स्त्रीस्वभाववर्णनम्
व्यास उवाच
कुत्सितं योषिदर्थं यत्संप्रोक्तं पंचचूडया ।
तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने
॥१॥सनत्कुमार उवाच
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ।
यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम्
॥२॥स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने ।
तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः
॥३॥अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
नारदस्य च संवादं पुंश्चल्या पंचचूडया
॥४॥लोकान्परिचरन्धीमान्देवर्षिर्नारदः पुरा ।
ददर्शाप्सरसं बालां पंचचूडामनुत्तमाम्
॥५॥पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः ।
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे
॥६॥एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा ।
विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम्
॥७॥नारद उवाच
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे
॥८॥सनत्कुमार उवाच
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।
प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम्
॥९॥पंचचूडोवाच
मुने शृणु न शक्या स्त्री सती वै निंदितुं स्त्रिया ।
विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः
॥१०॥न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ।
इत्युक्त्वा साऽभवत्तूष्णीं पंचचूडाप्सरोवरा
॥११॥अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ।
प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया
॥१२॥नारद उवाच
मृषावादे भवेद्दोषस्सत्ये दोषो न विद्यते ।
इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे
॥१३॥सनत्कुमार उवाच
इत्युक्ता सा कृतमती रभसा चारुहासिनी ।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे
॥१४॥पञ्चचूडोवाच
कुलीना नाथवंत्यश्च रूपवंत्यश्च योषितः ।
मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद
॥१५॥न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति हि ।
स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह
॥१६॥समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ।
यतीनन्तरमासाद्य नालं नार्य्यः प्रतीक्षितुम्
॥१७॥असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे
॥१८॥स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छति योषितः
॥१९॥अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठंति भर्तृषु
॥२०॥नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ।
सुरूपं वा कुरूपं वा पुमांसमुपभुंजते
॥२१॥न भयादथ वाक्रोशान्नार्थहेतोः कथंचन ।
न ज्ञातिकुलसम्बन्धास्त्रियस्तिष्ठंति भर्तृषु
॥२२॥यौवने वर्तमानानामिष्टाभरणवाससाम् ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः
॥२३॥या हि शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने
॥२४॥पंगुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने
॥२५॥यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु
॥२६॥अलाभात्पुरुषाणां च भयात्परिजनस्य च ।
वधबन्धभयाच्चैव ता भग्नाशा हि योषितः
॥२७॥चलस्वभाव दुश्चेष्टा दुर्गाह्या भवतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात्
॥२८॥नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि ।
नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः
॥२९॥इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः
॥३०॥सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् ।
योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम्
॥३१॥कायानामपि दातारं कर्त्तारं मानसांत्वयोः ।
रक्षितारं न मृष्यंति भर्तारं परमं स्त्रियः
॥३२॥न कामभोगात्परमान्नालंकारार्थसंचयात् ।
तथा हितं न मन्यन्ते यथा रतिपरिग्रहात्
॥३३॥अन्तकश्शमनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः
॥३४॥यतश्च भूतानि महांति पंच यतश्च लोको विहितो विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद
॥३५॥सनत्कुमार उवाच
इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः ।
तथ्यं मत्वा ततस्तद्वै विरक्तोभूद्धि तासु च
॥३६॥इत्युक्तः स्त्री स्वभावस्ते पंचचूडोक्त आदरात् ।
वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि
॥३७॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥