धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरन्तथा
राजोवाच
धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरन्तथा ।
भगवन्निहतन्देव्या श्रुत्वा शुम्भः सुरार्दनः
॥१॥किमकार्षीत्ततो ब्रह्मन्नेतन्मे ब्रूहि साम्प्रतम् ।
शुश्रूषवे जगद्योनेश्चरित्रं पापनाशनम्
॥२॥ऋषिरुवाच
हतानेमान्दैत्यवरान्महासुरो निशम्य राजन्महनीयविक्रमः ।
अजिज्ञपत्स्वीयगणान्दुरासदान्रणाभिधोच्चारणज्जातसंमदान्
॥३॥बलान्वितास्संमिलिता ममाज्ञया जयाशया कालकवंशसंभवाः ।
सकालकेयासुरमौर्य्यदौर्हृदास्तथा परेप्याशु प्रयाणयन्तु ते
॥४॥निशुंभशुंभौ दितिजान्निदेश्य तान्रथाधिरूढौ निरयां बभूवतुः ।
बलान्यनूखुर्बलिनोस्तयोर्धराद्विनाशवन्तः शलभा इवोत्थिताः
॥५॥प्रसादयामास मृदंगमर्दलं सभेरिकाडिण्डिमझर्झरानकम् ।
रणस्थले संजहृषू रणप्रिया असुप्रियाः संगरतः पराययुः
॥६॥भटाश्च ते युद्धपटावृतास्तदा रणस्थलीं मापुरपापविग्रहाः ।
गृहीतशस्त्रास्त्रचया जिगीषया परस्परं विग्रहयन्त उल्बणम्
॥७॥गजाधिरूढास्तुरगाधिरोहिणो रथाधिरूढाश्च तथापरेऽसुराः ।
अलक्षयन्तः स्वपराञ्जनान्मुदाऽसुरेशसंगे समरेऽभिरेभिरे
॥८॥ध्वनिः शतघ्नी जनितो मुहुर्मुहुर्बभूव तेन त्रिदशाः समेजिताः ।
महान्धकारः समपद्यताम्बरे विलोक्यते नो रथमण्डलं रवेः
॥९॥पदातयो निर्व वजुर्हि कोटिशः प्रभूतमाना विजयाभिलाषिणः ।
रथाश्वगा वारणगा अथापरेऽसुरा निरीयुः कति कोटिशो मुदा
॥१०॥अशुक्ल शैला एव मत्तवारणा अतानिषुश्चीत्कृतिशब्दमाहवे ।
क्रमेलकाश्चापि गलद्गलध्वनिं वितन्वते क्षुद्रमहीधरोपमाः
॥११॥हयाश्च ह्रेषन्त उदग्रभूमिजा विशालकण्ठाभरणा गतेर्विदः ।
पदानि दन्तावलमूर्ध्नि बिभ्रतः सुडिड्यिरे व्योमपथा यथाऽवयः
॥१२॥समीक्ष्य शत्रोर्बलमित्थमापतच्चकार सज्यं धनुरम्बिका तदा ।
ननाद घण्टां रिपुसाददायिनी जगर्ज सिंहोऽपि सटां विधूनयन्
॥१३॥ततो निशुंभस्तुहिनाचलस्थितां विलोक्य रम्याभरणायुधां शिवाम् ।
गिरं बभाषे रसनिर्भरां परां विलासनीभावविचक्षणो यथा
॥१४॥भवादृशीनां रमणीयविग्रहे दुनोति कीर्णं खलु मालतीदलम् ।
कथं करालाहवमातनोष्यसे महेशि तेनैव मनोज्ञवर्ष्मणा
॥१५॥इतीरयित्वा वचनं महासुरो बभूव मौनी तमुवाच चंडिका ।
वृथा किमात्थासुर मूढ संगरं कुरुष्व नागालयमन्यथा व्रज
॥१६॥ततोतिरुष्टः समरे महारथश्चकार बाणावलिवृष्टिमद्भुताम् ।
घनाघनाः संववृषुर्यथोदकं रणस्थले प्रावृडिवागता तदा
॥१७॥शरैश्शितैश्शूलपरश्वधायुधैः सभिन्दिपालैः परिघैश्शरासनैः ।
भुशुण्डिकाप्रासक्षुरप्रसंज्ञकैर्महासिभिः संयुयुधे मदोद्धतैः
॥१८॥विवभ्रमुस्तत्समरे महागजा विभिन्नकुंभाअसिताद्रिसन्निभाः ।
चलद्बलाकाधवला विकेतवो विसेतवः शुंभनिशुंभकेतवः
॥१९॥विभिन्नदेहा दितिजा झषोपमा विकन्धरा वाजिगणा भयंकराः ।
परासवः कालिकया कृता रणे मृगारिणा चाशिषतापरेऽसुरा
॥२०॥विसुस्रुवू रक्तवहास्तदन्तरे सरिच्च यास्तत्र विपुप्लुवे हतैः ।
कचा भटानां जलनीलिकोपमास्तदुत्तरीयं सितफेनसंनिभम्
॥२१॥तुरंगसादी तुरगाधिरोहिणं गजस्थितानभ्यपतन्गजारुहः ।
रथी रथेशं खलु पत्तिरङ्घ्रिगान्समप्रतिद्वन्द्विकलिर्महानभूत्
॥२२॥ततो निशुंभो हृदये व्यचिन्तयत्करालकालोयमुपागतोऽधुना ।
भवेद्दरिद्रोऽपि महाधनो महाधनो दरिद्रो विपरीतकालतः
॥२३॥जडो भवेत्स्फीतमतिर्महामतिर्जडो नृशंसो बहुमन्तु संस्तुतः ।
पराजयं याति रणे महाबला जयंति संग्राममुखे च दुर्बलाः
॥२४॥जयोऽजयो वा परमेश्वरेच्छया भवत्यनायासत एव देहिनाम् ।
न कालमुल्लंघ्य शशाक जीवितुं महेश्वरः पद्मजनी रमापतिः
॥२५॥उपेत्य संग्राममुखं पलायनं न साधुवीरा हृदयेऽनुमन्वते ।
परंतु युद्धे कथमेतया जयो विनाशितं मे सकलं बलं यथा
॥२६॥इयं हि नूनं सुरकर्म साधितुं समागता दैत्यबलं च बाधितुम् ।
पुराणमूर्तिः प्रकृतिः परा शिवा न लौकिकीयं वनिता कदापि वा
॥२७॥वधोऽपि नारीविहितोऽयशस्करः प्रगीयते युद्धरसं लिलिक्षुभिः ।
तथाप्यकृत्वा समरं कथं मुखं प्रदर्शयामोऽसुरराजसन्निधौ
॥२८॥विचारयित्वेति महारथो रथं महान्तमध्यास्य नियन्तृचोदितम् ।
ययौ द्रुतं यत्र महेश्वरांगना सुरांगनाप्रार्थितयौवनोद्गमा
॥२९॥अवोचदेनां स महेशि किं भवेदेभिर्हतैर्वेतनजीविभिर्भटैः ।
तवास्ति कांक्षा यदि योद्धुमावयोस्तदा रणः स्याद्धृतयुद्धसत्पटैः
॥३०॥उवाच कालीं प्रति कौशिकी तदा समीक्ष्यतामेष दुराग्रहोऽनयोः ।
करोति कालो विपदागमे मतिं विभिन्नवृत्तिं सदसत्प्रवर्तकः
॥३१॥ततो निशुंभोऽभिजघान चण्डिकां शरैस्सहस्रैश्च तथैव कालिकाम् ।
बिभेद बाणानसुरप्रचोदितान्सहस्रखण्डं स्वशरोत्करैः शिवा
॥३२॥ततः समुत्थाय कृपाणमुज्ज्वलं स चर्म्म कण्ठीरवमूर्ध्न्यताडयत् ।
बिभेद तं चापि महासिनाम्बिका यथा कुठारेण तरुं तरुश्छिदः
॥३३॥स भिन्नखड्गो निचखान मार्गणं पराम्बिका वक्षसि सोऽपि चिच्छिदे ।
पुनस्त्रिशूलं हृदयेऽक्षिपत्तदप्यचूर्ण यन्मुष्टिनिपातनेन सा
॥३४॥गदां समादाय पुनर्महारथोऽभ्यधावदम्बां मरणोन्मुखोऽसुरः ।
अचूर्णयत्तामपि शूलधारया पुनस्त्रि शूलं विददार सोऽन्यया
॥३५॥ततोम्बिका भीमभुजंगमोपमैस्सुरद्विषां शोणितचूषणोचितैः ।
निशुम्भमात्मीयशिलीमुखै श्शितैर्निहत्य भूमीमनयद्विषोक्षितैः
॥३६॥निपातितेऽमानबलेऽसुरप्रभुः कनीयसि भ्रातरि रोषपूरितः ।
रथस्थितो बाहुभिरष्ट भिर्वृतो जगाम यत्र प्रमदा महेशितुः
॥३७॥अवादयच्छंखमरिन्दमं तदा धनुस्स्वनं चापि चकार दुःसहम् ।
ननाद सिंहोऽपि सटां विधूनयन्बभूव नादत्रयनादितन्नभः
॥३८॥ततोऽट्टहासं जगदम्बिका करोद्वितत्रसुस्तेन सुरारयोऽखिलाः ।
जयेति शब्दं जगदुस्तदा सुरा यदाम्बिकोवाच रणे स्थिरो भव
॥३९॥दैत्यराजो महतीं ज्वलच्छिखां मुमोच शक्तिं निहता च सोल्कया ।
बिभेद शुंभप्रहिताञ्छराच्छिवा शिवेरितान्सोपि सहस्रधा शरान्
॥४०॥त्रिशूलमुत्क्षिप्य जघान चण्डिका महासुरं तं स पपात मूर्च्छितः ।
विभिन्नपक्षो हरिणा यथा नगः प्रकंपयन् द्यां वसुधां स वारिधिम्
॥४१॥ततो मृषित्वा त्रिशिखोद्भवां व्यथां विधाय बाहूनयुतं महाबलः ।
स कालिकां सिंहयुतां महेश्वरीं जघान चक्रैरमरक्षयंकरैः
॥४२॥तदस्तचक्राणि विभिद्य लीलया त्रिशूलमुद्गूर्य्य जघान सासुरम् ।
शिवा जगत्पावनपाणिपङ्कजादुपात्तमृत्यू परमं पदं गतौ
॥४३॥हते तस्मिन्महावीर्य्ये निशुंभे भीमविक्रमे ।
शुंभे च सकला दैत्या विविशुर्बलिसद्मनि
॥४४॥भक्षिता अपरे कालीसिंहाद्यैरमरद्विषः ।
पलायितास्तथान्ये च दशदिक्षु भयाकुलाः
॥४५॥बभूवुर्मार्गवाहिन्यस्सरितः स्वच्छपाथसः ।
ववुर्वाताः सुखस्पर्शा निर्मलत्वं ययौ नभः
॥४६॥पुनर्यागः समारेभे देवैर्ब्रह्मर्षिभिस्तथा ।
सुखिनश्चाभवन्सर्वे महेन्द्राद्या दिवौकसः
॥४७॥पवित्रं परमं पुण्यमुमायाश्चरितं प्रभो ।
दैत्यराजवधोपेतं श्रद्धया यः समभ्य सेत्
॥४८॥स भुक्त्वेहाखिलान्भोगांस्त्रिदशैरपि दुर्लभान् ।
परत्रोमालयं गच्छेन्महामायाप्रसादतः
॥४९॥ऋषिरुवाच
एवन्देवी समुत्पन्ना शुंभासुरनिबर्हिणी ।
प्रोक्ता सरस्वती साक्षादुमांशाविर्भवा नृप
॥५०॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहि तायां निशुंभशुंभवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनंनामाष्टश्चत्वारिंशोऽध्यायः ॥ ४८ ॥