वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे
सनत्कुमार उवाच
वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे ।
उत्तरे तु समुद्रस्य भारती यत्र संसृतिः
॥१॥नवयोजनसाहस्रो विस्तारोऽस्य महामुने ।
स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः
॥२॥यतस्संप्राप्यते पुंभिस्स्वर्गो नरक एव च ।
भारतस्यापि वर्षस्य नव भेदान्ब्रवीमि ते
॥३॥इंद्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः
॥४॥अयं तु नवमस्तेषां द्वीपस्सागरसंभृतः ।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः
॥५॥पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः ।
पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः
॥६॥ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः ।
इज्या युद्धपणा सेवा वर्तयन्तो व्यवस्थिताः
॥७॥महेंद्रो मलयस्सह्यः सुदामा चर्क्षपर्वतः ।
विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः।
वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने ।
सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि।
नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः ।
विंध्योद्भवा महानद्यस्सर्वपापहराश्शुभाः।
गोदावरी भीमरथी तापीप्रमुखनिम्नगाः ।
गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः
॥११॥सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा ।
कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः
॥१२॥त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवा स्मृताः ।
ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसंभवाः
॥१३॥नानाजनपदास्तेषु मंडलेषु वसन्ति वै ।
आसां पिबंति पानीयं सरत्सु विविधेषु च
॥१४॥चत्वारि भारते वर्षे युगान्यासन्महामुने ।
कृतादीनि न चान्येषु द्वीपेषु प्रभवंति हि
॥१५॥दानानि चात्र दीयंते सुकृतैश्चात्र याज्ञिकैः ।
तपस्तपंति यतयः परलोकार्थमादरात्
॥१६॥यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने ।
अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः
॥१७॥कदाचिल्लभते मर्त्यस्सहस्रैर्मुनिसत्तम ।
अत्र जन्मसहस्राणां मानुष्यं पुण्यसंचयैः
॥१८॥स्वर्गापवर्गास्पदमार्गभूते धन्यास्तु ते भारतभूमिभागे ।
गायंति देवाः किल गीतकानि भवंति भूयः पुरुषास्सुरास्ते
॥१९॥अवाप्य मानुष्यमयं कदाचिद्विहृत्य शंभोः परमात्मरूपे ।
फलानि सर्वाणि तु कर्मजानि यास्याम्यहं तत्तनुतां हि तस्य
॥२०॥आप्स्यंति धन्याः खलु ते मनुष्याः सुखैर्युताः कर्मणि सन्निविष्टाः ।
जनुर्हि येषां खलु भारतेऽस्ति ते स्वर्गमोक्षोभयलाभवन्तः
॥२१॥लक्षयोजनविस्तारस्समस्तपरिमण्डलः ।
जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः
॥२२॥संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् ।
ततो हि द्विगुणो ब्रह्मन्प्लक्षद्वीपः प्रकीर्तितः
॥२३॥गोमंतश्चैव चन्द्रश्च नारदो दर्दुरस्तथा ।
सोमकस्सुमनाश्शैलो वैभ्राजश्चैव सत्तमः
॥२४॥वर्षाचलेषु रम्येषु सहितास्सततं प्रजाः ।
वसंति देवगंधर्वा वर्षेष्वेतेषु नित्यशः
॥२५॥नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् ।
दश वर्षसहस्राणि तत्र जीवंति मानवाः
॥२६॥अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा ।
अमृता सुकृता चैव सप्तैवात्र च निम्नगाः
॥२७॥क्षुद्रनद्यस्तथा शैलास्तत्र संति सहस्रशः ।
ताः पिबंति सुसंहृष्टा नदीर्जनपदास्तु ते
॥२८॥न तत्रापि युगावस्था यथास्थानेषु सप्तसु ।
त्रेतायुगसमः कालस्सर्वदैव महामुने
॥२९॥विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ।
कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः
॥३०॥प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम ।
इज्यते तत्र भगवाञ्छंकरो लोकशंकरः
॥३१॥हरिश्च भगवान्ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः ।
संक्षेपेण तथा भूयश्शाल्मलिं त्वं निशामय
॥३२॥सप्तवर्षाणि तत्रैव तेषां नामानि मे शृणु ।
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा
॥३३॥वैकलो मानसश्चैव सुप्रभस्सप्तमो मुने ।
शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः
॥३४॥द्विगुणेन समुद्रेण सततं संवृतः स्थितः ।
वर्षाभिव्यंजका नद्यस्तासां नामानि मे शृणु
॥३५॥शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ।
निवृत्तिः सप्तमी तासां पुण्यतोया सुशीतलाः
॥३६॥सप्तैव तानि वर्षाणि चतुर्वर्णायुतानि च ।
भगवन्तं सदा शंभुं यजंते विविधैर्मखैः
॥३७॥देवानां तत्र सान्निध्यमतीव सुमनोरमे ।
एष द्वीपस्समुद्रेण सुरोदेन समावृतः
॥३८॥द्विगुणेन कुशद्वीपः समंताद्बाह्यतः स्थितः ।
वसंति तत्र दैतेया मनुजैस्सह दानवाः
॥३९॥तथैव देवगन्धर्वा यक्षाः किंपुरुषादयः ।
वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः
॥४०॥तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्द्दनम् ।
यजंति च तथेशानं सर्वकामफलप्रदम्
॥४१॥कुशेशयो हरिश्चैव द्युतिमान्पुष्पवांस्तथा ।
मणिद्रुमो हेमशैलस्सप्तमो मन्दराचलः
॥४२॥नद्यश्च सप्त तासां तु नामानि शृणु तत्त्वतः ।
धूतपापा शिवा चैव पवित्रा संमितिस्तथा
॥४३॥विद्या दंभा मही चान्या सर्वपापहरास्त्विमाः ।
अन्यास्सहस्रशस्संति शुभापो हेमवालुकाः
॥४४॥कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः ।
क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान्
॥४५॥द्विगुणेन समुद्रेण दधिमंडेन चावृतः ।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु
॥४६॥क्रौञ्चश्च वामनश्चैव तृतीयश्चांधकारकः ।
दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः
॥४७॥निवसंति निरातंका वर्षशैलेषु तेषु वै ।
सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः
॥४८॥ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्राश्चानुक्रमोदिताः ।
संति तत्र महानद्यस्सप्तान्यास्तु सहस्रशः
॥४९॥गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
शांतिश्च पुंडरीका च याः पिबन्ति पयश्शुभम्
॥५०॥भगवान्पूज्यते तत्र योगरुद्रस्वरूपवान् ।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः
॥५१॥द्विगुणेनाद्रयस्सप्त तेषां नामानि मे शृणु ।
पूर्वे तत्रोदयगिरिर्जलधारः परे यतः
॥५२॥पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी ।
शाकस्तत्र महावृक्षस्सिद्धगंधर्वसेवितः
॥५३॥तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
नद्यश्चात्र महापुण्यास्सर्वपापभयापहाः
॥५४॥सुकुमारी कुमारी च नलिनी वेणुका तथा ।
इक्षुश्च रेणुका चैव गभस्तिस्सप्तमी तथा
॥५५॥अन्यास्सहस्रशस्तत्र क्षुद्रनद्यो महामुने ।
महीधरास्तथा संति शतशोऽथ सहस्रशः
॥५६॥धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः ।
वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम्
॥५७॥शाकद्वीपे तु वै सूर्य्यः प्रीत्या जनपदैस्सदा ।
यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः
॥५८॥क्षीरोदेनावृतस्सोऽपि द्विगुणेन समंततः ।
क्षीराब्धिस्सर्वतो व्यास पुष्कराख्येन संवृतः
॥५९॥द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः ।
योजनानां सहस्राणि पंचैवोर्ध्वसमुच्छ्रितः
॥६०॥तानि चैव तु लक्षाणि सर्वतो वलयाकृति ।
पुष्करद्वीपवलयो मध्येन विभजंति च ।
तेनैव वलया कारा द्वीपवर्षसमाकृतिः ।
दशवर्षसहस्राणि तत्र जीवंति मानवाः
॥६२॥निरामया वीतशोका रागद्वेषविवर्जिताः ।
अधर्मो न मतस्तेषां न बंधवधकौ मुने
॥६३॥सत्यानृते न तस्यास्तां सदैव वसतिस्सदा ।
तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः
॥६४॥वर्षश्चायं तु कालेय भौम स्वर्गोपमो मतः ।
सर्वस्य सुखदः काले जरारोगविवर्जितः
॥६५॥पुष्करे धातकीखण्डे महावीते महामुने ।
न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम्
॥६६॥तस्मिन्निवसते ब्रह्मा पूज्यमानस्सुरासुरैः ।
स्वादूदकेनांबुधिना पुष्करः परिवेष्टितः
॥६७॥एवं द्वीपास्समुद्रैस्तु सप्त सप्तभिरावृताः ।
द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः
॥६८॥उक्तातिरिक्तता तेषां समुद्रेषु समानि वै ।
पयांसि सर्वदाऽल्पत्वं जायते न कदाचन
॥६९॥स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तमः ।
तथेन्दुवृद्धौ सलिलमूर्द्ध्वगं भवति ध्रुवम्
॥७०॥उदयास्तमनेत्विंदोर्वर्द्धंत्यापो ह्रसन्ति च ।
अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः
॥७१॥अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम् ।
समुद्राणां मुनिश्रेष्ठो सर्वेषां कथितं तव
॥७२॥भोजनं पुष्करद्वीपे प्रजास्सर्वाः सदैव हि ।
खंडस्य कुर्वते विप्र तत्र स्वयमुपस्थितम्
॥७३॥स्वांगदो यस्य पुरतो नास्ति लोकस्य संस्थितिः ।
द्विगुणा हिरण्मयी भूमिस्सर्वजंतुविवर्जिता
॥७४॥लोकालोकस्ततश्शैलस्सहस्राण्यचलो हि सः ।
उच्छ्रयेण हि तावंति योजनायुतविस्तृतः
॥७५॥तमश्चांडकटाहेन सेयमुर्वी महामुने ।
पंचाशत्कोटिविस्तारा सद्वीपा समहीधरा
॥७६॥आधारभूता सर्वेषां सर्वभूतगुणाधिका ।
सेयं धात्री च कालेय सर्वेषां जगतामिला
॥७७॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तदीपवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥