मनुनवपुत्रवंशवर्णनम्
सूत उवाच
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ।
पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः
॥१॥इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः
॥२॥अकरोत्पुत्त्रकामस्तु मनुरिष्टिं प्रजापति ।
अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुंगवः
॥३॥सा हि दिव्यांबरधरा दिव्याभरणभूषिता।
दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता
॥४॥तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ।
अनुगच्छत्व मामेति तमिडा प्रत्युवाच ह
॥५॥इडोवाच
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।
मित्रावरुणयोरंशैर्जातास्मि वदतां वर
॥६॥तयोस्सकाशं यास्यामि न मे धर्मे रुचिर्भवेत् ।
एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः
॥७॥गत्वांतिकं वरारोहा प्रांजलिर्वाक्यमब्रवीत् ।
अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी
॥८॥आगता भवतोरंति ब्रूतं किं करवाणि वाम् ।
अन्यान्पुत्रान्सृज विभो तैर्वंशस्ते भविष्यति
॥९॥सूत उवाच
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम् ।
मित्रावरुणानामानौ मुनी ऊचतुरादरात्
॥१०॥मित्रावरुणावूचतुः
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि
॥११॥आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ।
मनोर्वशकरः पुत्रस्त्वमेव च भविष्यसि
॥१२॥सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ।
जगत्प्रियो धर्मशीलौ मनुवंशविवर्द्धनः
॥१३॥सूत उवाच
निवृत्ता सा तु तच्छ्रुत्वा गच्छंती पितुरंतिके ।
बुधेनांतरमासाद्य मैधुनायोपमंत्रिता
॥१४॥सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ।
पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशी पतिरुन्नतः
॥१५॥जनयित्वा च सा तत्र पुरूरवसमादरात् ।
पुत्रं शिवप्रसादात्तु पुनस्सुद्युम्नतां गतः
॥१६॥सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।
उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान्
॥१७॥उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ।
दिक्पूर्वा मुनि शार्दूल गयस्य तु गया स्मृताः
॥१८॥प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ।
दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीं मनुः
॥१९॥इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान् ।
वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः
॥२०॥प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोथ ततो ददौ ।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः
॥२१॥मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ।
नरिष्यंताच्छकाः पुत्रा नभगस्य सुतो ऽभवत्
॥२२॥अंबरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ।
शर्यातिर्मिथुनं त्वासीदानर्तो नाम विश्रुतः
॥२३॥पुत्रस्सुकन्या कन्या च या पत्नी च्यवनस्य हि ।
आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः
॥२४॥आनर्तविषये यस्य पुरी नाम कुशस्थली ।
महादिव्या सप्तपुरीमध्ये या सप्तमी मता
॥२५॥तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ।
तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः
॥२६॥ककुद्मिनस्तु संजाता रेवती नाम कन्यका ।
महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा
॥२७॥प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ।
ब्रह्मलोके विधेस्सम्यक्सर्वाधीशो जगाम ह
॥२८॥आवर्तमाने गांधर्वे स्थितो लब्धक्षणः क्षणम् ।
शुश्राव तत्र गांधर्वं नर्तने ब्रह्मणोंऽतिके
॥२९॥मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ।
न किंचिद्बुबुधे राजा ककुद्मी मुनयस्स तु
॥३०॥तदासौ विधिमा नम्य स्वाभिप्रायं कृतांजलिः ।
न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने
॥३१॥तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ।
ककुद्मिनं महाराजं समाभाष्य समब्रवीत्
॥३२॥ब्रह्मोवाच
शृणु राजन्रैभ्यसुत ककुद्मिन्पृथिवपिते ।
मद्वचः प्रीतितस्सत्यं प्रवक्ष्यामि विशेषतः
॥३३॥कालेन संहृतास्ते वै वरा ये ते कृता हृदि ।
न तद्गोत्रं हि तत्रास्ति कालस्सर्वस्य भक्षकः
॥३४॥त्वत्पुर्य्यपि हता पुण्यजनैस्सा राक्षसैर्नृप ।
अष्टाविंशद्द्वापरेऽद्य कृष्णेन निर्मिता पुनः
॥३५॥कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ।
भोजवृष्ण्यंधकैर्गुप्ता वासुदेवपुरोगमैः
॥३६॥तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ।
बलदेवाय देहि त्वमिमां स्वतनयां नृप
॥३७॥सूत उवाच
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ।
गतान्बहून्युगाञ्ज्ञात्वा विस्मितः कन्यया युतः
॥३८॥ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ।
कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम्
॥३९॥ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ।
शिवमाराधयामास स नृपस्तपसि स्थितः
॥४०॥ऋषय ऊचुः
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ।
युवैवागान्मर्त्यलोकमेतन्नः संशयो महान्
॥४१॥सूत उवाच
न जरा क्षुत्पिपासा वा विकारास्तत्र संति वै ।
अपमृत्युर्न केषांचिन्मुनयो ब्रह्मणोंऽतिके
॥४२॥अतो न राजा संप्राप जरां मृत्युं च सा सुता ।
स युवैवागतस्तत्र संमंत्र्य तनयावरम्
॥४३॥गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ।
विवाहं कारयामास कन्यायाः स बलेन हि
॥४४॥तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभो ।
कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः
॥४५॥अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ।
क्षत्रिया दिक्षु सर्वासु गता हृष्टास्सुधार्मिकाः
॥४६॥इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ।
मानवानां हि संक्षेपाच्छृणुतादरतो द्विजाः
॥४७॥नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ।
स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः
॥४८॥धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः
॥४९॥नृगो यो मनुपुत्रस्तु महादाता विशेषतः ।
नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा
॥५०॥गोदातव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ।
कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः
॥५१॥तस्येकोभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ।
इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ।
वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।
पालयामास गा यत्तो रात्र्यां वीरासनव्रतः
॥५३॥स एकदाऽऽगतं गोष्ठे व्याघ्रं गा हिंसितुं बली ।
श्रुत्वा गोकदनं बुद्धो हंतुं तं खड्गधृग्ययौ
॥५४॥अजानन्नहनद्बभ्रोश्शिरश्शार्दूलशंकया ।
निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम्
॥५५॥मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ।
रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः
॥५६॥व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ।
अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत्
॥५७॥श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ।
अकामतोविचार्य्येति शूद्रो भव न क्षत्रियः
॥५८॥एवं शप्तस्तु गुरुणा कुलाचार्य्येण कोपतः ।
निस्सृतश्च पृषध्रस्तु जगाम विपिनं महत्
॥५९॥निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान् ।
वनाग्नौ दग्धदेहश्च जगाम परमां गतिम्
॥६०॥कविः पुत्रो मनोः प्राज्ञश्शिवानुग्रहतोऽभवत् ।
भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम्
॥६१॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनंनाम षट्त्रिंशो ऽध्यायः ॥ ३६ ॥