मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ४६

3
उमासंहिता · 46

महालक्ष्म्यवतारवर्णनम्

ऋषिरुवाच

आसीद्रंभासुरो नाम दैत्यवंशशिरोमणिः ।

तस्माज्जातो महातेजा महिषो नाम दानवः

॥१॥

स संग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ।

चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः

॥२॥

पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ।

ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी

॥३॥

तत्र गत्वा सुरास्सर्वे नत्वा शंकरकेशवौ ।

स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः

॥४॥

भगवन्तौ वयं सर्वे महिषेण दुरात्मना ।

उज्जासिताश्च स्वर्लोकान्निर्जित्य समरांगणे

॥५॥

भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहि शं क्वचित् ।

कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः

॥६॥

सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ।

इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः

॥७॥

एतेषामपरेषां च विधेयं कर्म सोसुरः ।

स्वयं करोति पापात्मा दैत्यपक्ष भयंकर

॥८॥

तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ।

वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू

॥९॥

इति देववचः श्रुत्वा दामोदरसतीश्वरौ ।

चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ

॥१०॥

ततोतिकोपपूर्णस्य विष्णोश्शंभोश्च वक्त्रतः ।

तथान्येषां च देवानां शरीरान्निर्गतं महः

॥११॥

अतीव महसः पुंजं ज्वलन्तं दशदिक्षु च ।

अपश्यंस्त्रिदशास्सर्वे दुर्गा ध्यानपरायणाः

॥१२॥

सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ।

संघीभूयाभवन्नारी साक्षान्महिषमर्दिनी

॥१३॥

शंभुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ।

याम्येन बाला अभवन्वैष्णवेन च बाहवः

॥१४॥

चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत ।

मध्यमे न्द्रेण जंघोरू वारुणेन बभूवतुः

॥१५॥

भूतेजसा नितंबोभूद्ब्राह्मेण चरणद्वयम् ।

आर्केण चरणांगुल्यः करांगुल्यश्च वासवात्

॥१६॥

कुबेरतेजसा नासा रदनाश्च प्रजापतेः ।

पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम्

॥१७॥

आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ।

तेजसां संभवः पद्मालया सा परमेश्वरी

॥१८॥

ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ।

तामालोक्य सुरास्सर्वे परं हर्षं प्रपेदिरे

॥१९॥

निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ।

सायुधान्तां शिवां कर्तुं मनः सन्दधिरे सुराः

॥२०॥

ततः शूलं महेशानो महेशान्यै समर्पयत ।

चक्रं च कृष्णो भगवाञ्च्छंखं पाशं च पाशभृत

॥२१॥

शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ।

बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः

॥२२॥

यमो ददौ कालदण्डमक्षमालां प्रजापतिः ।

ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः

॥२३॥

कालः खड्गन्ददौ तस्यै फलकं च समुज्वलम् ।

क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे

॥२४॥

चूडामणिं कुण्डले च कटकानि तथैव च ।

अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरो

॥२५॥

ग्रैवेयकमंगुलीषु समस्तास्वंगुलीयकम् ।

विश्वकर्मा च परशुं ददौ तस्यै मनोहरम्

॥२६॥

अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ।

सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ

॥२७॥

ददौ सिंहं च हिमवान्रत्नानि विविधानि च ।

सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत्

॥२८॥

शेषश्च भोगिनां नेता विचित्रर चनाञ्चितम् ।

ददौ तस्यै नागहारं नानास्त्रमणिगुंफितम्

॥२९॥

एतैश्चान्यैस्सुरैर्देवी भूषणैरायुधैस्तथा ।

सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः

॥३०॥

तस्या भीषणनादेन पूरिता च नभःस्थली ।

प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम्

॥३१॥

चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह ।

जयशब्दस्ततो देवैरकारि महिषार्दितैः

॥३२॥

ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् ।

तुष्टुवुस्ते सुरास्सर्वे भक्तिगद्गदया गिरा

॥३३॥

लोकं संक्षुब्धमालोक्य देवतापरिपन्थिनः ।

सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः

॥३४॥

महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः ।

स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा

॥३५॥

एतस्मिन्नन्तरे तत्र महिषासुरपालिताः ।

समाजग्मुर्महावीराः कोटिशो धृतहेतयः

॥३६॥

चिक्षुरश्चामरोदग्रौ करालोद्धतबाष्कलाः ।

ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च

॥३७॥

दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः ।

एते चान्ये च बहवः शूरा युद्धविशा रदाः

॥३८॥

युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः ।

इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः

॥३९॥

अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः ।

महामायाप्रभावेण विफला अभवन् क्षणात्

॥४०॥

ततो जघान सा देवी चिक्षुरप्रमुखानरीन् ।

सगणान्गदया बाणैः शूलशक्तिपरश्वधैः

॥४१॥

एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः ।

देवीनिःश्वाससंभूतान्भावयामास तान्गणान्

॥४२॥

अताडयत्सरैः काश्चित्काश्चिच्छृङ्गद्वयेन च ।

लांगूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः

॥४३॥

इत्थं देवीगणा न्हत्वाभ्यधावत्सोऽसुराधिपः ।

सिंहं मारयितुन्देव्यास्ततोऽसौ कुपिताऽभवत्

॥४४॥

कोपात्सोपि महावीर्यः खुरकुट्टितभूतलः ।

शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च

॥४५॥

वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः ।

आकाशतो महीमध्ये निपेतुर्नृपसत्तम

॥४६॥

शृंगभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ।

लांगूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत्

॥४७॥

एवं क्रुद्धं समालोक्य महिषासुरमम्बिका ।

विदधे तद्वधोपायं देवानामभयंकरी

॥४८॥

ततः पाशं समुत्थाय क्षिप्त्वा तस्योपरी श्वरी ।

बबन्ध महिषं सोऽपि रूपन्तत्याज माहिषम्

॥४९॥

ततः सिंहो बभूवाशु मायावी तच्छिरोम्बिका ।

यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह

॥५०॥

सचर्म्मासिकरं तं च देवी बाणैरताडयत् ।

ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया

॥५१॥

ततोऽस्य च करं देवी चकर्त स्वमहासिना ।

अधारि च पुना रूपं स्वकीयं तेन रक्षसा

॥५२॥

तदैव क्षोभयामास त्रैलोक्यं सचराचरम् ।

ततः क्रुद्धा महामाया चण्डिका मानविक्रमा

॥५३॥

पपौ पुनःपुनः पानं जहासोद्भ्रान्तलोचना ।

जगर्ज चासुरः सोऽपि बलवीर्यमदो द्धतः

॥५४॥

तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः ।

सा च बाणावलीघातैश्चूर्णयामास सत्वरम्

॥५५॥

वारुणीमद्रसं जातमुखरागाऽऽकुलेन्द्रिया ।

प्रोवाच परमेशानी मेघगंभीरया गिरा

॥५६॥

देव्युवाच

रे मूढ रे हतप्रज्ञ व्यर्थ किं कुरुषे हठम् ।

न मदग्रेऽसुराः केपि स्थास्नवो जगतीत्रये

॥५७॥

ऋषि रुवाच

एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी ।

पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साऽभिनत्

॥५८॥

ततस्तच्चरणाक्रान्तस्स स्वकीयमुखात्ततः ।

अर्द्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः

॥५९॥

अर्द्धनिष्क्रान्त एवासौ युध्यमानो महाधमः ।

महासिना शिरो भित्त्वा न्यपाति धरणीतले

॥६०॥

हाहाशब्दं समुच्चार्य्यावाङ्मुखास्तद्गणास्ततः ।

पलायन्त रणाद्भीतास्त्राहित्राहीति वादिनः

॥६१॥

तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः ।

गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः

॥६२॥

एवन्ते कथितो राजन्महालक्ष्म्याः समुद्भवः ।

सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा

॥६३॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥