश्च सप्तैते कल्पेऽस्मिन्मनवस्स्मृताः ।

अनागताश्च सप्तैव स्मृता दिवि महर्षयः

॥३३॥

रामो व्यासस्तथात्रेयो दीप्तिमान्सु बहुश्रुतः ।

भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः

॥३४॥

गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।

कौशिको गालवश्चैव रुरुः कश्यप एव च

॥३५॥

एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।

देवाश्चानागतास्तत्र त्रयः प्रोक्तास्स्वयंभुवा

॥३६॥

मरीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः ।

तेषां विरोचनसुतो बलिरिंद्रो भविष्यति

॥३७॥

विषांङ्गश्चावनीवांश्च सुमंतो धृतिमान्वसुः ।

सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च

॥३८॥

सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक ।

इहाष्टमं हि कथितं नवमं चान्तरं शृणु

॥३९॥

प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं शृणु ।

मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च

॥४०॥

ज्योतिष्मान्भार्गवश्चैव धृतिमानंगिरास्तथा ।

सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च

॥४१॥

पुलहस्सप्त इत्येते ऋषयो रौहितेंतरे ।

देवतानां गणास्तत्र त्रय एव महामुने

॥४२॥

दीक्षापुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।

धृष्टकेतुर्दीप्तकेतुः पंचहस्तो निराकृतिः

॥४३॥

पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः ।

प्रथमस्य तु सावर्णेर्नव पुत्रा महौजस

॥४४॥

दशमे त्वथ पर्याये द्वितीयस्यांतरे मनोः ।

हविष्मान्पुलहश्चैव प्रकृतिश्चैव भार्गवः

॥४५॥

आयो मुक्तिस्तथात्रेयो वसिष्ठश्चाव्ययस्स्मृतः ।

पौलस्त्यः प्रयतिश्चैव भामारश्चैव कश्यपः

॥४६॥

अङ्गिरानेनसस्सत्यः सप्तैते परमर्षयः ।

देवतानां गणाश्चापि द्विषिमंतश्च ते स्मृताः

॥४७॥

तेषामिन्द्रस्स्मृतः शम्भुस्त्वयमेव महेश्वरः ।

अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान्

॥४८॥

शतानीको निरामित्रो वृषसेनो जयद्रथः ।

भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोस्सुताः

॥४९॥

एकादशे तु पर्याये तृतीयस्यांतरे मनोः ।

तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे

॥५०॥

हविष्मान्कश्यपश्चापि वपुष्मांश्चैव वारुणः ।

अत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वंगिरास्तथा

॥५१॥

चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः ।

सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणास्स्मृताः

॥५२॥

ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः ।

सर्वगश्च सुशर्म्मा च देवानीकस्तु क्षेमकः

॥५३॥

दृढेषुः खंडको दर्शः कुहुर्बाहुर्मनोः स्मृताः ।

सावर्णस्य तु पौत्रा वै तृतीयस्य नव स्मृताः

॥५४॥

चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे ।

द्युतिर्वसिष्ठपुत्रश्च आत्रेयस्सुतपास्तथा

॥५५॥

अंगिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा ।

तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः

॥५६॥

भार्गवस्सप्तमस्तेषां विज्ञेय तपसो निधिः ।

पंच देवगणाः प्रोक्ता मानसा ब्रह्मणस्सुताः

॥५७॥

ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी ।

द्वादशे चैव पर्याये भाव्ये रौच्यांतरे मुने

॥५८॥

अंगिराश्चैव धृतिमान्पौलस्त्यो हव्यवांस्तु यः ।

पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः

॥५९॥

निष्प्रपंचस्तथात्रेयो निर्देहः कश्यपस्तथा ।

सुतपाश्चैव वासिष्ठस्सप्तैवैते महर्षयः

॥६०॥

त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ।

दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च

॥६१॥

नयो धर्मो धृतोंध्रश्च सुनेत्रः क्षत्रवृद्धकः ।

निर्भयस्सुतपा द्रोणो मनो रौच्यस्य ते सुताः

॥६२॥

चतुर्द्दशे तु पर्याये सत्यस्यैवांतरे मनोः ।

आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः

॥६३॥

भार्गवोऽप्यतिवाह्यश्च शुचिरांगिरसस्तथा ।

युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च

॥६४॥

अजितः पुलहश्चैव ह्यंत्यास्सप्तर्षयश्च ते ।

पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति

॥६५॥

एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।

अतीतानागतानां वै महर्षीणां नरैस्सदा

॥६६॥

देवतानां गणाः प्रोक्ताश्शृणु पंच महामुने ।

तुरंगभीरुर्बुध्नश्च तनुग्रोऽनूग्र एव च

॥६७॥

अतिमानी प्रवीणश्च विष्णुस्संक्रंदनस्तथा ।

तेजस्वी सबलश्चैव सत्यस्त्वेते मनोस्सुता

॥६८॥

भौमस्यैवाधिकारे वै पूर्वकल्पस्तु पूर्यते ।

इत्येतेऽनागताऽतीता मनवः कीर्तिता मया

॥६९॥

उक्तास्सनत्कुमारेण व्यासायामिततेजसा ।

पूर्णे युगसहस्रांते परिपाल्यः स्वधर्मतः

॥७०॥

प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजंति ते ।

युगानि सप्रतिस्त्वेकं साग्राण्यंतरमुच्यते

॥७१॥

चतुर्दशैते मनवः कीर्तिता कीर्तिवर्धनाः ।

मन्वंतरेषु सर्वेषु संहारांते पुनर्भवः

॥७२॥

न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ।

पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते

॥७३॥

तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।

ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने

॥७५॥

प्रविशंति सुरश्रेष्ठ हरिं नारायणं परम् ।

स्रष्टारं सर्व भूतानां कल्पांतेषु पुनःपुनः

॥७६॥

भूयोपि भगवान् रुद्रस्संहर्ता काल एव हि ।

कल्पांते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै

॥७७॥

इति ते कथितं सर्वं मन्वंतरसमुद्भवम् ।

विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम्

॥७८॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥