उपमन्यूपदेशः
सनत्कुमार उवाच
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ।
जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम्
॥१॥श्रीकृष्ण उवाच
उपमन्यो मुने तात कृपां कुरु ममोपरि ।
ये ये शिवं समाराध्य कामानापुश्च तान्वद
॥२॥सनत्कुमार उवाच
इत्याकर्ण्योपमन्युस्स मुनिश्शैववरो महान् ।
कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः
॥३॥उपमन्युरुवाच
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ।
तांस्तान्भक्तान्प्रवक्ष्यामि शृणु त्वं वै यदूद्वह
॥४॥शर्वात्सर्वामरैश्वर्य्यं हिरण्यकशिपुः पुरा ।
वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात्
॥५॥तस्याऽथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ।
स च शर्ववरादिन्द्रं वर्षायुतमधोनयत्
॥६॥विष्णुचक्रं च तद्धोरं वज्रमाखण्डलस्य च ।
शीर्णं पुराऽभवत्कृष्ण तदंगेषु महाहवे
॥७॥न शस्त्राणि वहंत्यंगे धर्मतस्तस्य धीमतः ।
ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि
॥८॥अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।
देवदत्तवरा जघ्नुरसुरेन्द्रास्सुरान्भृशम्
॥९॥तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरता मदात् ।
शतवर्षसहस्राणि सर्वलोकेश्वरो भवः
॥१०॥तथा पुत्रसहस्राणामयुतं च ददौ शिवः ।
मम चानुचरो नित्यं भविष्यस्यब्रवीदिति
॥११॥कुशद्वीपे शुभं राज्यमददाद्भगवान्भवः ।
स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः
॥१२॥धात्रा सृष्टश्शतमखो दैत्यो वर्षशतं पुरा ।
तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात्
॥१३॥याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः ।
आराध्य स महादेवं प्राप्तवाञ्ज्ञानमुत्तमम्
॥१४॥वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः ।
सोऽपि शंकरमाराध्य त्रिकालज्ञानमाप्तवान्
॥१५॥इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ।
लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम्
॥१६॥आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्द्दिनः ।
शर्वं समकपालेन देवैरिष्ट्वा प्रवर्तितम्
॥१७॥अत्रेर्भार्य्या चानसूया त्रीणि वर्षशतानि च ।
मुशलेषु निराहारा सुप्त्वा शर्वात्ततस्सुतान्
॥१८॥दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ।
गंगां प्रवर्तयामास चित्रकूटे पतिव्रता
॥१९॥विकर्णश्च महादेवं तथा भक्तसुखावहम् ।
प्रसाद्य महतीं सिद्धिमाप्तवान्मधुसूदन
॥२०॥चित्रसेनो नृपश्शंभुं प्रसाद्य दृढभक्तिमान् ।
समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम्
॥२१॥श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ।
जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान्
॥२२॥चित्राङ्गदो नृपसुतस्सीमन्तिन्याः पतिर्हरे ।
शिवानुग्रहतो मग्नो यमुनायां मृतो न हि
॥२३॥स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ।
आयातः स्वगृहं प्रीतो नानाधनसमन्वितः
॥२४॥सीमंतिनी प्रिया तस्य सोमव्रतपरायणा ।
शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम्
॥२५॥तत्प्रभावाद्व्रते तस्मिन्नेको द्विजसुतः पुरा ।
कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात्
॥२६॥चंचुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ।
श्रुत्वा धर्मकथां शंभोर्भक्त्या प्राप परां गतिम्
॥२७॥स्वस्त्र्यनुग्रहतः पापी बिंदुगो चंचुकापतिः ।
श्रुत्वा शिवपुराणं स सद्गतिं प्राप शांकरीम्
॥२८॥पिंगला गणिका ख्याता मदराह्वो द्विजाधमः ।
शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ
॥२९॥महानन्दाभिधा कश्चिद्वेश्या शिवपदादृता ।
दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम्
॥३०॥कैकेयी द्विजबालाः च सादराह्वा शिवव्रता ।
परमं हि सुखं प्राप शिवेशव्रतधारणात्
॥३१॥विमर्षणश्च नृपतिश्शिवभक्तिं विधाय वै ।
गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा
॥३२॥दुर्जनश्च नृपः पापी बहुस्त्रीलंपटः खलः ।
शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु
॥३३॥सस्त्रीकश्शबरो नाम्ना शंकरश्च शिवव्रती ।
चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम्
॥३४॥सौमिनी नाम चाण्डाली संपूज्याज्ञानतो हि सा ।
लेभे शैवीं गतिं कृष्ण शंकरानुग्रहात्परात्
॥३५॥महाकालाभिधो व्याधो किरातः परहिंसकः ।
समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम्
॥३६॥दुर्वासा मुनिशार्दूलश्शिवानुग्रहतः पुरा ।
तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम्
॥३७॥कौशिकश्च समाराध्य शंकरं लोक शंकरम् ।
ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः
॥३८॥शिवमभ्यर्च्य सद्भक्त्या विरंचिश्शैवसत्तमः ।
अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः
॥३९॥मार्कण्डेयो मुनिवरश्चिरंजीवी महाप्रभुः ।
शिवभक्तवरः श्रीमाञ्शिवानुग्रहतो हरे
॥४०॥देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा ।
शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः
॥४१॥बलिपुत्रो महाशैवश्शिवानुग्रहतो वशी ।
बाणो बभूव ब्रह्माण्डनायकस्सकलेश्वरः
॥४२॥हरिश्शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः ।
शिवानुग्रहतोऽभूवंस्तथा रामो हि शांकरः
॥४३॥कणादो भार्गवश्चैव गुरुर्गौतम एव च ।
शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वरा
॥४४॥शाकल्यश्शंसितात्मा च नववर्षशातान्यपि ।
भवमाराधयामास मनोयज्ञेन माधव
॥४५॥तुतोष भगवानाह ग्रंथकर्ता भविष्यसि ।
वत्साक्षय्या च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति
॥४६॥अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ।
भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः
॥४७॥इत्येवं शंकरात्प्राप वरं मुनिवरस्स वै ।
त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन
॥४८॥सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे ।
इह तेन तपस्तप्तं षष्टिवर्षशतानि च
॥४९॥तमाह भगवान्रुद्रस्साक्षात्तुष्टोस्मि तेऽनघ ।
ग्रंथकृल्लोकविख्यातो भवितास्यजरामरः
॥५०॥एवंविधो महादेवः पुण्यपूर्वतरैस्ततः ।
समर्च्चितश्शुभान्कामान्प्रददाति यथेप्सितान्
॥५१॥एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः ।
ये संति तान्न शक्नोमि ह्यपि वर्षशतैरपि
॥५२॥इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥