महापातकवर्णनम्
व्यास उवाच
ये पापनिरता जीवा महानरकहेतवः ।
भगवंस्तान्समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते
॥१॥सनत्कुमार उवाच
ये पापनिरता जीवा महानरकहेतवः ।
ते समासेन कथ्यंते सावधानतया शृणु
॥२॥परस्त्रीद्रव्यसंकल्पश्चेतसाऽनिष्टचिंतनम् ।
अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम्
॥३॥तु. महाभारतम् अनुशासन १३.२ अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ।
परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम्
॥४॥अभक्ष्यभक्षणं हिंसा मिथ्याकार्य्य निवेशनम् ।
परस्वानामुपादानं चतुर्द्धा कर्म कायिकम्
॥५॥इत्येतद्वा दशविधं कर्म प्रोक्तं त्रिसाधनम् ।
अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम्
॥६॥ये द्विषंति महादेवं संसारार्णवतारकम् ।
सुमहत्पातकं तेषां निरयार्णवगामिनाम्
॥७॥ये शिवज्ञानवक्तारं निन्दंति च तपस्विनम् ।
गुरून्पितॄनथोन्मत्तास्ते यांति निरयार्णवम्
॥८॥शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।
देवद्रव्यापहरणं द्विजद्रव्यविनाशनम्
॥९॥हरंति ये च संमूढाश्शिवज्ञानस्य पुस्तकम् ।
महांति पातकान्याहुरनन्तफलदानि षट्
॥१०॥नाभिनन्दंति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ।
न नमंत्यर्चितं दृष्ट्वा शिवलिंगं स्तुवंति न
॥११॥यथेष्टचेष्टा निश्शंकास्संतिष्ठंते रमंति च ।
उपचारविनिर्मुक्ताश्शिवाग्रे गुरुसन्निधौ
॥१२॥स्थानसंस्कारपूजां च ये न कुर्वंति पर्वसु ।
विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः
॥१३॥ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ।
असंपूज्य शिवज्ञानं येऽधीयंते लिखंति च
॥१४॥अन्यायतः प्रयच्छंति शृण्वन्त्युच्चारयंति च ।
विक्रीडंति च लोभेन कुज्ञाननियमेन च
॥१५॥असंस्कृतप्रदेशेषु यथेष्टं स्वापयंति च ।
शिवज्ञानकथाऽऽक्षेपं यः कृत्वान्यत्प्रभाषते
॥१६॥न ब्रवीति च यः सत्यं न प्रदानं करोति च ।
अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च
॥१७॥गुरुपूजामकृत्वैव यश्शास्त्रं श्रोतुमिच्छति ।
न करोति च शुश्रूषामाज्ञां च भक्तिभावतः
॥१८॥नाभिनन्दंति तद्वाक्यमुत्तरं च प्रयच्छति ।
गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च
॥१९॥गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा ।
वैरिभिः परिभूतं वा यस्संत्यजति पापकृत्
॥२०॥तद्भार्य्यापुत्रमित्रेषु यश्चावज्ञां करोति च ।
एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः
॥२१॥एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ।
सुमहत्पातकान्याहुश्शिवनिन्दासमानि च
॥२२॥ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
महापातकिनस्त्वेते तत्संयोगी च पंचमः
॥२३॥क्रोधाल्लोभाद्भयाद्द्वेषाद्ब्राह्मणस्य वधे तु यः ।
मर्मांतिकं महादोषमुक्त्वा स ब्रह्महा भवेत्
॥२४॥ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ।
निर्द्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत्
॥२५॥यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ।
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः
॥२६॥मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ।
गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत्
॥२७॥गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ।
यस्समाचरते विप्र तमाहुर्ब्रह्मघातकम्
॥२८॥देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ।
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम्
॥२९॥देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ।
ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः
॥३०॥अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ।
यदि त्यजति यो मूढः सुरापानस्य तत्समम्
॥३१॥यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा ।
संत्यागः पञ्चयज्ञानां सुरापानस्य तत्समम्
॥३२॥पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ।
आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम्
॥३३॥वने निरपराधानां प्राणिनां चापघातनम् ।
द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत्
॥३४॥गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ।
इति पापानि घोराणि ब्रह्महत्यासमानि च
॥३५॥दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ।
गोभूरजतवस्त्राणामौषधीनां रसस्य च
॥३६॥चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम् ।
विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः
॥३७॥हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ।
कन्यानां वरयोग्यानामदानं सदृशे वरे
॥३८॥पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।
कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम्
॥३९॥सवर्णायाश्च गमनं गुरुभार्य्यासमं स्मृतम् ।
महापापानि चोक्तानि शृणु त्वमुपपातकम्
॥४०॥इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां महापातकवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥