मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय ३८

3
उमासंहिता · 38

सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया

सूत उवाच

सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ।

विश्वामित्रकलत्रं च पोषयामास वै तदा

॥१॥

हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ।

विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने

॥२॥

तीर्थं गां चैव रात्रं च तथैवांतःपुरं मुनिः ।

याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत

॥३॥

सत्यव्रतस्य वाक्याद्वा भाविनोर्थस्य वै बलात् ।

वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः

॥४॥

पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।

न वारयामास मुनिर्वसिष्ठः कारणेन च

॥५॥

पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे ।

न च सत्यव्रतस्थस्य तमुपांशुमबुद्ध्यत

॥६॥

तस्मिन्स परितोषाय पितुरासीन्महात्मनः ।

कुलस्य निष्कृतिं विप्र कृतवान्वै भवेदिति

॥७॥

न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ।

अभिषेक्ष्याम्यहं पुत्रमस्यां नैवाब्रवीन्मुनिः

॥८॥

स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली ।

अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः

॥९॥

सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ।

तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः

॥१०॥

दाशधर्मगतो राजा तां जघान स वै मुने ।

स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम्

॥११॥

भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ।

उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः

॥१२॥

वसिष्ठ उवाच

पातयेयमहं क्रूरं तव शंकुमयोमयम् ।

यदि ते द्वाविमौ शंकू नश्येतां वै कृतौ पुरा

॥१३॥

पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।

अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः

॥१४॥

त्रिशंकुरिति होवाच त्रिशंकुरिति स स्मृतः ।

विश्वामित्रस्तु दाराणामागतो भरणे कृते

॥१५॥

तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशंकवे ।

छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः

॥१६॥

अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ।

अभिषिच्य पितृ राज्ये याजयामास तं मुनिः

॥१७॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।

सशरीरं तदा तं तु दिवमारोह यत्प्रभुः

॥१८॥

तस्य सत्यरथा नाम भार्या केकयवंशजा ।

कुमारं जनयामास हरिश्चन्द्रमकल्मषम्

॥१९॥

स वै राजा हरिश्चन्द्रो त्रैशंकव इति स्मृतः ।

आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः

॥२०॥

हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ।

रोहितस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्

॥२१॥

हैहयास्तालजंघाश्च निरस्यंति स्म तं नृपम् ।

नात्मार्थे धार्मिको विप्रः स हि धर्मपरोऽभवत

॥२२॥

सगरं ससुतं बाहुर्जज्ञे सह गरेण वै ।

और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः

॥२३॥

आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः ।

जिगाय पृथिवीं हत्वा तालजंघान्सहैहयान

॥२४॥

शकान्बहूदकांश्चैव पारदांतगणान्खशान् ।

सुधर्मं स्थापयामास शशास वृषतः क्षितिम्

॥२५॥

शौनक उवाच

स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ।

जितवानेतदाचक्ष्व विस्तरेण हि सूतज

॥२६॥

सूत उवाच

पारीक्षितेन संपृष्टो वैशंपायन एव च ।

यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने

॥२७॥

पारीक्षितो उवाच

कथं स सगरो राजा गरेण सहितो मुने ।

जातस्स जघ्निवान्भूयानेतदाख्यातुमर्हसि

॥२८॥

वैशम्पायन उवाच

बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ।

हैहयैस्तालजंघैश्च शकैस्सार्द्धं विशांपते

॥२९॥

यवनाः पारदाश्चैव काम्बोजाः पाह्नवास्तथा ।

बहूदकाश्च पंचैव गणाः प्रोक्ताश्च रक्षसाम्।

एते पंच गणा राजन्हैहयार्थेषु रक्षसाम् ।

कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात्

॥३१॥

हृतराज्यस्ततो विप्राः स वै बाहुर्वनं ययौ ।

पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत्

॥३२॥

पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ।

सपत्न्या च गरस्तस्यै दत्तः पूर्वं सुतेर्ष्यया

॥३३॥

सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ।

और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत्

॥३४॥

तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ।

सिषेवे मुनिवर्यं तं स्मरन्ती शंकरं हृदा

॥३५॥

एकदा खलु तद्गर्भो गरेणैव सह च्युतः ।

सुमुहूर्त्ते सुलग्ने च पंचोच्चग्रहसंयुते

॥३६॥

तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ।

व्यजायत महाबाहुस्सगरो नाम पार्थिवः

॥३७॥

और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।

अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत्

॥३८॥

आग्नेयं तं महाभागो ह्यमरैरपि दुस्सहम् ।

जग्राह विधिना प्रीत्या सगरोसौ नृपोत्तमः

॥३९॥

स तेनास्त्रबलेनैव बलेन च समन्वितः ।

हैहयान्विजघानाशु संकुद्धोऽस्त्रबलेन च

॥४०॥

आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ।

धर्मं संस्थापयामास सगरोऽसौ महीतले

॥४१॥

ततश्शकास्सयवनाः काम्बोजाः पाह्नवास्तथा ।

हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः

॥४२॥

वसिष्ठो वंचनां कृत्वा समयेन महाद्युतिः ।

सगरं वारयामास तेषां दत्त्वाभयं नृपम्

॥४३॥

सगरस्स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च ।

धर्मं जघान तेषां वै केशान्यत्वं चकार ह

॥४४॥

अर्द्धं शकानां शिरसो मुंडं कृत्वा व्यसर्जयत् ।

यवनानां शिरस्सर्वं कांबोजानां तथैव च

॥४५॥

पारदा मुंडकेशाश्च पाह्नवाश्श्मश्रुधारिणः ।

निस्स्वाध्यायवषट्काराः कृतास्तेन महात्मना

॥४६॥

जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ।

सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुराः

॥४७॥

स धर्मविजयी राजा विजित्वेमां वसुंधराम् ।

अश्वं संस्कारयामास वाजिमेधाय पार्थिवः

॥४८॥

तस्य चास्यतेस्सोऽश्वस्समुद्रे पूर्वदक्षिणे ।

गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने

॥४९॥

देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ।

वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः

॥५०॥

महाराजोऽथ सगरस्तद्धयान्वेषणाय च ।

स तं देशं तदा पुत्रैः खानयामास सर्वतः

॥५१॥

आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ।

तमादिपुरुषं देवं कपिलं विश्वरूपिणम्

॥५२॥

तस्य चक्षुस्समुत्थेन वह्निना प्रतिबुध्यतः ।

दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः

॥५३॥

हर्षकेतुस्सुकेतुश्च तथा धर्मरथोपरः ।

शूरः पंचजनश्चैव तस्य वंशकरा नृपाः

॥५४॥

प्रादाच्च तस्मै भगवान् हरिः पंचवरान्स्वयम् ।

वंशं मेधां च कीर्तिञ्च समुद्रं तनयं धनम्

॥५५॥

सागरत्वं च लेभे स कर्मणा तस्य तेन वै ।

तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्

॥५६॥

आजहाराश्वमेधानां शतं स तु महायशाः ।

ईजे शंभुविभूतीश्च देवतास्तत्र सुव्रताः

॥५७॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥