महाकालिकावतारवर्णनम्
मुनय ऊचुः
श्रुत्वा शंभोः कथा रम्या नानाख्यानसमन्विता ।
नानावतार संयुक्ता भुक्तिमुक्तिप्रदा नृणाम्
॥१॥इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ।
चरित्रं जगदंबाया भगवत्या मनोहरम्
॥२॥परब्रह्म महेशस्य शक्तिराद्या सनातनी ।
उमा या समभिख्याता त्रैलोक्यजननी परा
॥३॥सती हेमवती तस्या अवतारद्वयं श्रुतम् ।
अपरानवतारांस्त्वं ब्रूहि सूत् महामते
॥४॥को विरज्येत मतिमान् गुणश्रवणकर्मणि ।
श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन
॥५॥सूत उवाच
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ।
यत्पृच्छथ पराम्बाया उमायाश्चरितं महत्
॥६॥शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः
॥७॥ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ।
येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि
॥८॥ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ।
मायागुणैर्मोहितास्स्युर्हतभाग्या न संशयः
॥९॥न भजन्ति महादेवीं करुणारससागराम् ।
अन्धकूपे पतन्त्येते घोरे संसाररूपिणि
॥१०॥गंगां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ।
विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत्
॥११॥यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम् ।
अनायासेन लभते कस्त्यजेत्तां नरोत्तमः
॥१२॥एतत्पृष्टः पुरा मेधास्सुरथेन महात्मना ।
यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते
॥१३॥स्वारोचिषेन्तरे पूर्वं विरथो नाम पार्थिवः ।
सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः
॥१४॥दानशौण्डः सत्यवादी स्वधर्म्म कुशलः कृती ।
देवीभक्तो दयासिन्धुः प्रजानां परिपालकः
॥१५॥पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
बभूबुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः
॥१६॥कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।
तैस्समन्तुमुलं युद्धं समपद्यत दारुणम्
॥१७॥युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ।
उज्जासितच्च कोलाया हृत्वा राज्यमशेषतः
॥१८॥स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमंत्रिभिः ।
तत्रापि च महःपक्षैर्विपक्षैस्स पराजितः
॥१९॥दैवाच्छत्रुत्वमापन्नै रमात्यप्रमुखैर्गणैः ।
कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम्
॥२०॥ततस्स निर्गतो राजा नगरान्मृगया छलात् ।
असहायोऽश्वमारुह्य जगाम गहनं वनम्
॥२१॥इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ।
ददर्श कुसुमारामभ्राजितं सर्वतोदिशम्
॥२२॥वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ।
शिष्यैः प्रशिष्यैस्तच्छिष्यैस्समन्तात्परिवेष्टितम्
॥२३॥व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ।
तदाश्रमे न बाधन्ते द्विजवर्य्यप्रभावतः
॥२४॥उवास तत्र नृपतिर्महाकारुणिको बुधः ।
सत्कृतो मुनिनाथेन सुवचो भोजनासनैः
॥२५॥एकदा स महाराजश्चिंतामाप दुरत्ययाम् ।
अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः
॥२६॥हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ।
मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना
॥२७॥मादृशश्चैत्रवंशेस्मिन्न कोप्यासीन्महीपतिः ।
किं करोमि क्व गच्छामि कथं राज्यं लभेमहि
॥२८॥अमात्या मंत्रिणश्चैव मामका ये सनातनाः ।
न जाने कं च नृपतिं समासाद्याधुनासते
॥२९॥विनाश्य राज्यमधुना न जाने कां गतिं गताः ।
रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः
॥३०॥मामका ये महाशूरा नृपमन्यं भजन्ति ते ।
पर्वताभा गजा अश्वा वातवद्वेगगामिनः
॥३१॥पूर्वपूर्वार्जितः कोशः पाल्यते तैर्नवाधुना ।
एवं मोहवशं यातो राजा परमधार्मिकः
॥३२॥एतस्मिन्नंतरे तत्र वैश्यः कश्चित्समागतः ।
राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः
॥३३॥दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् ।
इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम्
॥३४॥दृग्भ्यां विमुंचन्नश्रूणि समाधिर्वैश्यपुंगवः ।
प्रत्युवाच महीपालं प्रणयावनतो गिरम्
॥३५॥वैश्य उवाच
समाधिर्नाम वैश्योहं धनिवंशसमुद्भवः ।
पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते
॥३६॥स वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा ।
सोहं पुत्रप्रपौत्राणां कलत्राणां तथैव च
॥३७॥भ्रातॄणां भ्रातृपुत्राणां परेषां सुहृदां तथा ।
न वेद्मि कुशलं सम्यक्करुणासागर प्रभो
॥३८॥राजोवाच
निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः ।
तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत्
॥३९॥वैश्य उवाच
सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् ।
तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः
॥४०॥एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम ।
जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिन्तदा
॥४१॥स वैश्यराजसहितो नरराजः प्रतापवान् ।
प्रणनाम महावीरः शिरसा योगिनां वरम्
॥४२॥बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् ।
भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम्
॥४३॥अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः ।
तथापि हृतराज्यस्य तोषो नैवाभिजायते
॥४४॥अयं च वैश्यस्स्वजनैर्दाराद्यैर्निष्कृतो गृहात् ।
तथाप्येतस्य ममता न निवृत्तिं समश्नुते
॥४५॥किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः ।
मोहेन व्याकुलं जातं महत्येषां हि मूर्खता
॥४६॥ऋषि उवाच
महामाया जगद्धात्री शक्तिरूपा सनातनी ।
सा मोहयति सर्वेषां समाकृष्य मनांसि वै
॥४७॥ब्रह्मादयस्सुरास्सर्वे यन्मायामोहिताः प्रभो ।
न जानन्ति परन्तत्त्वं मनुष्याणां च का कथा
॥४८॥सा सृजत्यखिलं विश्वं सैव पालयतीति च ।
सैव संहरते काले त्रिगुणा परमेश्वरी
॥४९॥यस्योपरि प्रसन्ना सा वरदा कामरूपिणी ।
स एव मोहमत्येति नान्यथा नृपसत्तम
॥५०॥राजोवाच
का सा देवी महामाया या च मोहयतेऽखिलान् ।
कथं जाता च सा देवी कृपया वद मे मुने
॥५१॥ऋषिरुवाच
जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् ।
योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः
॥५२॥तदा द्वावसुरौ जातौ विष्णौ कर्णमलेन वै ।
मधुकैटभनामानौ विख्यातौ पृथिवीतले
॥५३॥प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू ।
दंष्द्राकरालवदनौ भक्षयन्तौ जगन्ति वा
॥५४॥तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् ।
हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ
॥५५॥समालोक्यं तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् ।
शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम्
॥५६॥ब्रह्मोवाच
रक्षरक्ष महामाये शरणागतवत्सले ।
एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके
॥५७॥प्रणमामि महामायां योगनिद्रामुमां सतीम् ।
कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ५८ ।
त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ।
पालिनीं सर्वदेवानां करुणावरुणालयम्
॥५९॥त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ।
सृजत्यवति संसारं काले संहरतीति च
॥६०॥त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ।
तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया
॥६१॥विष्णु माया त्वमेवाम्ब त्वमेव चेतना मता ।
त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च
॥६२॥भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता ।
त्वं लक्ष्मीर्भवने पुंसां पुण्याक्षरप्रवर्तिनाम्
॥६३॥त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि ।
त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता
॥६४॥सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके ।
प्रबोधय जगद्योने नारायणमजं विभुम्
॥६५॥ऋषिरुवाच
ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने ।
महाविद्याजगद्धात्री सर्वविद्याधिदेवता
॥६६॥द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ।
महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी
॥६७॥ततोऽभवद्वियद्वाणी मा भैषीः कमलासन ।
कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ
॥६८॥इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः ।
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः
॥६९॥उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः ।
स ददर्श पुरो दैत्यो मधुकैटभसंज्ञकौ
॥७०॥ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः ।
पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा
॥७१॥महामायाप्रभावेण मोहितो दानवोत्तमौ ।
जजल्पतू रमाकान्तं गृहाण वरमीप्सितम्
॥७२॥नारायण उवाच
मयि प्रसन्नौ यदि वां दीयतामेष मे वरः ।
मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम्
॥७३॥ऋथिरुवाच
एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः ।
आवां जहि न यत्रासौ धरणी पयसाऽ ऽप्लुता
॥७४॥तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् ।
चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः
॥७५॥एवन्ते कथितो राजन्कालिकायास्समुद्भवः ।
महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते
॥७६॥निर्विकारादि साकारा निराकारापि देव्युमा ।
देवानां तापनाशार्थं प्रादुरासीद्युगेयुगे
॥७७॥यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः ।
लीलया सापि भक्तानां गुणवर्णनहेतवे
॥७८॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥