मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय २३

3
उमासंहिता · 23

शुचित्वबाल्याद्यवस्थादुःखवर्णनम्

सनत्कुमार उवाच

शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ।

महत्त्वं च स्वभावस्य समासात्कथयाम्यहम्

॥१॥

शुक्रशोणितसंयोगाद्देहस्संजायते यतः ।

नित्यं विण्मूत्रसंपूर्णस्तेनायमशुचिस्स्मृतः

॥२॥

यथांतर्विष्ठया पूर्णश्शुचिमान्न बहिर्घटः ।

शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः

॥३॥

संप्राप्यातिपवित्राणि पंचगव्यहवींषि चा।

अशुचित्वं क्षणाद्यांति किमन्यदशुचिस्ततः

॥४॥

हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ।

अशुचित्वं प्रयांत्याशु किमन्यदशुचिस्ततः

॥५॥

हे जनाः किन्न पश्यंति यन्निर्याति दिनेदिने ।

स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः

॥६॥

देहस्संशोध्यमानोऽपि पंचगव्यकुशांबुभिः ।

घृष्यमाण इवांगारो निर्मलत्वं न गच्छति

॥७॥

स्रोतांसि यस्य सततं प्रभवंति गिरेरिव ।

कफमूत्रपुरीषाद्यैस्स देहश्शुध्यते कथम्

॥८॥

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।

शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव

॥९॥

सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ।

तथाप्यशुचिभांडस्य न विभ्रश्यति किं करः

॥१०॥

कायस्सुगंधधूपाद्यैर्य न्नेनापि सुसंस्कृतः ।

न जहाति स्वभावं स श्वपुच्छमिव नामितम्

॥११॥

यथा जात्यैव कृष्णोर्थः शुक्लस्स्यान्न ह्युपायतः ।

संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला

॥१२॥

जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि स्वकं मलम् ।

न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम्

॥१३॥

अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ।

शीघ्रं पश्यन्स्वकं दोषं कायस्य न विरज्यते

॥१४॥

स्वदेहस्य विगंधेन न विरज्येत यो नरः ।

विरागकारणं तस्य किमेतदुपदिश्यते

॥१५॥

सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ।

तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत्

॥१६॥

गंधलेपापनोदार्थ शौचं देहस्य कीर्तितम् ।

द्वयस्यापगमाच्छुद्धिश्शुद्धस्पर्शाद्विशुध्यति

॥१७॥

गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ।

आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति

॥१८॥

तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ।

श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति

॥१९॥

अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ।

न स्वर्गो नापवर्गश्च देहनिर्दहनं परम्

॥२०॥

सर्वेण गांगेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ।

आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः

॥२१॥

प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महांतम् ।

प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत

॥२२॥

गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च नित्यम् ।

भावोज्झितास्ते न फलं लभंते तीर्थावगाहाच्च तथैव दानात्

॥२३॥

भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ।

अन्यथाऽऽलिंग्यते कांता भावेन दुहितान्यथा

॥२४॥

मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ।

अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम्

॥२५॥

पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ।

परिष्वक्तोपि यन्नार्य्या भावहीनं न कामयेत्

॥२६॥

नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ।

यदि चिंतां समाधत्ते चित्ते कामादिषु त्रिषु

॥२७॥

गृह्यते तेन भावेन नरो भावाद्विमुच्यते ।

भावतश्शुचि शुद्धात्मा स्वर्गं मोक्षं च विंदति

॥२८॥

भावेनैकात्मशुद्धात्मा दहञ्जुह्वन्स्तुवन्मृतः ।

ज्ञानावाप्तेरवाप्याशु लोकान्सुबहुयाजिनाम्

॥२९॥

ज्ञानामलांभसा पुंसां सद्वैराग्यमृदा पुनः ।

अविद्यारागविण्मूत्रलेपगंधविशोधनम्

॥३०॥

एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ।

त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम्

॥३१॥

ज्ञात्वैवं दोषवद्देहं यः प्राज्ञश्शिथिलो भवेत् ।

देह भोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः

॥३२॥

सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ।

संसारं कदलीसारदृढग्राह्यवतिष्ठते

॥३३॥

एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ।

पुंसामज्ञानदोषेण नानाकार्मवशेन च

॥३४॥

श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।

ममेति परमं दुःखं न ममेति परं सुखम्

॥३५॥

बहवोपीह राजानः परं लोक मितो गताः ।

निर्ममत्वसमेतास्तु बद्धाश्शतसहस्रशः

॥३६॥

गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ।

संमूर्छितेन दुःखेन योनियन्त्रनिपीडनात्

॥३७॥

बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ।

स्पृष्टमात्रेण घोरेण ज्वरस्समुपजायते

॥३८॥

तेन ज्वारेण महता सम्मोहश्च प्रजायते ।

सम्मूढस्य स्मृतिभ्रंशश्शीघ्रं संजायते पुनः

॥३९॥

स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नोऽपूर्वकर्मणः ।

रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि

॥४०॥

रक्तो मूढश्च लोकोऽयं न कार्य्ये सम्प्रवर्तते ।

न चात्मानं विजानाति न परं न च दैवतम्

॥४१॥

न शृणोति परं श्रेयस्सति कर्णेऽपि सन्मुने ।

न पश्यति परं श्रेयस्सति चक्षुषि तत्क्षमे

॥४२॥

समे पथि शनैर्गच्छन् स्खलतीव पदेपदे ।

सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि

॥४३॥

संसारे क्लिश्यते तेन गर्भलोभवशानुगः ।

गर्भस्मृतेन पापेन समुज्झितमतिः पुमान्

॥४४॥

इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ।

तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम्

॥४५॥

ये सत्यस्मिच्छिवे ज्ञाने सर्वकामार्थ साधने ।

न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम्

॥४६॥

अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ।

इच्छन्नपि न शक्नोति वक्तुं कर्त्तुं प्रतिक्रियाम्

॥४७॥

दंतोत्थाने महद्दुःखमल्पेन व्याधिना तथा ।

बालरोगैश्च विविधै पीडा बालग्रहैरपि

॥४८॥

क्वचित्क्षुत्तृट्परीतांगः क्वचित्तिष्ठति संरटन् ।

विण्मूत्रभक्षणाद्यं च मोहाद्बालस्समाचरेत्

॥४९॥

कौमारे कर्णपीडायां मातापित्रोश्च साधनः ।

अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते

॥५०॥

बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः ।

न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम्

॥५१॥

प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात् ।

तदप्राप्ते तु सततं कुतस्सौख्यं तु यौवने

॥५२॥

ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ।

नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम्

॥५३॥

न रात्रौ विंदते निद्रां कामाग्निपरिवेदितः ।

दिवापि च कुतस्सौख्यमर्थोपार्जनचिंतया

॥५४॥

स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ।

ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा

॥५५॥

कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ।

कंडूयनाभितापेन यद्भवेत्स्त्रिषु तद्विदः

॥५६॥

यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ।

तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते

॥५७॥

विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम् ।

तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा

॥५८॥

नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु वा।

नाणुमात्रं सुखं तासु कथितं पंचचूडया

॥५९॥

सम्माननावमानाभ्यां वियोगेनेष्टसंगमात् ।

यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्

॥६०॥

वलीपलितखालित्यैश्शिथिलिकृतविग्रहम् ।

सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम्

॥६१॥

स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा ।

तदेव जरयाग्रस्तमनयोरपि न प्रियम्

॥६२॥

अपूर्ववत्स्वमात्मानं जरया परिवर्तितम् ।

यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः

॥६३॥

जराभिभूतः पुरुषः पुत्रीपुत्रादिबांधवैः ।

आसक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते

॥६४॥

धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः ।

अशक्तस्साधितुं तस्माद्युवा धर्मं समाचरेत्

॥६५॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहा शुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥