ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद्ब्राह्मणो भवेत्
व्यास उवाच
ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद्ब्राह्मणो भवेत् ।
ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः
॥१॥पद्भ्यां शूद्रस्समुत्पन्न इति तस्य मुखाच्छ्रुतिः ।
किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद
॥२॥सनत्कुमार उवाच
दुष्कृतेन तु कालेय स्थानाद्भ्रश्यन्ति मानवाः ।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः
॥३॥यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते ।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते
॥४॥अधर्मसेवनान्मूढस्तथैव परिवर्तते ।
जन्मान्तरसहस्राणि तमस्याविशते यतः
॥५॥तस्मात्प्राप्य परं स्थानं प्रमाद्यन्न तु नाशयेत् ।
स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः
॥६॥ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते ।
भोज्याभोज्यं न जानाति स पुमान्क्षत्रियो भवेत्
॥७॥कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते ।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत्
॥८॥शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् ।
यथावत्परिचर्य्यां तु त्रिषु वर्णेषु नित्यदा
॥९॥कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् ।
यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि
॥१०॥अग्निहोत्रमुपादाय शेषान्न कृतभोजनः ।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः
॥११॥क्षत्त्रियो जायते यज्ञैसंस्कृतैरात्तदक्षिणैः ।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा
॥१२॥आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् ।
ऋतुकालाभिगामी च स्वभार्य्याधर्मतत्परः
॥१३॥सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति ।
गोब्राह्मणात्मनोऽर्थं हि संग्रामाभिहतो भवेत्
॥१४॥तेनाग्निमन्त्रपूतात्मा क्षत्त्रियो ब्राह्मणो भवेत् ।
विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ।
स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः ।
प्राप्यते विपुलस्स्वर्गो देवानामपि वल्लभः
॥१६॥ब्रह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ।
ब्राह्मण्यात्सकलं प्राप्य मोक्षश्चापि मुनीश्वर
॥१७॥तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः ।
साधनं सर्ववर्गस्य रक्षेद्ब्राह्मण्यमुत्तमम्
॥१८॥व्यास उवाच
संग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम ।
एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर
॥१९॥सनत्कुमार उवाच
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति संग्रामे यदवाप्नुयात्
॥२०॥इति तत्त्वविदः प्राहुर्यज्ञकर्मविदस्सदा ।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम्
॥२१॥धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।
यश्शूरो वांछते युद्धं विमृन्दन्परवाहिनीम्
॥२२॥तस्य धर्मार्थ कामाश्च यज्ञश्चैव सदक्षिणः ।
परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति
॥२३॥विष्णुलोके स जायेत यश्च युद्धेऽपराजितः ।
अश्वमेधानवाप्नोति चतुरो न मृतस्स चेत्
॥२४॥यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनी मुखे ।
सम्मुखो वर्तते शूरस्स स्वर्गान्न निवर्तते
॥२५॥राजा वा राजपुत्रो वा सेनापतिरथापि वा ।
हतक्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत्
॥२६॥यावंति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे ।
तावतो लभते लोकान्सर्वकामदुघाऽक्षयान्
॥२७॥वीरासनं वीरशय्या वीरस्थानस्थितिस्स्थिरा ।
सर्वदा भवति व्यास इह लोके परत्र च
॥२८॥गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च ।
ये मृतास्ते सुखं यांति यथा सुकृतिनस्तथा
॥२९॥यः कश्चिद्ब्राह्मणं हत्वा पश्चात्प्राणान्परित्यजेत् ।
तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते
॥३०॥क्रव्यादैर्दतिभिश्चैव हतस्य गतिरुत्तमा ।
द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया
॥३१॥शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि ।
आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः .
॥३२॥युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् ।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः
॥३३॥भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् ।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत्
॥३४॥आततायिनमायांतमपि वेदांतगं द्विजम् ।
जिघांसंतं जिघांसेत्तु न तेन ब्रह्महा भवेत्
॥३५॥हंतव्योऽपि न हंतव्यः पानीयं यश्च याचते ।
रणे हत्वातुरान्व्यास स नरो ब्रह्महा भवेत्
॥३६॥व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम् ।
धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत्
॥३७॥एवं विचार्य्य सद्धीमान्भवेत्प्रीत्याः रणप्रियः ।
सजन्मनः फलं प्राप्य परत्रेह प्रमोदते
॥३८॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥