मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — उमासंहिता, अध्याय १४

3
उमासंहिता · 14

सामान्यदानवर्णनम्

सनत्कुमार उवाच

शस्तानि घोरदानानि महादानानि नित्यशः ।

पात्रेभ्यस्तु प्रदेयानि आत्मानं तारयंति च

॥१॥

हिरण्यदानं गोदानं भूमिदानं द्विजोत्तम ।

गृह्णंतो वै पवित्राणि तारयंति स्वमेव तम्

॥२॥

सुवर्णदानं गोदानं पृथिवीदानमेव च ।

एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते

॥३॥

तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ।

द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती

॥४॥

नित्य ह्यनुडुहो गावच्छत्रं वस्त्रमुपानहौ ।

देयानि याचमानेभ्यः पानमन्नं तथैव च

॥५॥

संकल्पविहितोयोऽर्थो ब्राह्मणेभ्यः प्रदीयते ।

अर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते

॥६॥

कनकं च तिला नागाः कन्या दासी गृहं रथः ।

मणयः कपिला गावो महादानानि वै दश

॥७॥

गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा ।

वदान्यांस्तारयेत्सद्यो ह्यात्मानं च न संशयः

॥८॥

सुवर्णं ये प्रयच्छंति नराश्शुद्धेन चेतसा ।

देवतास्तं प्रयच्छंति समंतादिति मे श्रुवम्

॥९॥

अग्निर्हि देवतास्सर्वाः सुवर्णं च हुताशनः ।

तस्मात्सुवर्णं दत्त्वा च दत्तास्स्युस्सर्वदेवताः

॥१०॥

पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् ।

सौवर्णं च विशेषेण यत्कृतं पृथुना पुरा

॥११॥

दीयमानां प्रपश्यंति पृथ्वीं रुक्मसमन्विताम् ।

सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम्

॥१२॥

अथान्यच्च प्रवक्ष्यामि दानं सर्वोत्तमं मुने ।

कांतारं यन्न पश्यंति यमस्य बहुदुःखदम्

॥१३॥

कुर्यात्कांतारदानं हि विधिना शुद्धमानसः ।

न्यायार्जितेन द्रव्येण वित्तशाठ्यविवर्जितः

॥१४॥

तिलप्रस्थमयीं कृत्वा धेनुं सर्वगुणान्विताम् ।

धेनुवत्सं सुवर्णं च सुदिव्यं सर्वलक्षणम्

॥१५॥

पद्ममष्टदलं कृत्वा कुंकुमाक्ताक्षतैश्शुभैः ।

पूजयेत्तत्र रुद्रादीन्सर्वान्देवान्सुभक्तितः

॥१६॥

एवं संपूज्य तां दद्याद्ब्राह्मणाय स्वशक्तितः ।

सरत्नां सहिरण्यां च सर्वाभरणभूषिताम्

॥१७॥

ततो नक्तं समश्नीयाद्दीपान्दद्यात्तु विस्तरात् ।

कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः

॥१८॥

एवं यः कुरुते सम्यग्विधानेन स्वशक्तितः ।

यममार्गभयं घोरं नरकं च न पश्यति

॥१९॥

कृत्वा पापान्यशेषाणि सबंधुस्ससुहृज्जनः ।

दिवि संक्रीडते व्यास यावदिन्द्राश्चतुर्दश

॥२०॥

विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ।

न तेन सदृशं व्यास परं दानं प्रकीर्तितम्

॥२१॥

प्रयच्छते यः कपिलां सवत्सां स्वर्णशृंगिकाम् ।

कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम्

॥२२॥

तैस्तैर्गुणैः कामदुघा भूत्वा सा गौरुपैति तम् ।

प्रदातारं नरं व्यास परत्रेह च जन्मनि

॥२३॥

यद्यदिष्टतमं लोके यदस्ति दयितं गृहे ।

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता

॥२४॥

तुलापुरुषदानं हि दानानां दानमुत्तमम् ।

तुलासंरोहणं कार्यं यदीच्छेच्छ्रेय आत्मनः

॥२५॥

यत्कृत्वा मुच्यते पापैर्वधबंधकृतोद्भवैः ।

तुलादानं महत्पुण्यं सर्वपापक्षयंकरम्

॥२६॥

कृत्वा पापान्यशेषाणि तुलादानं करोति यः ।

सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम्

॥२७॥

पापं कृतं यद्दिवसे निशायां द्विसंध्योर्मध्यदिने निशांते ।

कालत्रये कायमनोवचोभिस्तुलापुमान्वै तदपाकरोति

॥२८॥

बालेन वृद्धेन मया हि यूना विजानता ज्ञानपरेण पापम् ।

तत्सर्वमेवाशु कृतं मदीयं तुलापुमान्वै हरतु स्मरारिः

॥२९॥

पात्रे प्रयुक्तं द्रविणं मयाऽद्य प्रमाणपूर्णं निहितं तुलायाम् ।

तेनैव सार्धं तु ममावशेषं कृताकृतं यत्सुकृतं समेतु

॥३०॥

सनत्कुमार उवाच

एवमुच्चार्य्य तं दद्यात् द्विजेभ्यः सर्वदा हितः ।

नैकस्यापि प्रदातव्यं न निस्तारस्ततो भवेत्

॥३१॥

ददात्येवं तु यो व्यास तुलापुरुषमुत्तमम् ।

हत्वा पापं दिव्यं तिष्ठेद्यावदिन्द्राश्चतुर्द्दश

॥३२॥

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥