शिवमाहात्म्यवर्णनम्
सनत्कुमार उवाच
एतच्छ्रुत्वा वचस्तस्य सोब्रवीत्तं महामुनिम् ।
विस्मयं परमं गत्वोपमन्युं शांतमानसम्
॥१॥वासुदेव उवाच
धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती ।
यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे
॥२॥दर्शनं मुनिशार्दूल दद्यात्स भगवाञ्छिवः ।
अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ
॥३॥उपमन्युरुवाच
अचिरेणैव कालेन महादेवं न संशयः ।
तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम
॥४॥षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् ।
सपत्नीकात्कथं नो दास्यते देवो वरान्हरे
॥५॥पूज्योसि दैवतैस्सर्वैः श्लाघनीयस्सदा गुणैः ।
जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत
॥६॥तेन जपप्रभावेण सत्यं द्रक्ष्यसि शंकरम् ।
आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात्
॥७॥जपो नमश्शिवायेति मंत्रराजमिमं हरे ।
सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम्
॥८॥सनत्कुमार उवाच
एवं कथयतस्तस्य महादेवाश्रिताः कथाः ।
दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस
॥९॥नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ।
मंत्रमध्यापितं शार्वमाथर्वशिरसं महत्
॥१०॥जटी मुण्डी च सद्योऽसौ बभूव सुसमाहितः ।
पादांगुष्ठोद्धृततनुस्तेपे चोर्द्ध्वभुजस्तथा
॥११॥संप्राप्ते षोडशे मासि संतुष्टः परमेश्वरः ।
पार्वत्या सहितश्शंभुर्ददौ कृष्णाय दर्शनम्
॥१२॥पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् ।
ब्रह्माद्यैस्स्तूयमानं तु पूजितं सिद्धकोटिभिः
॥१३॥दिव्यमाल्याम्बरधरं भक्तिनम्रैस्सुरासुरैः ।
प्रणतं च विशेषेण नानाभूषणभूषितम्
॥१४॥सर्वाश्चर्यमयं कांतं महेशमजमव्ययम् ।
नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम्
॥१५॥श्रीकृष्णः प्रांजलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
ईदृशं शंकरं प्रीतः प्रणनाम महोत्सवः
॥१६॥नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा ।
सहस्रनाम्ना देवेशं तुष्टाव नतकंधरः
॥१७॥ततो देवास्सगंधर्वा विद्याधरमहोरगाः ।
मुमुचुः पुष्पवृष्टिं च साधुवादान्मनोनुगान्
॥१८॥पार्वत्याश्च मुखं दृष्ट्वा भगवान्भक्तवत्सलः ।
उवाच केशवं तुष्टो रुद्रश्चाथ बिडौजसा
॥१९॥श्रीमहादेव उवाच
कृष्णं जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् ।
वृणीष्व त्वं वरान्मत्तः पुण्यांस्त्रैलोक्यदुर्लभान्
॥२०॥सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा कृष्णः प्रांजलिरादरात् ।
प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः
॥२१॥कृष्ण उवाच
देवदेव महादेव याचेऽहं ह्युत्तमान्वरान् ।
त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान्महेश्वर
॥२२॥तव धर्म्मे मतिर्नित्यं यशश्चाप्रचलं महत् ।
त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति
॥२३॥पुत्राणि च दशाद्यानां पुत्राणां मम संतु वै ।
वध्याश्च रिपवस्सर्वे संग्रामे बलदर्पिताः
॥२४॥अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो ।
योगिनामपि सर्वेषां भवेयमतिवल्लभः
॥२५॥इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते ।
सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः
॥२६॥सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा तमाह भगवान्भवः ।
सर्वं भविष्यतीत्येवं पुनस्स प्राह शूलधृक्
॥२७॥साम्बो नाम महावीर्यः पुत्रस्ते भविता बली ।
घोरसंवर्तकादित्यश्शप्तो मुनिभिरेव च
॥२८॥मानुषो भवितासीति स ते पुत्रो भवि ष्यति ।
यद्यच्च प्रार्थितं किंचित्तत्सर्वं च लभस्व वै
॥२९॥सनत्कुमार उवाच
एवं लब्ध्वा वरान्सर्वाञ्छ्रीकृष्णः परमेश्वरात् ।
नानाविधाभिर्बह्वीभिस्स्तुतिभिस्समतोषयत्
॥३०॥तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला ।
वासुदेवं महात्मानं शंभुभक्तं तपस्विनम्
॥३१॥पार्वत्युवाच
वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ ।
गृहाण मत्तश्च वरान्मनोज्ञान्भुवि दुर्लभान्
॥३२॥सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्याः पार्वत्यास्स यदूद्वहः ।
उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा
॥३३॥श्रीकृष्ण उवाच
देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे ।
तपसाऽनेन सत्येन ब्राह्मणान्प्रति मास्मभूत्
॥३४॥द्वेषः कदाचिद्भद्रं पूजयेयं द्विजान्सदा ।
तुष्टौ च मातापितरौ भवेतां मम सर्वदा
॥३५॥सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः ।
कुले प्रभृति रुचिता ममास्तु तव दर्शनात्
॥३६॥तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु ।
यतीनामतिथीनां च सहस्राण्यथ सर्वदा
॥३७॥भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् ।
बांधवैस्सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः
॥३८॥देवि भार्य्यासहस्राणां भवेयं प्राणवल्लभः ।
अक्षीणा काम्यता तासु प्रसादात्तव शांकरि
॥३९॥आसां च पितरो लोके भवेयुः सत्यावादिनः ।
इत्याद्याः सुवरास्संतु प्रसादात्तव पार्वति
॥४०॥सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता ।
एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा
॥४१॥तस्मिंस्तांश्च वरान्दत्त्वा पार्वतीपरमेश्वरौ ।
तत्रैवांतश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम्
॥४२॥कृष्णः कृतार्थमात्मानममन्यत मुनीश्वरः ।
उपमन्योर्मुनराशु प्रापाश्रममनुत्तमम्
॥४३॥प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः ।
तया वृत्तं च तस्मै तत्समाचष्टोपमन्यवे
॥४४॥स च तं प्राह कोऽन्यस्स्याच्छर्वाद्देवाज्जनार्द्दन ।
महादानपतिर्लोके क्रोधे वाऽतीव दुस्सहः
॥४५॥ज्ञाने तपसि वा शौर्य्ये स्थैर्य्ये वा पद एव च ।
शृणु शंभोस्तु गोविन्द देवैश्वर्य्यं महायशाः
॥४६॥तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छंभोस्तु भक्तिमान् ।
पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः
॥४७॥उपमन्युरुवाच
भगवाञ्शंकरः पूर्वं ब्रह्मलोके महात्मना ।
स्तुतो नामसहस्रेण दण्डिना ब्रह्मयोगिना
॥४८॥सांख्याः पठंति तद्गीतं विस्तीर्णं च निघंटवत् ।
दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम्
॥४९॥स्मरन्नित्यं शंकरं त्वं गच्छ कृष्ण गृहं सुखी ।
भविष्यसि सदा तात शिवभक्तगणाग्रणीः
॥५०॥इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् ।
मनसा संस्मरञ्शंभुं केशवो द्वारकां ययौ
॥५१॥सनत्कुमार उवाच
एवं कृष्णस्समाराध्य शंकरं लोकशंकरम् ।
कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा
॥५२॥तथा दाशरथी रामश्शिवमाराध्य भक्तितः ।
कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत्
॥५३॥तपस्तप्त्वाऽतिविपुलं पुरा रामो गिरौ मुने ।
शिवाद्धनुश्शरं चापं ज्ञानं वै परमुत्तमम्
॥५४॥रावणं सगणं हत्वा सेतुं बद्ध्वांभसांनिधौ ।
सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम्
॥५५॥तथा च भार्गवो रामो ह्याराध्य तपसा विभुम् ।
निरीक्ष्य दुःखितश्शर्वात्पितरं क्षत्रियैर्हतम्
॥५६॥तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् ।
त्रिस्सप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात्
॥५७॥अजेयश्चामरश्चैव सोऽद्यापि तपसांनिधिः ।
लिंगार्चनरतो नित्यं दृश्यते सिद्धचारणैः
॥५८॥महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति ।
कल्पांते पुनरेवासावृषिस्थानमवाप्स्यति
॥५९॥असितस्यानुजः पूर्वं पीडया कृतवांस्तपः ।
मूलग्राहेण विश्वस्य देवलो नाम तापसः
॥६०॥पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् ।
अधर्म्यं धर्ममल मल्लिंगमारध्य कामदम्
॥६१॥चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले ।
वसिष्ठशापाद्गृत्समदो दण्डकारण्य एकलः
॥६२॥हृदये संस्मन्भक्त्या प्रवणेन युतं शिवम् ।
तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत्
॥६३॥अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः ।
शंकरेण कृतः प्रीत्या नित्यं लम्बोदरानुगः
॥६४॥गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् ।
कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत्
॥६५॥चतुष्पादं सरस्वत्याः पारंगत्वं च शाश्वतम् ।
न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः
॥६६॥वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् ।
पराशराय च ददौ जरामृत्युविवर्जितम्
॥६७॥मांडव्यश्शंकरणैव जीवं दत्त्वा विसर्जितः ।
वर्षाणां दश लक्षाणि शूलाग्रा दवरोपितः
॥६८॥दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि ।
पुत्रं तु गालवं यश्च पूर्वमासीद्गृहाश्रमी
॥६९॥गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् ।
भार्य्यामुवाच यः कश्चिदवश्यं निर्धनो यतः
॥७०॥स तु वाच्यो भवत्या च न दृश्यंत इति प्रियः ।
अतिथेरागतस्यापि किं दास्यामि गृहे वसन्
॥७१॥कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः ।
तामुवाच स भर्ता ते क्व गतश्चेति तं च सा
॥७२॥प्राह भर्ता मदीयस्तु सांप्रतं न च दृश्यते ।
स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा
॥७३॥गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः ।
विश्वामित्रस्यनुज्ञातस्तत्पुत्रो गालवस्तथा
॥७४॥गृहमागत्य मातुस्स श्रुत्वा शापं सुदारुणम् ।
आराध्य शंकरं देवं पूजां कृत्वा तु शांभवीम्
॥७५॥गृहादसौ विनिष्क्रांतस्संस्मरञ्शंकरं हृदा ।
अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम्
॥७६॥महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः ।
धनवान्पुत्रवांश्चैव मृतोऽहं जीवितः पुनः
॥७७॥इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् ।
वक्तुं शंभोश्च गुणाञ्शेषस्यापि न मुखानि स्युः
॥७८॥इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥